01 जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारञ् ...{Loading}...
जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he has any doubts regarding the caste and conduct of a person who has come to him in order to fulfil his duty (of learning the Veda), he shall kindle a fire (with the ceremonies prescribed for kindling the sacrificial fire) and ask him about his caste and conduct. 1
हरदत्त-टीका
सूत्रम्
जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् ॥ १॥
टिप्पनी
अविज्ञातपूर्वो यो धर्मार्थम् अध्ययनार्थम् आगच्छेत् उपसीदेत्
‘उपसन्नोऽस्मि भगवन्,
मैत्रेण चक्षुषा पश्य,
शिवेन मनसाऽनुगृहाण,
प्रसीद मामध्यापय
इति ।
तस्य जात्याचार-संशये सति,
अग्निम् उपसमाधाय
‘यत्र क्वचाग्निमित्याद्यन्यदुपदध्याद्’(२.२.१३,१४.) इत्य्-अन्तं कृत्वा
तत्-सन्निधौ जातिम् आचारं च पृच्छेत्-
‘किंगोत्रोऽसि सौम्य, किमाचारश् चासी’ति ॥१॥
02 साधुताञ् चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा ...{Loading}...
साधुतां चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता साधुतां प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्येत २
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he declares himself to be (of) good (family and conduct, the teacher elect) shall say,
‘Agni who sees, Vāyu who hears, Āditya who brings to light, vouch for his goodness; may it be well with this person! He is free from sin.’
Then he shall begin to teach him.
हरदत्त-टीका
सूत्रम्
साधुतां चेत्प्रतिजानीतेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदित्योऽऽनुख्याता साधुतां चेत्प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्या शास्तुं प्रतिपद्यते ॥३॥
टिप्पनी
स चेत्साधुतां प्रतिजानीते-
साधुजन्माऽस्मि,
अमुष्य पुत्रो
ऽमुष्य पौत्रो
ऽमुष्य नप्ता
साध्वाचारश् चास्मि,
पित्रैवोपानेषि2, शिक्षिताचारश् चाम्मि,
सम्यक् चावर्तिषि,
विधिबलेन तु बाल्य एव3 स दिष्टां गतिं गतः,
एतस्मात् केवलम् अनधीत-वेद इति, ततो ऽ’ग्निरुपद्रष्टे’त्य्-आदिकं मन्त्रम् उक्त्वा
शास्तुं शालितुम् अध्यापयितुं धर्मांश् चोपदेष्टुं प्रतिपद्येत उपक्रमेत ॥२॥
03 अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ...{Loading}...
अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- A guest comes to the house resembling a burning fire. 4
हरदत्त-टीका
सूत्रम्
अग्निरिव ज्वलन्नतिथिरभ्यागच्छति ॥३॥
प्रस्तावः
पञ्चयज्ञान्ते ‘अतिथीनेवाग्रे भोजये’दित्युक्तम् । तत्प्रकारं वक्तुं तस्याऽवश्यकर्तव्यतामनेनाऽऽह—
टिप्पनी
अतिथिर्गृहानभ्यागच्छन्नग्निरिव ज्वन्नभ्यागच्छति। तस्मादसौ भोजनादिभिरवश्यं तर्पयितव्यः । निराशस्तु गतो गृहान् दहेदिति ॥ ३॥
04 धर्मेण वेदानामेकैकां शाखामधीत्य ...{Loading}...
धर्मेण वेदानामेकैकां शाखामधीत्य श्रोत्रियो भवति ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He is called a Śrotriya who, observing the law (of studentship), has learned one recension of the Veda (which may be current in his family). 5
हरदत्त-टीका
सूत्रम्
धर्मेण वेदानामेकैकां शाखामधीत्य श्रोत्रियो भवति ॥४॥
प्रस्तावः
इदानीमतिथिलक्षणं वक्तुं तदुपयोगिश्रोत्रियलक्षणमाह —
टिप्पनी
विद्यार्थस्य यो नियमः स धर्मः । तेन वेदानां यां काञ्चन शाखामधीत्य श्रोत्रियो भवति। पुरुषस्य हि प्रतिवेदमकैका शाखा भवति। या पूर्वैः परिगृहीताध्ययनानुष्ठानाभ्यां सा प्रतिवेदं स्वशाखा । तामधीत्य श्रोत्रियो भवति, न तु प्रतिवेदमैकेकामधीत्य श्रोत्रियो भवतीति। लोकविरोधात् । लोके हि यां कांचनैकां शाखामधीयानः श्रोत्रिय इति प्रसिद्धः।
05 स्वधर्मयुक्तङ् कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो ...{Loading}...
स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सोऽतिथिर्भवति ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He is called a guest (who, being a Śrotriya), approaches solely for the fulfilment of his religious duties, and with no other object, a householder who lives intent on the fulfilment of his duties. 6
हरदत्त-टीका
सूत्रम्
2स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो 3नाऽन्यप्रयोजनः सोऽतिथिर्भवति ॥५॥
प्रस्तावः
अतिथिलक्षणमाह —
टिप्पनी
आदितो यच्छब्दो द्रष्टव्यः । अन्ते स इति दर्शनात् । मध्ये च श्रोत्रियलक्षणोपदेशात् । तदुपजीवनेन सूत्रं योज्यम् । यः श्रोत्रियः स्वधर्मयुक्तं स्वधर्मनिरतं कुटुम्बिनं भार्यया सह वसन्तं गृहस्थम् । आश्रमान्तरनिरासार्थमिदमुक्तम् । न हि ते पचमाना भवन्ति । भिक्षवो हि ते । अभ्यागच्छति उद्दिश्याऽऽगच्छति । धर्मपुरस्कारः 7आचार्याद्यर्थं भिक्षणं धर्मः तं पुरस्करोतीति धर्मपुरस्कारः । कर्मण्यण् । धर्मप्रयोजनः नान्यप्रयोजनः । य एवंभूत एवंभूतमुद्दिष्याऽगच्छति नाऽन्येच्छया सोऽतिथिरिति । 8बौधायनस्तु श्रान्तोऽदृष्टपूर्वः केवलमन्नार्थी नाऽन्यप्रयोजनस्सोतिथिर्भवति । अथ वा सर्ववर्णानामन्यतमः काले यथोपपन्नः सर्वेषामतिथीनां श्रेष्ठोऽतिथिर्भवती"ति ॥ ५॥
06 तस्य पूजायां शान्तिः ...{Loading}...
तस्य पूजायां शान्तिः स्वर्गश्च ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- The reward for honouring (such a guest) is immunity from misfortunes, and heavenly bliss. 9
हरदत्त-टीका
सूत्रम्
तस्य पूजायां शान्तिः स्वर्गश्च ॥ ६॥
टिप्पनी
तस्यातिथेः पूजायां कृतायां शान्तिरुपद्रवाणामिह भवति । प्रेत्य च स्वर्गलाभः ॥ ६॥
07 तमभिमुखोऽभ्यागम्य यथावयः समेत्य ...{Loading}...
तमभिमुखोऽभ्यागम्य यथावयः समेत्य तस्यासनमाहारयेत् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall go to meet such (a guest), honour him according to his age (by the formulas of salutation prescribed), and cause a seat to be given to him.
हरदत्त-टीका
सूत्रम्
तमभिमुखोऽभ्यागम्य यथावयस्समेत्य तस्यासनमाहारयेत्॥ ७ ॥
टिप्पनी
तमतिथिमभिमुखोऽभ्यागच्छेत् । अभ्यागम्य यथावयः वयसोऽनुरूपं प्रत्युत्थानाभिवादनादिना समेयात सङ्गच्छेत् । समेत्य च तस्यासनमाहारयेत् शिष्यादिभिः । अभावे स्वयमाहरेत् ॥ ७॥
08 शक्तिविषये नाबहुपादमासनम् भवतीत्येके ...{Loading}...
शक्तिविषये नाबहुपादमासनं भवतीत्येके ८
09 तस्य पादौ प्रक्षालयेत् ...{Loading}...
तस्य पादौ प्रक्षालयेत् । शूद्र मिथुनावित्येके ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- The (householder himself) shall wash the feet of that (guest); according to some, two Śūdras shall do it.
हरदत्त-टीका
सूत्रम्
तस्य पादौ प्रक्षालयेच्छूद्रमिथुनावित्येके ॥९॥
टिप्पनी
द्वौ शूद्रौ तस्य पादौ प्रक्षालयेतामित्येके मन्यन्ते । दासवत इदम् ॥९॥
10 अन्यतरोऽभिषेचने स्यात् ...{Loading}...
अन्यतरोऽभिषेचने स्यात् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- One of them shall be employed in pouring water (over the guest, the other in washing his feet).
हरदत्त-टीका
सूत्रम्
अन्यतरोऽभिषेचने स्यात् ॥ १० ॥
प्रस्तावः
अत्र विशेषः—
टिप्पनी
अभिषेचनं करकादिना जलावसेकः । तमेकः कुर्यात् । इतरः प्रक्षालनम् ॥ १०॥
11 तस्योदकमाहारयेन्मृन्मयेनेत्येके ...{Loading}...
तस्योदकमाहारयेन्मृन्मयेनेत्येके ११
12 नोदकमाचारयेद् असमावृत्तः ...{Loading}...
नोदकमाचारयेद् असमावृत्तः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- But (a guest) who has not yet returned home from his teacher shall not be a cause for fetching water. 12
हरदत्त-टीका
सूत्रम्
नोदकमाहारयेदसमावृत्तः ॥ १२ ॥
टिप्पनी
यदा असमावृत्तो ब्रह्मचारी आचार्यप्रेषितः स्वयमेव वाऽतिथिरभ्यागच्छति तदा नासावुदकमाहारयेत् नासावुदकाहरणस्य प्रयोजकः । नास्मा उदकमाहर्तव्यमिति ॥ १२ ॥
13 अध्ययनसांवृत्तिश्चात्राधिका ...{Loading}...
अध्ययनसांवृत्तिश्चात्राधिका १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- In case a (student comes, the host) shall repeat the Veda (together with him) for a longer time (than with other guests).
हरदत्त-टीका
सूत्रम्
अध्ययनसांवृत्तिश्चात्राधिका ॥ १३ ॥
टिप्पनी
अत्र असमावृत्तेऽतिथौ अध्ययनसंवृत्तिश्चाधिका इतरस्मादतिथेः । अध्ययनस्य सह निष्पादनमध्ययनसंवृत्तिः। यः प्रदेशस्तस्याऽऽगच्छति स तेन सह कियन्तञ्चित्कालं वक्तव्य इति । प्रसिद्धे तु पाठे पूर्वपदान्तस्य समोऽकारस्य छान्दसो दीर्घः ॥ १३॥
14 सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवरार्ध्येनेति ...{Loading}...
सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवरार्ध्येनेति १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall converse kindly (with his guest), and gladden him with milk or other (drinks), with eatables, or at least with water.
हरदत्त-टीका
सूत्रम्
सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवरार्ध्येनेति ॥१४॥
टिप्पनी
ततः पादप्रक्षालनस्य समध्ययनस्य वाऽनन्तरमतिथिं प्रियवचनेन सान्त्वयेत् । सान्त्वयित्वा गव्यादिभीरसैः फलादिभिश्च भक्ष्यैरन्ततोऽद्भिरपि तावत्तर्पयेत् तृप्तिं कुर्यात् । ‘अवरार्थेने’ति जघन्यकल्पतां सूचयति । अप्यन्तत इत्यर्थः । इतिशब्दादेवमादिभिरन्यैरपि ॥ १४॥
15 आवसथन् दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनञ् ...{Loading}...
आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall offer to his guest a room, a bed, a mattress, a pillow with a cover, and ointment, and what else (may be necessary). 13
हरदत्त-टीका
सूत्रम्
आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति ॥ १५ ॥
टिप्पनी
आवसथो विश्रामस्थानम् । उपरिशय्या खट्वा । उपस्तरणं तूलिका। उपधानमुपबर्हणम् । अवस्तरणमुपरिपटः । तत्सहितमुपधानमुपस्तरणं च । अभ्यञ्जनं पादयोः तैलं घृतं वा। एतत्सर्वं दद्यात् । भोजनात्प्रागूर्ध्वं वा अपेक्षिते काले । इतिशब्दादन्यदप्यपेक्षितम् ॥ १५ ॥
16 अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् ...{Loading}...
अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If the dinner has been finished before the arrival of the guest), he shall call his cook and give him rice or yava for (preparing a fresh meal for) the guest. 14
हरदत्त-टीका
सूत्रम्
अन्नसंस्कर्तारमाहूय ब्रीहीन् यवान्वा तदर्थान्निर्वपेत् ॥ १६ ॥
टिप्पनी
यः पचति तमन्नसंस्कर्तारमाहूय तदर्थानतिथ्यर्थान् ब्रीहीन्यवान्वा निर्वपेत् पृथक्कृत्य दद्यात्-अमुष्मै पचेति । ब्रीहियवग्रहणमुपलक्षणम् । इदं भुक्तवत्सु सर्वेष्वतिथावुपस्थिते द्रष्टव्यम् ॥ १६ ॥
17 उद्धृतान्यन्नान्यवेक्षेतेदम् भूया ...{Loading}...
उद्धृतान्यन्नान्यवेक्षेतेदं भूया १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If dinner is ready at the arrival of the guest), he himself shall portion out the food and look at it, saying (to himself), ‘Is this (portion) greater, or this?’
हरदत्त-टीका
सूत्रम्
उद्धृतान्यन्नान्यवेक्षेतेदं भूया३इद३मिति ॥ १७ ॥
प्रस्तावः
भोजनकाले त्वाह —
टिप्पनी
यावन्तो भोक्तारस्तावद्वा अन्नान्युद्धृत्य पृथक्पात्रेषु कृत्वा स्वयं संविभागं कृत्वा तान्यन्नान्यवेक्षेत-किमिदं भूयः प्रभूतमिदं वेति । विचारे प्लुतः । 2पूर्वं तु भाषायामित्येतदुपेक्षितं छान्दसोऽयं 3प्रयोग इति ॥ १७॥
18 इदा३मिति भूय उद्धरेत्येव ...{Loading}...
इदा३मिति भूय उद्धरेत्येव ब्रूयात् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall say, ‘Take out a larger (portion for the guest).’
हरदत्त-टीका
सूत्रम्
भूय उद्धरेत्येव ब्रूयात् ॥ १८॥
टिप्पनी
एवमवेक्ष्याऽतिथ्यर्थं भूय उद्धरेत्येव ब्रूयात् ॥ १८ ॥
19 द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण ...{Loading}...
द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमानस्य मीमांसितस्य वा १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- A guest who is at enmity (with his host) shall not eat his food, nor (shall he eat the food of a host) who hates him or accuses him of a crime, or of one who is suspected of a crime. 15
हरदत्त-टीका
सूत्रम्
द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमानस्य मीमांसितस्य वा ॥ १९ ॥
टिप्पनी
यं स्वयमतिथिं द्विषन्भवति यो वाऽऽत्मानं द्वेष्टि यो वाऽऽत्मानं दोषेण मीमांसते आत्मनि स्तेयादिदोषं सम्भावयति । यो वा दोषेण मीमांसितः यत्र लौकिका दोषं सम्भावयन्ति, तस्यास्य सर्वस्यान्नं नाश्नीयात् ॥१९॥
20 पाप्मानं हि स ...{Loading}...
पाप्मानं हि स तस्य भक्षयतीति विज्ञायते २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- For it is declared in the Veda that he (who eats the food of such a person) eats his guilt.
हरदत्त-टीका
सूत्रम्
पाप्मानं हि स तस्य भक्षयतीति विज्ञायते ॥ २० ॥
टिप्पनी
यः एवंविधस्याऽन्नमश्नाति, स तस्य पाप्मानमेव भक्षयतीति विज्ञायते ॥ २० ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षष्ठी कण्डिका ॥ ६ ॥
-
- The person desirous to study addresses his teacher elect with the following Mantra:
Bhagavan maitreṇa cakṣuṣā paśya
śivena manasānugṛhāṇa
prasīda mām adhyāpaya,‘venerable Sir, look on me with a friendly eye,
receive me with a favourable mind,
be kind and teach me.’The teacher elect then asks: Kiṃgotro ’si saumya, kimācāraḥ, ‘friend, of what family art thou? what is thy rule of conduct?’ ↩︎
-
The object of this Sūtra is to show the absolute necessity of feeding a guest. For, if offended, he might burn the house with the flames of his anger. ↩︎
-
The object of this Sūtra is to complete the definition of the term ‘guest’ to be given in the following Sūtra. In my translation I have followed Haradatta’s gloss. The literal sense of Āpastamba’s words is,. ‘He who, observing the law, has studied one recension of each (of the four) Vedas, becomes a Śrotriya.’ Haradatta says this definition would be contrary to the current acceptation of the term. That argument proves, however, nothing for Āpastamba’s times. ↩︎
-
Manu III, 102, 103; Yājñ. I, 111. ↩︎
-
आचार्यस्यार्थे इति. घ. ड.पु. ↩︎
-
एतदादि ११ सूत्रे निवेशितं छ. पु. ↩︎
-
Yājñ. I, 109; Manu III, 101. ↩︎
-
Haradatta states that this is also Āpastamba’s opinion. ↩︎
-
According to Haradatta, Āpastamba is of opinion that it should be brought in a pot made of metal. ↩︎
-
I.e. it is unnecessary to offer water for washing the feet to a student. ↩︎
-
‘Ointment, (i.e.) oil or clarified butter for anointing the feet.’–Haradatta. Manu III, 107. ↩︎
-
Manu III, 108. ↩︎
-
Manu IV, 213; Yājñ. I, 162. ↩︎