01 भिक्षणे निमित्तमाचार्यो विवाहो ...{Loading}...
भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो मातापित्रोर्बुभूर्षार्हतश्च नियमविलोपः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- The reasons for (which) begging (is permissible are), (the desire to collect the fee for) the teacher, (the celebration of) a wedding, (or of) a Śrauta-sacrifice, the desire to keep one’s father and mother, and the (impending) interruption of ceremonies performed by a worthy man. 1
हरदत्त-टीका
सूत्रम्
भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो मातापित्रोर्बुभूर्षाऽर्हतश्च नियमविलोपः ॥१॥
टिप्पनी
भिक्षणं याचनम् । तत्राऽऽचार्यादयो निमित्तम् । बुभूर्षा भर्तुमिच्छा। अर्हतो विद्यादिमतोऽग्निहोत्रादिनियमे योग्यस्याऽर्थस्याऽभावेन लोपः ॥१॥
02 तत्र गुणान्समीक्ष्य यथाशक्ति ...{Loading}...
तत्र गुणान्समीक्ष्य यथाशक्ति देयम् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The person asked for alms) must examine the qualities (of the petitioner) and give according to his power.
हरदत्त-टीका
सूत्रम्
तत्र गुणान् समीक्ष्य यथाशक्ति देयम् ॥ २॥
टिप्पनी
तत्रैवंभूते भिक्षणे याचतः श्रुतवृत्तादिकान् गुणान् समीक्ष्य शक्त्यनुरूपमवश्यं देयम् । अदाने 2प्रत्यवेयात् । गौतमस्तु निमित्तान्तरमप्याह— 3 ‘गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनध्वंसयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि । भिक्षमाणेषु कृतान्नमितरेष्वि’ति । 4वैश्वजितो विश्वजिद्यागस्य कर्ता सर्वस्वदक्षिणः ॥२॥
03 इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् ...{Loading}...
इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् । न तदाद्रियेत ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- But if persons ask for alms for the sake of sensual gratification, that is improper; he shall not take heed of that.
हरदत्त-टीका
सूत्रम्
5इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् ॥ ३ ॥
टिप्पनी
इन्द्रियद्वारा आत्मनः प्रीतिरिन्द्रियप्रीतिः । तामर्थयमानो यो भिक्षते स्रक्चन्दनादि तन्मूल्यं वा । तद्भिक्षणं नियमेन दानस्य निमित्तं न भवति ॥३॥
04 न तदाद्रियेत ...{Loading}...
न तदाद्रियेत
सर्वाष् टीकाः ...{Loading}...
Bühler
he shall not take heed of that.
हरदत्त-टीका
सूत्रम्
न तदाद्रियेत ॥ ४॥
टिप्पनी
तस्मात् न तदाद्रियेत । अदानेऽपि न प्रत्यवायः । विवाहोऽपि द्वितीयो न निमित्तं सत्यां प्रथमायां धर्मप्रजासम्पन्नायाम् । तदर्थमिदं वचनम् । अन्यत्र प्राप्त्यभावात् ॥
05 स्वकर्म ब्राह्मणस्याऽध्ययनमध्यापनं ...{Loading}...
स्वकर्म ब्राह्मणस्याध्ययनमध्यापनम्यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- The lawful occupations of a Brāmaṇa are, 6 studying, teaching, sacrificing for himself, officiating as priest for others, giving alms, receiving alms, inheriting, and gleaning corn in the fields;
हरदत्त-टीका
सूत्रम्
स्वकर्म ब्राह्मणस्याऽध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं सिलोञ्छः ॥ ५॥
टिप्पनी
‘सर्ववर्णानां स्वधर्मानुष्ठान( २.२.२) इत्युक्तम् । तेऽमी स्वधर्मा उच्यन्ते-पुत्राय दीयत इति दायः। तमादत्त इति दायादः । तस्व भावो दायाद्यम्, दायस्वीकारः । क्षेत्रादिषु पतितानि मञ्जरीभूतानि ततश्च्युतानि वा धान्यानि सिलशब्दस्याऽर्थः । तेषामुञ्छनमंगुलीभिर्नखैर्वाऽऽदानं सिलोञ्छः । एतान्यध्ययनादीन्यष्टौ ब्राह्मणस्य स्वकर्म । तेष्वध्ययनयज्ञदानानि द्विजातिसामान्येन कर्तव्यतया नियम्यन्ते । इतराण्यर्थितया द्रव्यार्जने प्रवृत्तस्योपायान्तरानिवृत्त्यर्थान्युपदिश्यन्ते-अध्यापनादिभिरेव द्रव्यमार्जयेन्न चौर्यादिभिरिति 2 ॥ ५॥
06 अन्यच्चापरिगृहीतम् ...{Loading}...
अन्यच्चापरिगृहीतम् +++(यथा मूलफलादिः)+++५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (he may live by taking) other things which belong to nobody. 7
हरदत्त-टीका
सूत्रम्
अन्यच्चाऽपरिगृहीतम् ॥ ६ ॥
टिप्पनी
यच्चाऽन्यत् केनाप्यपरिगृहीतमारण्यमूलफलादि तेनापि । जीवेदिति प्रकरणात् गम्यते । एतेन निधिर्व्याख्यातः ॥ ६॥
07 एतान्येव क्षत्रियस्याऽध्यापन ...{Loading}...
एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The lawful occupations) of a Kṣatriya are the same, with the exception of teaching, officiating as priest, and receiving alms. (But) governing and fighting must be added. 8
हरदत्त-टीका
सूत्रम्
एतान्येव क्षत्रियस्याऽध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ॥ ७ ॥
टिप्पनी
एतान्येव क्षत्रियस्याऽपि स्वकर्म । अध्यापनादीनि त्रीणि वर्जयित्वा । दण्डलब्धं युद्धलब्धं चाऽधिकम् ॥७॥
08 क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जङ् कृषिगोरक्ष्यवाणिज्याधिकम् ...{Loading}...
क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष्यवाणिज्याधिकम् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The lawful occupations) of a Vaiśya are the same as those of a Kṣatriya, with the exception of governing and fighting. (But in his case) agriculture, the tending of cattle, and trade must be added. 9
हरदत्त-टीका
सूत्रम्
क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष्य वणिज्याऽधिकम् ॥ ८॥
टिप्पनी
गोरक्ष्यं गवां रक्षणम् । भावे ण्यत्प्रत्ययः। वणिजो भावो वणिज्या क्रयविक्रयव्यवहारः, कुसीदं च । 3 दूतवणिग्भ्यां चेति यत्प्रत्ययः ॥ ८॥
09 नाननूचानमृत्विजं वृणीते न ...{Loading}...
नाननूचानमृत्विजं वृणीते न पणमानम् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He (shall) not choose (for the performance of a Śrauta-sacrifice) a priest who is unlearned in the Veda, nor one who haggles (about his fee).
हरदत्त-टीका
सूत्रम्
नाऽनूचानमृत्विजं वृणीते न पणमाणम् ॥ ९ ॥
टिप्पनी
साङ्गस्य वेदस्याऽध्येता प्रवक्ता चाऽनूचानः । अतादृशमृत्विजं न वृणीते नाऽप्येतावद्देयमिति परिभाषमाणम् ॥९॥
10 अयाज्योऽनधीयानः ...{Loading}...
अयाज्योऽनधीयानः ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (A priest) shall not officiate for a person unlearned in the Veda.
हरदत्त-टीका
सूत्रम्
अयाज्योऽनधीयानः ॥ १० ॥
टिप्पनी
अनधीतवेदं न याजयेत् तदानीमपेक्षितं मन्त्रं यथाशक्ति वाचयन् ॥ १० ॥
11 युद्धे तद्योगा यथोपायमुपदिशन्ति ...{Loading}...
युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- In war (Kṣatriyas) shall act in such a manner as those order, who are learned in that (art of war).
हरदत्त-टीका
सूत्रम्
युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम् ॥ ११ ॥
प्रस्तावः
क्षत्रियस्य युद्धं स्वकर्मेत्युक्तम् । तत्कथं कर्तव्यमित्यत आह—
टिप्पनी
युद्धविषये तथा प्रतिपत्तव्यं यथा तद्योगा उपायमुपदिशन्ति तस्मिन्युद्ध कर्मणि युद्धशास्त्रे वा येषामभियोगः ते तद्योगाः ॥ ११ ॥
12 न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्तानामार्या वधम् परिचक्षते ...{Loading}...
न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराङावृत्तानामार्या वधं परिचक्षते ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- The Āryas forbid the slaughter of those who have laid down their arms, of those who (beg for mercy) with flying hair or joined hands, and of fugitives. 10
हरदत्त-टीका
सूत्रम्
न्यस्तायुधप्रकीर्णकेशमाञ्जलिपराङावृत्तानामार्या वधं परिचक्षते ॥ १२ ॥
टिप्पनी
न्यस्तायुधः त्यक्तायुधः । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः । प्राञ्जलिः कृताञ्जलिः। पराङावृत्तः पराङ्मुखः । सर्व एते भीताः । एतेषां युद्धे वधमार्यास्सन्तो गर्हन्ते । परिगणनादन्येषां वधे न दोषः। तथा च गौतमः-2 न दोषो हिंसायामाहव’ इति । न्यस्तायुधः प्रकीर्णकेशः इति विसर्जनीयं केचित्पठन्ति । सोऽपपाठः। पराङावृत्त इति ङकार छान्दसः ॥ १२॥
13 शास्त्रैरधिगतानामिन्द्रि यदौर्बल्याद्विप्रतिपन्नानां शास्ता ...{Loading}...
शास्त्रैरधिगतानामिन्द्रि यदौर्बल्याद्विप्रतिपन्नानां शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- The spiritual guide shall order those who, 11 (whilst) participating according to sacred law (in the rights of their caste), have gone astray through the weakness of their senses, to perform penances proportionate to (the greatness of) their sins, according to the precepts (of the Smṛti).
हरदत्त-टीका
सूत्रम्
शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानां शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् ॥ १३ ॥
टिप्पनी
यथाशास्त्रं गर्भाधानादिभिः संस्कारैः संस्कृताः शास्त्रैरधिगताः तेषामिन्द्रियदौर्बल्यात् अजितेन्द्रियतया विप्रतिपन्नानां स्वकर्मतश्च्युतानां निषिद्धेषु च प्रवृत्तानाम् । शास्ता शासिता आचार्यादिः । निर्वेषं प्रायश्चित्तमुपदिशेत् । यथाकर्म कर्मानुरूपम् । यथोक्तं धर्मशास्त्रेषु ॥ १३ ॥
14 तस्य चेच्छास्त्रमतिप्रवर्तेरन्रजानङ् गमयेत् ...{Loading}...
तस्य चेच्छास्त्रमतिप्रवर्तेरन्रजानं गमयेत् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (such persons) transgress their (Ācārya’s) order, he shall take them before the king.
हरदत्त-टीका
सूत्रम्
तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजानं गमयेत् ॥ १४ ॥
टिप्पनी
तस्य चेच्छासितुः शास्त्रं शासनं अतिप्रवर्तेरन् न तत्र तिष्ठेयुः राजानं गमयेत्- एवमसौ करोतीति ॥ १४ ॥
15 राजा पुरोहितन् धर्मार्थकुशलम् ...{Loading}...
राजा पुरोहितं धर्मार्थकुशलम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- The king shall (send them) to his domestic priest, who should be learned in the law and the science of governing.
हरदत्त-टीका
सूत्रम्
राजा पुरोहितं धर्मार्थकुशलम् ॥ १५ ॥
टिप्पनी
स राजा धर्मशास्त्रेष्वर्थशास्त्रेषु कुशलं च पुरोहितं गमयेत्-विनीयतामसाविति ॥ १५॥
16 स ब्राह्मणान्नियुञ्ज्यात् ...{Loading}...
स ब्राह्मणान्नियुञ्ज्यात् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall order (them to perform the proper penances if they are) Brāhmaṇas.
हरदत्त-टीका
सूत्रम्
स ब्राह्मणान्नियुञ्ज्यात् ॥ १६ ॥
टिप्पनी
स पुरोहितः ब्राह्मणाश्चेदतिक्रमणकारिणः प्रापिताः तान्नियुञ्ज्यात् अनुरूपेषु प्रायश्चित्तेषु नियुञ्जीत ॥ १६ ॥
17 बलविशेषेण वधदास्यवर्जन् नियमैरुपशोषयेत् ...{Loading}...
बलविशेषेण वधदास्यवर्जं नियमैरुपशोषयेत् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall reduce them (to reason) by forcible means, excepting corporal punishment and servitude. 12
हरदत्त-टीका
सूत्रम्
बलविशेषेण3 वधदास्यवर्जं नियमैरुपशोषयेत ॥१७॥
प्रस्तावः
अथ यदि ते तत्रापि न तिष्ठेयुः, तदा किं कर्तव्यमित्यत आह—
टिप्पनी
ततस्तान्नियमैरुपवासादिभिरुपशोषयेत् । बलविशेषेण बलानुरूपम् । वधदास्यवर्जं वधस्ताडनादि, वध दास्यं च वर्जयित्वा सर्वमन्यत् बन्धनादिकं बलानुरूपं कारयेत् यावत्ते मन्येरन् चरेम प्रायश्चित्तमिति ॥१८॥
इत्यापस्तम्बधर्मसूत्र उज्वलोपेते द्वितीयप्रश्ने दशमी कण्डिका ॥१०॥
-
- Manu IV, 251; XI, 1 seq.; Yājñ. I, 2 16. By the term arhat, I a worthy person,’ a Brāhmaṇa is here designated who has studied the Veda and performs an Agnihotra.
-
विश्वजिताऽतिरात्रेण सर्वपृष्ठेन सर्वस्वदक्षिणेन यजेत’ इत्यनेन विहितेन यागेनेष्ट्वा तत्र दत्तसर्वस्वदक्षिण इत्यर्थः ॥ ↩︎
-
इदमुत्तरं च सूत्रमेकीकृतं च. पु. । इन्द्रियमनिमित्तम् ॥ ४ ॥ तस्नान तदाद्रियते ॥५॥ इति तच्छन्दघटितं भिन्नसूत्रतया च पठितं क. पुस्तके । ↩︎
-
Manu I, 88; X, 15; Yājñ. I, 118. ↩︎
-
I.e. wild roots and fruits. ↩︎
-
Manu I, 89; X, 77, 79; Yājñ. I, 118, 119. ↩︎
-
Manu I, 90; X, 78, 79; Yājñ. loc. cit. ↩︎
-
Manu VII, 91 seq.; Yājñ. 1, 325. ↩︎
-
Haradatta explains the words Śāstrair adhigatānām, ‘who whilst participating, according to the sacred law, (in the rights of their caste,)’ by ‘who have been sanctified according to the law by the sacraments, such as the Garbhādhāna, and are entitled (to the rights and occupations of their caste).’ ↩︎
-
Probably this Sūtra is meant to give a general rule, and to exempt Brāhmaṇas in every case from corporal punishment and servitude. Manu VIII, 379-380. ↩︎