01 येन कृतावसथः स्यादतिथिर्न ...{Loading}...
येन कृतावसथः +++(=दत्ताश्रयः)+++ स्यादतिथिर्न तं प्रत्युत्तिष्ठेत्प्रत्यवरोहेद्वा पुरस्ताच्चेदभिवादितः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- On the second and following days of the guest’s stay, the host shall not rise or descend (from his couch) in order to salute his (guest), if he has been saluted before (on the first day).
हरदत्त-टीका
सूत्रम्
येन कृतावसथः स्यादतिथिर्न तं प्रत्युत्तिष्ठेत्प्रत्यवरोहेद्वा पुरस्ताच्चेदभिवादितः ॥ १॥
टिप्पनी
येन गृहस्थेनाऽतिथिः कृतावसथः स्यात् 1कृतावासः दत्तावासः स्यात् । द्वितीययान्तरिक्ष्यानित्यादिवचनात् द्वितीयादिष्वहस्सु तं प्रति न प्रत्युत्तिष्ठेत् । नाऽप्यासनात् प्रत्यवरोहेत् । स चेत्तस्मिन्नहनि पूर्वमेवाभिवादितः । अनभिवादिते तु अभिवादनार्थं प्रत्युत्तिष्ठेत्, प्रत्यवरोहेच्च ॥१॥
02 शेषभोज्यतिथीनां स्यात् ...{Loading}...
शेषभोज्यतिथीनां स्यात् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall eat after his guests. 2
हरदत्त-टीका
सूत्रम्
शेषभोज्यतिथीनां स्यात् ॥ २ ॥
टिप्पनी
‘अतिथीनेवाग्रे भोजये (२.४.११.)दित्येव सिद्धे वचनमिदं प्रमादाद्यन्न दत्तमतिथये, तन्न भुञ्जीतेत्येवमर्थम् ॥ २ ॥
03 न रसान्गृहे भुञ्जीतानवशेषमतिथिभ्यः ...{Loading}...
न रसान्गृहे भुञ्जीतानवशेषमतिथिभ्यः ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not consume all the flavoured liquids in the house, so as to leave nothing for guests. 3
हरदत्त-टीका
सूत्रम्
न रसान् गृहे भुञ्जीताऽनवशेषमतिथिभ्यः ॥ ३ ॥
टिप्पनी
आगामिभ्योऽतिथिभ्यो यथा न किञ्चित् गृहेऽवशिष्यते, तथा गव्यादयो रसा न भोज्याः । सद्यस्सम्पादयितुमशक्यत्वाद्रसानाम् ॥३॥
04 नात्मार्थमभिरूपमन्नम् पाचयेत् ...{Loading}...
नात्मार्थमभिरूपमन्नं पाचयेत् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not cause sweetmeats to be prepared for his own sake. 4
हरदत्त-टीका
सूत्रम्
नाऽऽत्मार्थमभिरूपमन्नं पाचयेत् ॥ ४ ॥
टिप्पनी
आत्मानमुद्दिश्याऽभिरूपमन्न स्वाद्वपूपादि न पाचयेत् ॥ ४॥
05 गोमधुपर्कार्हो वेदाध्यायः ...{Loading}...
गोमधुपर्कार्हो वेदाध्यायः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (A guest) who can repeat the (whole) Veda (together with the supplementary books) is worthy to receive a cow and the Madhuparka, 5
हरदत्त-टीका
सूत्रम्
गोमधुपर्कार्हो वेदाध्यायः ॥ ५ ॥
टिप्पनी
साङ्गस्य वेदस्याऽध्येता वेदाध्यायः । सोऽतिथिर्मधुपर्कमर्हति; गां च दक्षिणाम् ॥ ५ ॥
06 आचार्य ऋत्विक् स्नातको ...{Loading}...
आचार्य, ऋत्विक्, स्नातको, राजा वा धर्मयुक्तः +++(मधुपर्कार्हाः)+++६
सर्वाष् टीकाः ...{Loading}...
Bühler
- (And also) the teacher, an officiating priest, a Snātaka, and a just king (though not learned in the Veda).
हरदत्त-टीका
सूत्रम्
आचार्यं ऋत्विक्स्नातको राजा वा धर्मयुक्तः ॥ ६ ॥
टिप्पनी
अवेदाध्याया अप्य् आचार्यादयो गो-मधु-पर्कार्हाः ।
अत एव ज्ञायते—
एकदेशाध्यायिनाव् अप्य् ऋत्विगाचार्यौ भवत इति ।
धर्मयुक्त इति राज्ञो विशेषणम् ।
वाशब्दः समुच्चये ॥६॥
07 आचार्यायर्त्विजे श्वशुराय राज्ञ ...{Loading}...
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपर्कश्च ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- A cow and the Madhuparka (shall be offered) to the teacher, to an officiating priest, to a father-in-law, and to a king, if they come after a year has elapsed (since their former visit).
हरदत्त-टीका
सूत्रम्
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपर्कश्च ॥ ७ ॥
टिप्पनी
एतत् 6गृह्ये व्याख्यातम् । गौरत्र दक्षिणाधिका विधीयते ॥७॥
08 दधि मधुसंसृष्टम् मधुपर्कः ...{Loading}...
दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ८
09 अभाव उदकम् ...{Loading}...
अभाव उदकम् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- On failure (of these substances) water (mixed with honey may be used).
हरदत्त-टीका
सूत्रम्
अभाव उदकम् ॥ ९॥
टिप्पनी
दधिपयसोरलाभ उदकमपि देयम् । मधुसंसृष्टमित्येके । नेत्यन्ये, पूर्वत्र पुनर्मधुसंसृष्टग्रहणादिति ॥९॥
10 षडङ्गो वेदः ...{Loading}...
षडङ्गो वेदः १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- The Veda has six Aṅgas (auxiliary works). 8
हरदत्त-टीका
सूत्रम्
षडङ्गो वेदः ॥१०॥
प्रस्तावः
वेदाध्याय इत्यत्र विवक्षितं वेदमाह—
टिप्पनी
षड्भिरङ्गैर्युक्तोऽत्र वेदो गृह्यत इति ॥ १० ॥
11 छन्दः कल्पो व्याकरणञ् ...{Loading}...
छन्दः कल्पो व्याकरणं ज्योतिषं निरुक्तं शीक्षा छन्दोविचितिरिति ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The six auxiliary works are) the Kalpa (teaching the ritual) of the Veda, the treatises on grammar, astronomy, etymology, phonetics, and metrics.
हरदत्त-टीका
सूत्रम्
छन्दोविचितिरिति ॥ ११ ॥
प्रस्तावः
कानि तान्यज्ञानीत्यत आह-~
टिप्पनी
छन्दो वेदः । तत्कल्पयति प्रतिशाखं शाखान्तराधीतेन न्यायप्राप्तेन चाऽङ्गकलापेनोपेतस्य कर्मणः प्रयोगकल्पनयोपस्कुरुत इति छन्दः— कल्पः कल्पसूत्राणि । व्याकरण अर्थविशेषमाश्रित्य पदमन्वाचक्षाणं पदपदार्थप्रतिपादनेन वेदस्योपकारकं विद्यास्थानम् । सूर्यादीनि ज्योतींष्यधिकृत्य प्रवृत्तं शास्त्रं ज्योतिषम् । आदिवृद्ध्यभावे यत्नः कार्यः । तदप्यध्ययनोपयोगिनमनुष्ठानोपयोगिनं च कालविशेषं प्रतिपादयदुपकारकम् । निरुक्तमपि व्याकरणस्यैव कार्त्स्न्यम् । शीक्षा वर्णानां स्थानप्रयत्नादिकमध्ययनकाले कर्मणि च मन्त्राणामुच्चारणप्रकारं शिक्षयतीति । पृषोदरादित्वाद्दीर्घः। गायत्र्यादीनि छन्दांसि यया विचीयन्ते विविच्य ज्ञायन्ते, सा छन्दोविचितिः । एतान्यङ्गानि अङ्गसंस्तवादङ्गत्वम् ।
‘मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते ।
निरुक्तं श्रोत्रमुद्दिष्टं छन्दसा विचितिः पदे ।
शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान् प्रचक्षते ॥ इति ।
उपकारकत्वाच ॥ ११ ॥
12 शब्दार्थारम्भणानान् तु कर्मणां ...{Loading}...
+++(आक्षेपः -)+++ शब्दार्थारम्भणानां तु कर्मणां समाम्नायसमाप्तौ वेदशब्दः +++(तेन कल्पोऽपि वेदशब्दवाच्यस् स्यात्)+++ । तत्र +++(६ इति)+++ संख्या विप्रतिषिद्धा १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If any one should contend that) the term Veda (on account of its etymology, implying that which teaches duty or whereby one obtains spiritual merit) applies to the complete collection of (works which contain) rules for rites to be performed on the authority of precepts, (that, consequently, the Kalpa-sūtras form part of the Veda, and that thereby) the number (fixed above) for those (Aṅgas) is proved to be wrong, 9
हरदत्त-टीका
सूत्रम्
शब्दार्थारम्भणानां तु कर्मणां समाम्नायसमाप्तौ वेदशब्दस्तत्र सङ्ख्या विप्रतिषिद्धा ॥ १२ ॥
प्रस्तावः
उक्त उपकारः, अत्र चोदयति —
टिप्पनी
शब्दार्थतया यान्यारभ्यन्ते न प्रत्यक्षादिप्रमाणगोचरतया, तानि शब्दार्थारम्भणानि कर्माणि वैदिकान्यग्निहोत्रादीनि । तेषां समाम्नाय उपदेशः । तस्य समाप्तौ स यावता ग्रन्थजातेन समाप्तोऽनुष्ठानपर्यन्तो भवति, तत्र वेदशब्दो वर्तते । वेदयति धर्मं विदन्त्यनेनेति वा धर्ममिति । न च मन्त्रब्राह्मणमात्रेणाऽनुष्ठानपर्यन्त उपदेशो भवति । किं तु कल्पसूत्रैरपि सह । ततश्च तेषामपि वेदस्वरूप एवानुप्रवेशात् पञ्चैवाऽङ्गानि । तत्र षट्संख्या विप्रतिषिद्धेति ॥ १२ ॥
13 अङ्गानान् तु प्रधानैरव्यपदेश ...{Loading}...
+++(परिहारः - )+++ अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Then we answer), All those who are learned in Mīmāṃsā are agreed that (the terms Veda, Brāhmaṇa, and the like, which are applied to) the principal (works), do not include the Aṅgas (the Kalpa-sūtras and the rest). he remembers at any time during dinner,
हरदत्त-टीका
सूत्रम्
अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः ॥१३॥
प्रस्तावः
परिहरति —
टिप्पनी
अङ्गान्येव कल्पसूत्राणि न वेदस्वरूपाणि । पौरुषेयतया स्मरणात् । कतिपयान्येव हि तेषु ब्राह्मणवाक्यानि, भूयिष्ठानि स्ववाक्यानि । अङ्गानां च तेषां प्रधानवाचिभिश्शब्दैः छन्दो वेदो ब्राह्मणमित्यादिभिर्व्यपदेशो न न्याय्य इति न्यायविदां सिद्धान्तः। ताविमौ पूर्वपक्षसिद्धान्तौ 1कल्पसूत्राधिकरणे स्पष्टं द्रष्टव्यौ । यत्तूक्तं न मन्त्रब्राह्मणमात्रेण पूर्ण उपदेश इति। नैष स्थाणोरपराधो यदेनमन्धो न पश्यतीति, पुरुषापराधस्स भवति । इदं तु भवानाचष्टाम्-कल्पसूत्रकाराणामियं प्रयोगकल्पना कुतस्त्यति । न्यायोपबृंहिताभ्यां मन्त्रब्राह्मणाम्यामिति वक्तव्यम् । नान्या गतिः । एवं सति भवानपि यततां तादृशस्यामिति । ततो मन्त्रब्राह्मणाभ्यामेव पूर्णमवभोत्स्यत इति ॥१३॥
14 अतिथिन् निराकृत्य यत्र ...{Loading}...
अतिथिं निराकृत्य यत्र गते भोजने स्मरेत्ततो विरम्योपोष्य १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he remembers at any time that he has refused a guest, he shall at once leave off eating and fast on that day,
हरदत्त-टीका
सूत्रम्
अतिथिं निराकृत्य यत्र गते भोजने स्मरेत्ततो विरम्योपोष्य ॥ १४ ॥
टिप्पनी
अतिथिमागतं केनचित्प्रकारेण निराकृत्य भोजने प्रवृत्तो यत्र गते यदवस्थाप्राप्ते भोजने स्मरेत्-धिङ्मया स निराकृत इति, तत्रैव भोजनाद्विरम्य तस्मिन्नहन्युपोष्य ॥१४॥
इत्यापस्तम्बधर्मसूत्रे उज्वलोपेते द्वितीयप्रश्नेऽष्टमी कण्डिका ॥८॥
-
- Manu III, 117; Yājñ. I, 105.
-
Flavoured liquids, i.e. milk, whey, &c. ↩︎
-
Manu III, 106. ↩︎
-
Manu III, 119 and 120; Yājñ. I, 110;: Weber, Ind. Stud. X, 125. A guest is also called goghna, ‘cow-killer,’ because formerly a cow used to be killed on the arrival of a distinguished guest. The rite is described by Āśvalāyana Gṛhya-sūtra I, 24, 31-33. ↩︎
-
आप० गृ० १३. १९. ↩︎
-
Āśvalāyana Gṛhya-sūtra I, 24, 5 and 6. ↩︎
-
This Sūtra explains the term vedādhyāya, ‘(a guest) who can repeat the (whole) Veda,’ which occurs above, Sūtra 5–Haradatta. See Max Müller’s History of Ancient Sanskrit Literature, p. 111. ↩︎
-
This Sūtra and the following one are directed against those who consider the Kalpa-sūtras to be a part of the Veda, the revealed texts. See also Max Müller’s History of Ancient Sanskrit Literature, p. 95 seq. ↩︎