01 शय्यादेशे कामलिङ्गेन ...{Loading}...
शय्यादेशे कामलिङ्गेन १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Near the bed (a Bali must be offered) with (a Mantra) addressed to Kāma (Cupid).
हरदत्त-टीका
सूत्रम्
शय्यादेशे कामलिङ्गेन ॥ १ ॥
टिप्पनी
शय्यादेशे ‘कामाय स्वाहे’त्यनेन ॥ १ ॥
02 देहल्यामन्तरिक्षलिङ्गेन ...{Loading}...
देहल्यामन्तरिक्षलिङ्गेन २
१६ कामय स्वाहा ...{Loading}...
- काम॑य॒ स्वाहा॑ । +++(शय्यादेशे कामलिङ्गेन)+++
- अ॒न्तरि॑क्षाय॒ स्वाहा॑ । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- On the door-sill (a Bali must be placed) with (a Mantra) addressed to Antarikṣa (the air). 1
हरदत्त-टीका
सूत्रम्
2देहल्यामन्तरिक्षलिङ्गेन ॥२॥
टिप्पनी
देहली द्वारस्थाऽधस्ताद्दारु । तस्याऽधोवेदिकेत्यन्ये । अन्तर्द्वारस्य च ग्रहणम् । तत्राऽन्तरिक्षलिङ्गेन ‘अन्तरिक्षाय स्वाहे’त्यनेन ॥२॥
03 उत्तरेणापिधान्याम् ...{Loading}...
उत्तरेणापिधान्याम् ३
१७ यदेजति जगति ...{Loading}...
- यद् एज॑ति+++(=कम्पते)+++ जग॑ति यच् च॒ चेष्ट॑ति, नाम्नो॑ भा॒गो ऽयं, नाम्ने॒ स्वाहा॑। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- With (the Mantra) that follows (in the Upaniṣad, he offers a Bali) near the door. 3
हरदत्त-टीका
सूत्रम्
उत्तरेणाऽपिधान्याम् ॥ ३॥
टिप्पनी
येनाऽपिधीयते द्वारं साऽपिधानी कवाटम् । तदर्गलमित्यन्ये । तत्रोत्तरेण मन्त्रेण ‘यदेजति जगति यच्च चेष्टति नाम्नो भागो यन्नाम्ने स्वाहे’त्यनेन ॥ ३॥
04 उत्तरैर्ब्रह्मसदने ...{Loading}...
उत्तरैर्ब्रह्मसदने ४
१८ पृथिव्यै स्वाहा ...{Loading}...
+++(उत्तरैर्ब्रह्मसदने)+++
- पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ ।
- सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
- इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।
सर्वाष् टीकाः ...{Loading}...
Bühler
- With the following (ten Mantras, addressed to Earth, Air, Heaven, Sun, Moon, the Constellations, Indra, Bṛhaspati, Prajāpati, and Brahman, he offers ten Balis, each following one to the east of the preceding one), in (the part of the house called) the seat of Brahma. 4
हरदत्त-टीका
सूत्रम्
उत्तरैर्ब्रह्मसदने ॥४॥
टिप्पनी
अगारस्येत्यनुवृत्तेः । तत्र यो ब्रह्मसदनाख्यो देशः वास्तुविद्याप्रसिद्धो 5मध्येऽगारस्य । तत्रोत्तरैर्दशभिः ‘पृथिव्यै स्वाहा, अन्तरिक्षाय स्वाहा, दिवे स्वाहा, सूर्याय स्वाहा, चन्द्रमसे स्वाहा, नक्षत्रेभ्यः स्वाहा, इन्द्राय स्वाहा, बृहस्पतये स्वाहा, प्रजापतये स्वाहा, ब्रह्मणे स्वाहेत्येतैः प्रागपवर्गमित्येव ।
अपर आाह- ब्रह्मा यत्र सीदति गार्ह्येषु कर्मसु अग्नेर्दक्षिणतो ब्रह्मसदनं तत्रेति ॥४॥
05 दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः ...{Loading}...
दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५
१९ स्वधा पितृभ्यस् ...{Loading}...
- स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall offer to the south (of the Balis offered before, a Bali) with a Mantra addressed to the Manes; his sacrificial cord shall be suspended over the right shoulder, and the (palm of his right hand shall be turned upwards and) inclined to the right. 6
हरदत्त-टीका
सूत्रम्
दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ॥ ५ ॥
टिप्पनी
अनन्तराणां बलीनां दक्षिणतः पितृलिङ्गेन ‘स्वधा पितृभ्य’ इत्यनेन बलिं कुर्यात्, प्राचीनावीत्यवाचीनपाणिश्च भूत्वा दक्षिणं पाणिमुत्तानं कृत्वा अङ्गुष्ठतर्जन्योरन्तरालेन ॥५॥
06 रौद्र उत्तरो यथा ...{Loading}...
रौद्र उत्तरो यथा देवताभ्यः ६
२० नमो रुद्राय ...{Loading}...
- नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- To the north (of the Bali given to the Manes, a Bali shall be offered) to Rudra, in the same manner as to the (other) gods. 7
हरदत्त-टीका
सूत्रम्
रौद्र उत्तरो यथा देवताभ्यः ॥ ६॥
टिप्पनी
पितृबलेरुत्तरतो रौद्रबलिः कर्तव्यः । यथा देवताभ्यः तथा, प्राचीनावीत्यवाचीनपाणिरिति नाऽनुवर्तत इत्यर्थः । ‘नमो रुद्राय पशुपतये स्वाहे’ति मन्त्रः । अत्र यद्यपि पशुपतिलिङ्गमप्यस्ति, तथापि तद्रुद्रस्यैव विशेषणमिति रौद्र इति व्यपदेशो नाऽनुपपन्नः । देवतास्मरणमपि रुद्रायत्येव कुर्वन्ति । रुद्राय पशुपतय इत्यन्ये । केचित्तु- उत्तरो मन्त्रो रौद्रः न पशुपतिदैवत्य इत्याचक्षते । तेषां देशः प्राग्वोदग्वा पित्र्यात् ॥ ६॥
07 तयोर्नाना परिषेचनन् धर्मभेदात् ...{Loading}...
तयोर्नाना परिषेचनं धर्मभेदात् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- The sprinkling with water (which precedes and follows the oblation) of these two (Balis, takes place) separately, on account of the difference of the rule (for each case). 8
हरदत्त-टीका
सूत्रम्
तयोर्नाना परिषेचनं धर्मभेदात् ॥ ७॥
टिप्पनी
तयोरनन्तरोक्तयोर्बल्योरेकस्मिन् देशे समवेतयोरपि नाना पृथक् परिषेचनं कर्त्तव्यम् । कुतः ? धर्मभेदात्। पित्र्यस्याऽप्रदक्षिणं परिषेचनं कर्तव्यम् । इतरस्य दैवत्वात्प्रदक्षिणमिति ॥ ७॥
08 नक्तमेवोत्तमेन वैहायसम् ...{Loading}...
नक्तमेवोत्तमेन वैहायसम् ८
२१ ये भूताः ...{Loading}...
- ये भू॒ताः प्र॒चर॑न्ति दिवा॒ /नक्तं॒
बलि॑म् इ॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ ।
तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒
मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- At night only he shall offer (the Bali to the Goblins), throwing it in he air and reciting the last (Mantra). 9
हरदत्त-टीका
सूत्रम्
नक्तमेवोत्तमेन वैहायसम् ॥ ८॥
टिप्पनी
उत्तमेन ‘ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहे’2त्यनेन वैहायसं बलिं दद्यात् । तच्च नक्तमेव । ‘वैहायसमि’ति वचनादाकाश एव बलिरुत्क्षेप्यः, न छदिकृते देशे । तथाच बौधायनः— 5 ‘अथाऽऽकाश उत्क्षिपति ये भूताःप्रचरन्ती’ति ।
अपर आह- एवकारो भिन्नक्रमः । नक्तमुत्तमेनैव बलिरिति तत्र बल्यन्तराणां रात्रौ निवृत्तिः । अन्ये तु- ऊहेन दिवा बलिं हरन्ति ‘दिवा बलमिच्छन्त’ इति ।
आश्वलायनके तथा दर्शनात्2 दिवाचारिभ्य ने दिवा । नक्तंचारिभ्य इति (बलिमाकाशे उत्क्षिपे)न्नक्तमिति । तथा
मनुः—
5 दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ।’ इति ॥ ८॥
09 य एतानव्यग्रो यथोपदेशङ् ...{Loading}...
य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who devoutly offers those (above-described), to the rules, (obtains) Balis and Homas), according eternal bliss in heaven and prosperity.
हरदत्त-टीका
सूत्रम्
य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ॥९॥
टिप्पनी
य एताननन्तरोक्तान् होमान् बलींश्च । अव्यग्रः समाहितमना भूत्वा यथोपदेशमुपदेशानतिक्रमेण कुरुते । य इति वचनात्तस्यति पूर्वं गम्यते । तस्य नित्यः स्वर्गः पुष्टिश्च ‘स्वर्गपुष्टिसंयुक्ता’ इति यत् पूर्वमुक्तं तस्याऽर्थवादताशङ्का मा भूदिति पुनर्वचनम् । पुष्टिस्वर्गौ नित्यावेव भवत, न प्रबलैरपि कर्मान्तरैर्बाधनमिति ॥९॥
10 अग्रञ् च देयम् ...{Loading}...
अग्रं च देयम् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (after the Balis have been performed, a portion of the food) must first be given as alms. 10
हरदत्त-टीका
सूत्रम्
अग्रं च देयम् ॥१०॥
टिप्पनी
बलिहरणानन्तरं अग्रं च देयं भिक्षवे ॥१०॥
11 अतिथीनेवाग्रे भोजयेत् ...{Loading}...
अतिथीनेवाग्रे भोजयेत् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall give food to his guests first, 11
हरदत्त-टीका
सूत्रम्
अतिथीनेवाऽग्रे भोजयेत् ॥११॥
टिप्पनी
अतिथीन्वक्ष्यति । तानेवाग्रे भोजयेत् न स्वयं सह भुञ्जीत पूर्वं वा । एवमतिथिव्यतिरिक्तानन्यानपि भोजयितव्यान् पश्चादेव भोजयेत् ॥ ११ ॥
12 बलान् वृद्धान् रोगसम्बन्धान् ...{Loading}...
बालान् वृद्धान् रोग-संबन्धान् स्त्रीश् चान्तर्वत्नीः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- And to infants, old or sick people, female (relations, and) pregnant women. 12
हरदत्त-टीका
सूत्रम्
बालान्वृद्धान्रोगसम्बन्धास्त्रीश्चान्तर्वत्नीः ॥१२॥
टिप्पनी
ये च गृहवर्तिनो बालादयः तानप्यग्र एव भोजयेत् । अन्तर्वत्नीरित्येव सिद्धे स्त्रीग्रहणं स्वस्रादीनामपि ग्रहणार्थम् । अन्तर्वत्नीग्रहणं 13सर्वत्र पूजार्थम् ॥ १२॥
13 काले स्वामिनावन्नार्थिनन् न ...{Loading}...
काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- The master (of the house) and his wife shall not refuse a man who asks for food at the time (when the Vaiśvadeva offering has been performed).
हरदत्त-टीका
सूत्रम्
काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् ॥१३॥
टिप्पनी
काले वैश्वदेवान्ते अनार्थमुपस्थितं स्वामिनौ गृहपती न प्रत्याचक्षीयाताम् अवश्यं तस्मै किञ्चिद्देयमति ॥१३॥
14 अभावे भूमिरुदकन् तृणानि ...{Loading}...
अभावे भूमिरुदकं तृणानि कल्याणी वाग् इति । एतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If there is no food, earth, water, grass, and a kind word, indeed, never fall in the house of a good man. Thus (say those who know the law). 14
हरदत्त-टीका
सूत्रम्
15अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति ॥१४॥
प्रस्तावः
अभावे किं कर्तव्यम् ? तत्राह —
टिप्पनी
भूमिरुपवेशनयोग्या । उदकं पादप्रक्षालनादियोग्यम् । तृणानि शयनासनयोग्यानि । कल्याणी वाक् स्वागतमायुष्मते, इहाऽऽस्यतामित्यादिका । एतानि भूम्यादीनि । सतोऽगारे सतस्सत्पुरुषस्य निर्धनस्याऽपि गृहे कदाचिदपि न क्षीयन्ते । वैशब्दः प्रसिद्धौ । अत एव तैरुपचारः कर्तव्यः । इतिशब्दप्रयोगादेवं धर्मज्ञा उपदिशन्तीति ॥ १४॥
15 एवंवृत्तावनन्तलोकौ भवतः ...{Loading}...
एवंवृत्तावनन्तलोकौ भवतः १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Endless worlds are the portion (of those householders and wives) who act thus.
हरदत्त-टीका
सूत्रम्
एवं वृत्तावनन्तलोकौ भवतः ॥ १५ ॥
टिप्पनी
यौ गृहमेधिनौ विवाहादारभ्य आन्तादेवंवृत्तौ भवतः तयोरनन्ता लोका भवन्ति । ज्योतिष्टोमादिभ्योऽपि कतिपयदिनसाध्येभ्यो दुष्करमेतदान्ताद्व्रतम् ॥ १५ ॥
16 ब्राह्मणायानधीयानायासनमुदकमन्नमिति देयम् न ...{Loading}...
ब्राह्मणायानधीयानायासनमुदकमन्नमिति देयम् । न प्रत्युत्तिष्ठेत् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- To a Brāhmaṇa who has not studied the Veda, a seat, water, and food must be given. But (the giver) shall not rise (to do him honour). 16
हरदत्त-टीका
सूत्रम्
ब्राह्मणायाऽनधीयानायाऽऽमनमुदकमन्नमिति देयं न प्रत्युत्तिष्ठेत् ॥१६॥
टिप्पनी
यद्यनधीयानो ब्राह्मणोऽतिथिधर्मेणाऽऽगच्छेत् तदा तस्मै आसनादिकं देयम् । प्रत्युत्थानं तु न कर्तव्यम् । अस्मादेव ज्ञायते-अधीयाने प्रत्युत्थेयमिति ॥ १६ ॥
17 अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् ...{Loading}...
अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- But if (such a man) is worthy of a salutation (for other reasons), he shall rise to salute him.
हरदत्त-टीका
सूत्रम्
अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् ॥ १७ ॥
टिप्पनी
यदि पुनरसौ अनधीयानोऽपि ‘दशवर्षं पौरसख्य’(१.१४.१२.) मित्यादिना ऽभिवाद्यो भवति तदा अभिवादनायौवात्तष्ठेत्॥ १७ ॥
18 राजन्यवैश्यौ च ...{Loading}...
राजन्यवैश्यौ च १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (shall a Brāhmaṇa rise to receive) a Kṣatriya or Vaiśya (though they may be learned). 17
हरदत्त-टीका
सूत्रम्
राजन्यवैश्यौ च ॥ १८ ॥
टिप्पनी
अधीयानावपि राजन्यवैश्यौ न प्रत्युत्तिष्ठेत् ब्राह्मणः । आसनादिकं तु देयमिति ॥ १८॥
19 शूद्रमभ्यागतङ् कर्मणि नियुञ्ज्यात् ...{Loading}...
शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात् । अथास्मै दद्यात् १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a Śūdra comes as a guest (to a Brāhmaṇa), he shall give him some work to do. He may feed him, after (that has been performed). 18
हरदत्त-टीका
सूत्रम्
2शद्रमभ्यागतं कर्मणि नियुज्यात् ॥१९॥
टिप्पनी
यदि शद्रो द्विजाति प्रत्यतिथिरागच्छति तदा तमुदकाहरणादौ कर्मणि नियुञ्ज्यात् नियुञ्जीत ॥ १९ ॥
सूत्रम्
अथाऽस्मै दद्यात् ॥ २०॥
टिप्पनी
अथ तस्मिन् कृते भोजनं दद्यात् ॥ २०॥
20 दासा वा राजकुलादाहृत्यातिथिवच् ...{Loading}...
दासा वा राजकुलादाहृत्यातिथिवच् छूद्रम् पूजयेयुः २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or the slaves (of the Brāhmaṇa householder) shall fetch (rice) from the royal stores, and honour the Śūdra as a guest. 19
हरदत्त-टीका
सूत्रम्
दासा वा राजकुलादाहृत्याऽतिथिवच्छूद्रं पूजयेयुः ॥२१॥
टिप्पनी
अथवा येऽस्य गृहमधिनो दासाः ते राजकुलादाहृत्य तं शूद्रमतिथिवत्पूजयेयुः । अत एव ज्ञायते-शूद्राणामतिथीनां पूजार्थं ब्रीह्यादिकं राज्ञा ग्रामे ग्रामे स्थापयितव्यमिति ॥ २१ ॥
21 नित्यमुत्तरं वासः कार्यम् ...{Loading}...
+++(गृहस्थेन)+++ नित्यमुत्तरं वासः कार्यम् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- (A householder) must always wear his garment over (his left shoulder and under his right arm).
हरदत्त-टीका
सूत्रम्
नित्यमुत्तरं वासः कार्यम् ॥ २२॥
टिप्पनी
‘उपासने गुरुणा’ (१.१५.१)मित्यादिना केषुचित्कालेषु यज्ञोपवीतं विहितम् । इह तु प्रकरणात् गृहस्थस्य नित्यमुत्तरं वासो धार्यमित्युच्यते ॥
22 अपि वा सूत्रमेवोपवीतार्थे ...{Loading}...
अपि वा सूत्रमेवोपवीतार्थे २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may use a cord only, slung over his left shoulder and passed under his right arm, instead of the garment.
23 यत्र भुज्यते तत्समूह्य ...{Loading}...
यत्र भुज्यते तत्समूह्य निर्हृत्यावोक्ष्य तं देशम्, अमत्रेभ्यो +++(=पात्रेभ्यो)+++ लेपान्संकृष्याद्भिः संसृज्योत्तरतः शुचौ देशे रुद्राय निनयेत् । एवं वास्तु शिवं भवति २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall sweep together (the crumbs) on the place where he has eaten, and take them away. He shall sprinkle water on that place, turning the palm downwards, and remove the stains (of food from the cooking-vessels with a stick), wash them with water, and take their contents to a clean place to the north (of the house, offering them) to Rudra. In this manner his house will become prosperous.
हरदत्त-टीका
सूत्रम्
यत्र भुज्यते तत्समूह्य निर्हृत्याऽवोक्ष्य तं देशममत्रेभ्यो लेपान् सङ्कृष्याद्भिः संमृज्योत्तरतः शुचौ देशे रुद्राय निनयेदेवं वास्तु शिवं भवति ॥ २४ ॥
टिप्पनी
यत्र स्थाने भुज्यते तत् समूह्य समूहन्या सत्यमुच्छिष्टादिकं राशीकृत्य निहरेदन्यतः। निर्हृत्य तं देशमवोक्षत् । अवोक्ष्य ततोऽमत्रेभ्यः येषु पाकः कृतः तान्यमत्राणि तेभ्योऽन्नलेपान् व्यञ्जनलेपांश्च संकृष्य काष्ठादिनाऽवकृष्य अद्भिसंसृजेत् । संसृज्य गृहस्योत्तरतः शुचौ देशे रुद्रायेदमस्त्’विति निनयेत् । एवं कृते वास्तु शिवं समृद्धं भवतीति ॥ २४॥
24 ब्राह्मण आचार्यः स्मर्यते ...{Loading}...
ब्राह्मण आचार्यः स्मर्यते तु २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- It is declared in the Smṛtis that a Brāhmaṇa alone should be chosen as teacher (or spiritual guide). 20
हरदत्त-टीका
सूत्रम्
ब्राह्मण आचार्यः स्मर्यते तु ॥ २५ ॥
टिप्पनी
तुशब्दोऽवधारणार्थो भिन्नक्रमश्च । ब्राह्मण एव सर्वेषामाचार्यः स्मर्यते धर्मशास्त्रेषु । इहाऽपि वक्ष्यति ‘स्वकर्म ब्राह्मणस्ये’(२.१०.४.)त्यादि। अनुवादोऽयमापदि कल्पान्तरं वक्तुम् ॥ २५॥
25 आपदि ब्राह्मणेन राजन्ये ...{Loading}...
आपदि ब्राह्मणेन राजन्ये वैश्ये वाध्ययनम् २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- In times of distress a Brāhmaṇa may study under a Kṣatriya or Vaiśya.
हरदत्त-टीका
सूत्रम्
आपदि ब्राह्मणेन राजन्ये वैश्ये वाऽध्ययनम् ॥ २६ ॥
प्रस्तावः
तदाह—
टिप्पनी
कर्तव्यमित्यध्याहार्थम् । ब्राह्मणस्याऽध्यापयितुरलाभ आपत् । तत्राऽऽपदि ब्राह्मणेन राजन्ये वैश्ये वाऽध्ययनं कर्तव्यम् । न त्वनधीयानेन स्थातव्यम्। ‘ब्राह्मणेने’ति वचनाद्राजन्यवैश्ययोर्नाऽयमनुकल्पः ॥ २६ ॥
26 अनुगमनञ् च पश्चात् ...{Loading}...
अनुगमनं च पश्चात् २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (during his pupilship) he must walk behind (such a teacher).
हरदत्त-टीका
सूत्रम्
अनुगमनं च पश्चात् ॥ २७ ॥
टिप्पनी
अनुगमनं च पृष्ठतः कर्तव्यं यावदध्ययनम् । पश्चाद्ग्रहणं लज्जादिना कियत्यपि पार्श्वे गतिर्मा भूदिति । सर्वशुश्रूषाप्रसङ्गे नियमः — ब्राह्मणस्याऽनुगमनमेव शुश्रूषेति । तथा च गौतमः-2 ‘अनुगमनं शुश्रूषे’ति ॥ २७॥
27 तत ऊर्ध्वम् ब्राह्मण ...{Loading}...
तत ऊर्ध्वं ब्राह्मण एवाग्रे गतौ स्यात् २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Afterwards the Brāhmaṇa shall take precedence before (his Kṣatriya or Vaiśya teacher).
हरदत्त-टीका
सूत्रम्
तत ऊर्ध्वं ब्राह्मण एवाऽग्रे गतौ स्यात् ॥ २८ ॥
टिप्पनी
ततोऽध्ययनादूर्ध्वं समाप्तेऽध्ययने ब्राह्मण एवाग्रतो गच्छेत् ॥ २८ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तावुज्वलायां द्वितीयप्रश्ने चतुर्थी कण्डिका ॥४॥
-
- ‘Others explain dehalī’, “the door-sill,” to mean “the door-case.”’–Haradatta.
-
‘Others explain apidhāna, “the panels of the door;” to mean “the bolt of the door.”’–Haradatta. The offering is made to Nāma, ’the name, or essence of things.’ ↩︎
-
Haradatta gives two explanations of the word Brahmasadana, ’the seat of Brahman.’ According to some, it is an architectural term, designating the centre of the house; according to others, it denotes the place where, at the time of the burnt-oblations, the Brahman or superintending priest is seated, i.e. a spot to the south of the sacred fire. ↩︎
-
मध्येऽगारस्येत्यतः तस्य देशस्योपयुक्तत्वात् इत्यधिकः पाठः ख. पुस्तके । ↩︎ ↩︎ ↩︎ ↩︎
-
Balis and water for the Manes are placed or poured into the palm of the hand and thrown out between the thumb and forefinger. That part of the palm is, therefore, sometimes called ’the tīrtha sacred to the Manes.’ See Manu II, 39. ↩︎
-
‘That is to say, the sacrificial cord shall not be suspended over the right shoulder, nor shall the Bali be thrown out between the thumb and forefinger.’–Haradatta ↩︎
-
In sprinkling around an offering to the gods, the sacrificer turns his right hand towards the oblation and pours out the water, beginning in the south and ending in the east. In sprinkling around an offering to the Manes, exactly the opposite order is to be followed. ↩︎
-
At night, i. e. before the evening meal. The Mantra is, ‘To those beings which, being servants of Vituda, roam about day and night, desiring a Bali-offering, I offer this Bali, desirous of prosperity. May the Lord of prosperity grant me prosperity, svāhā. Haradatta adds, that according to another commentator, no other Bali but this is to be offered in the evening, and that some modify the Mantra for each occasion, offering the Bali in the morning to the Bhūtas that roam about during the day,’ and in the evening ’to the night-walkers.’ Compare for the whole section Manu III, 90-92; Yājñ. I, 102-104. ↩︎
-
Manu III, 94 seq. ↩︎
-
Manu III, 115; Yājñ. I, 105. ↩︎
-
Manu III, 114; Yājñ. I, 105. ↩︎
-
सर्वपूर्वार्थं इति घ, च. पु. ↩︎
-
Manu III, 101 Yājñ. I, 107. As read in the text, the first line of the verse has one syllable in excess. This irregularity would disappear if tṛṇā, the Vedic form of the nom. ace. plural, were read for tṛṇāni, and it seems to me not improbable that tṛṇāni is a correction made by a Pandit who valued grammatical correctness higher than correctness of metre. ↩︎
-
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति मनुः ॥ -
Manu III, 99. ↩︎
-
Manu III, 110-112; Yājñ. I, 107. ↩︎
-
Manu loc. cit. ↩︎
-
‘Hence it is known that the king ought to keep stores of rice and the like in every village, in order to show hospitality to Śūdra guests.’–Haradatta. ↩︎
-
Manu II, 241, 242. From here down to II, 3, 6, 2, Āpastamba again treats of the duties of students and teachers, a subject which appears to have in his eyes a greater importance than any other. The rules given now apply chiefly to householders. It would seem that they have been inserted in this particular place, because the reception of a former teacher is to be described II, 3, 5, 4-11, and that of a ’learned guest’ II, 3, 6, 3 seq. ↩︎