01 आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः ...{Loading}...
आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Pure men of the first three castes shall prepare the food (of a householder which is used) at the Vaiśvadeva ceremony. 1
हरदत्त-टीका
सूत्रम्
आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः ॥१॥
टिप्पनी
आर्यास्त्रैवर्णिकाः। ‘आर्याधिष्ठिता वा शूद्रा’ (२.३,४) इत्युत्तरत्र दर्शनात् । प्रयताः स्नानादिना शुद्धाः। वैश्वदेवे गृहमेधिनोर्भोजनार्थे पाके। ‘गृहमेधिनो यदशनीयस्ये’(३-१२)ति दर्शनात् । अन्नसंस्कर्तारः स्युः । अन्नं भक्ष्यभोज्यपेयादिकं तत् संस्कुर्युः । न स्वयं, नाऽपि स्त्रियः ॥ १ ॥
02 भाषाङ् कासङ् क्षवयुमित्यभिमुखो ...{Loading}...
भाषां कासं क्षवयुमित्यभिमुखो ऽन्नं वर्जयेत् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- The (cook) shall not speak, nor cough, nor sneeze, while his face is turned towards the food.
हरदत्त-टीका
सूत्रम्
भाषां कासं क्षवधुमित्यभिमुखोऽन्नं वर्जयेत् ॥ २॥
टिप्पनी
भाषा शब्दोच्चारणम् । कासः कण्ठे घुरुघुराशब्दः । क्षवधुः क्षुतम् । एतत्त्रितयमन्नाभिमुखो न कुर्यात् । ‘संस्कर्तारः स्यु’रिति बहुवचने प्रकृते ‘वर्जये’दित्येकवचनं प्रत्येकमुपदेशार्थम् ॥ २ ॥
03 केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ...{Loading}...
केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall purify himself by touching water if he has touched his hair, his limbs, or his garment.
हरदत्त-टीका
सूत्रम्
केशानङ्गं वासश्चाऽऽलभ्याऽप उपस्पृशेत् ॥३॥
टिप्पनी
केशादीनात्मीयानन्यदीयान्वा । आलभ्य स्पृष्ट्वा । अप उपस्पृशेत् । नेदं स्नानम् । किं तर्हि ? स्पर्शमात्रम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहितम् । इदं तु तत्रोक्तं वैकल्पिकं शकृदाद्युपस्पर्शनं मा भूदिति ॥ ३ ॥
04 आर्याधिष्ठिता वा शूद्राः ...{Loading}...
आर्याधिष्ठिता वा शूद्राः संस्कर्तारः स्युः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or Śūdras may prepare the food, under the superintendence of men of the first three castes.
हरदत्त-टीका
सूत्रम्
आर्याधिष्ठिता वा शुद्रास्संकर्तारः स्युः ॥ ४ ॥
टिप्पनी
वर्णिकैर् अधिष्ठिता वा शूद्रास् संस्कर्तारः स्युः । प्रकरणादन्नस्येति गम्यते ॥४॥
05 तेषां स एवाचमनकल्पः ...{Loading}...
तेषां स एवाचमनकल्पः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- For them is prescribed the same rule of sipping water (as for their masters). 2
हरदत्त-टीका
सूत्रम्
तेषां स एवाऽऽचमनकल्पः ॥५॥
टिप्पनी
तेषां शूद्राणामन्नसंस्कारेऽधिकृतानां स एवाऽऽचमनकल्पो वेदितव्यः, यस्याऽन्नं पचन्ति । यदि ब्राह्मणस्य, हृदयङ्गमाभिरद्भिः। यदि क्षत्रियस्य, कण्ठगाभिः । यदि वैश्यस्य, तालुगाभिः । इन्द्रियोपस्पर्शन च भवति ॥५॥
06 अधिकमहरहः केशश्मश्रुलोमनखवापनम् ...{Loading}...
अधिकमहरहः केशश्मश्रुलोमनखवापनम् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Besides, the (Śūdra cooks) daily shall cause to be cut the hair of their heads, their beards, the hair on their bodies, and their nails.
हरदत्त-टीका
सूत्रम्
अधिकमहरहः केशश्मश्रुलोमनखवापनम् ॥ ६ ॥
टिप्पनी
शूद्राः पचन्तः प्रत्यहं केशादि वापयेयुः । इदमेषामधिकमार्येभ्यः ॥६॥
07 उदकोपस्पर्शनञ् च सह ...{Loading}...
उदकोपस्पर्शनं च सह वाससा ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And they shall bathe, keeping their clothes on. 3
हरदत्त-टीका
सूत्रम्
उदकोपस्पर्शनं च सह वाससा ॥ ७ ॥
टिप्पनी
सहैव वाससा स्नानं कुर्युः। आर्याणां तु परिहितं वासो निधाय कौ पीनाच्छादनमात्रेणाऽपि स्नानं भवति । शुद्राणामपि पाकादन्यत्र । तथा च मनुः —
4 न वासोभिस्सहाऽजस्रं नाऽविज्ञाते जलाशये।’ इति ॥ ७॥
08 अपि वाष्टमीष्वेव पर्वसु ...{Loading}...
अपि वाष्टमीष्वेव पर्वसु वा वपेरन् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or they may trim (their hair and nails) on the eighth day (of each half-month), or on the days of the full and. new moon.
हरदत्त-टीका
सूत्रम्
अपि वाऽष्टमीष्वेव पर्वसु वा वपरेन् ॥ ८ ॥
टिप्पनी
यदि वाऽष्टमीष्वेव वपरेन् केशादीन् पर्वस्वेव वा । न प्रत्यहम् । ‘वपरे’न्निति अन्तर्भावितण्यर्थः । वापयेरन्नित्यर्थः । तथा च ‘लोमनखवापन’मिति पूर्वत्र णिच्प्रयुक्तः ॥ ८ ॥
09 परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् ...{Loading}...
परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- He (the householder himself) shall place on the fire that food which has been prepared (by Śūdras) without supervision, and shall sprinkle it with water. Such food also they state to be fit for the gods.
हरदत्त-टीका
सूत्रम्
परोक्षमन्नं संस्कृतमग्नावधिश्रित्याऽद्भिः प्रोक्षेत्तदेवपवित्रमित्याचक्षते ॥९॥
टिप्पनी
यदि शुद्राः परोक्षमन्नं संस्कुर्युः आर्यैरनधिष्ठिताः । तदा तत्परोक्षमन्न संस्कृतं स्वयमग्नावधिश्रयेत् । अधिश्रित्याऽद्भिः प्रोक्षेत् । तदेवंभूतमन्नं देवपवित्रमित्याचक्षते । देवानामपि तत्पवित्रं किं पुनर्मनुष्याणामिति ॥९॥
10 सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने ...{Loading}...
सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- When the food is ready, (the cook) shall place himself before his master and announce it to him (saying), ‘It is ready.’
हरदत्त-टीका
सूत्रम्
सिद्धेऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात् ॥१०॥
टिप्पनी
सिद्धे पक्वेऽन्ने तिष्ठन् पाचकोऽधिष्ठाता वा भूतमिति प्रब्रूयात् । कस्मै ? यस्य तदन्न तस्मै स्वामिने । भूतं निष्पन्नमित्यर्थः ॥ १०॥
11 तत्सुभूतं विराड् अन्नन् ...{Loading}...
तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- The answer (of the master) shall be, ‘That well-prepared food is the means to obtain splendour; may it never fail!’ 5
हरदत्त-टीका
सूत्रम्
तत्सुभूतं विराडन्नं तन्मा क्षायीति प्रतिवचनः ॥ ११ ॥
टिप्पनी
तत्सुभूतमित्यादि प्रतिवचनो मन्त्रः। तदन्नं सुभूतं सुनिष्पन्नम् । विराट् विराजः साधनम् । अन्नमशनम् । तच्च मा क्षायि क्षीणं मा भूदित्यर्थः ॥ ११ ॥
12 गृहमेधिनोर्यदशनीयस्य होमा बलयश्च ...{Loading}...
गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- The burnt-oblations and Bali-offerings made with the food which the husband and his wife are to eat, bring (as their reward) prosperity, (and the enjoyment of) heaven. 6
हरदत्त-टीका
गृहमेधिनोर्यद## सूत्रम् गृहमेधिनो यदशनीयं तस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः ॥ १२ ॥
टिप्पनी
गृहमेधिनो यदशनीयं पक्वमपक्वं वा उपस्थितं तस्यैकदेशेन होमा बलयश्च वक्ष्यमाणाः कर्तव्याः । स्वर्गः पुष्टिश्च तेषां फलमिति ॥ १२ ॥
शनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२
13 तेषाम् मन्त्राणामुपयोगे द्वादशाहमधःशय्या ...{Loading}...
तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Whilst learning the sacred formulas (to be recited during the performance) of those (burnt oblations and Bali-offerings, a householder) shall sleep on the ground, abstain from connubial intercourse and from eating pungent condiments and salt, during twelve days. 7
हरदत्त-टीका
सूत्रम्
तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च ॥ १३ ॥
टिप्पनी
तेषां होमानां बलीनां च ये मन्त्रास् तेषाम् उपयोगे ।
उपयोगो नियमपूर्वकं विद्याग्रहणम्8 ।
तत्र द्वादशाहम् अधश्शय्या स्थण्डिलशायित्वम् । ब्रह्मचर्यं मैथुनवर्जनम् ।
4क्षारलवणवर्जनं च भवति ।
उपयोक्तुर् एव व्रतम्, अध्ययनाङ्गत्वात् ।
अन्ये तु पत्न्या अपीच्छन्ति - उपयोगः प्रथम-योगः तत्र च पत्न्या अपि सहाऽधिकार इति वदन्तः ॥ १३ ॥
14 उत्तमस्यैकरात्रमुपवासः ...{Loading}...
उत्तमस्यैकरात्रमुपवासः १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (When he studies the Mantras) for the last (Bali offered to the goblins), he shall fast for one (day and) night. 9
हरदत्त-टीका
सूत्रम्
उत्तमस्यैकरात्रमुपवासः ॥ १४ ॥
टिप्पनी
उत्तमस्य ‘उत्तमेन वैहायसम्’(२.४.८.) इति वक्ष्यमाणस्य8 ‘ये भूताः प्रचरन्ती’त्यस्य
एकरात्रमुपवासः कर्तव्यः ॥ १४ ॥
15 बलीनान् तस्य तस्य ...{Loading}...
बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- For each Bali-offering the ground must be prepared separately. (The performer) sweeps (the ground) with his (right) hand, sprinkles it with water, turning, the palm downwards, throws down (the offering), and afterwards sprinkles water around it. 10
हरदत्त-टीका
सूत्रम्
बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्याऽऽवोक्ष्य न्युप्य पश्चात्परिषेचनम् ॥ १५ ॥
टिप्पनी
बलीनां मध्ये तस्यतस्य बलेर्देशे संस्कारः कर्तव्यः। कः पुनरसौ? हस्तेन परिमार्जनमवोक्षणं च । तं कृत्वा बलिं निवपति । न्युप्य पश्चात् परिषेचनं कर्तव्यम् । उपदेशक्रमादेव सिद्धे पश्चाद्ग्रहणं मध्ये गन्धमाल्यादिदानार्थमित्याहुः। ‘तस्यतस्ये’ति वचनं सत्यपि सम्भवे सकृदेव परिमार्जनमवोक्षणं च मा भूत् । एकस्मिन्देशे समवेतानामपि पृथक्पृथग्यथा स्यादिति ॥ १५ ॥
16 औपासने पचने वा ...{Loading}...
औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६
०५ ओम् अग्नये ...{Loading}...
- ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।
०६ सोमाय स्वाहा ...{Loading}...
- सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++
०७ विश्वेभ्यो देवेभ्यस् ...{Loading}...
- विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।
०८ ध्रुवाय भूमाय ...{Loading}...
- +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।
०९ ध्रुवक्षितये स्वाहा ...{Loading}...
- ध्रु॒व॒-क्षित॑ये॒ +++(खे)+++ स्वाहा॑। +++(विवाहे ध्रुवदर्शनमन्त्रेऽप्य् अयम् प्रयोगः)+++
१० अच्युतक्षितये स्वाहा ...{Loading}...
- अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑।
११ अग्नये स्विष्टकृते ...{Loading}...
- अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- (At the Vaiśvadeva sacrifice) he shall offer the oblations with his hand, (throwing them) into the kitchen-fire or into the sacred (Gṛhya)-fire, and reciting (each time one of) the first six Mantras (prescribed in the Nārāyaṇī Upaniṣad). 11
हरदत्त-टीका
सूत्रम्
औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् ॥ १६ ॥
टिप्पनी
यत्र पच्यते स पचनोऽग्निः । औपासनवतामोपासने, धिधुरस्य पचन इति व्यवस्थितो विकल्पः । अन्ये तु— तुल्यविकल्पं मन्यन्ते । षड्भिराद्यैः 12‘अग्नये स्वाहा, सोमाय स्वाहा, विश्वेभ्यो देवेभ्यस्स्वाहा, ध्रुवाय भौमाय स्वाहा, ध्रवक्षितये स्वाहा, अच्युतक्षिनये स्वाहेत्येतैः। एते हि मन्त्रपाठे पठिताः प्राग्विवाहमन्त्रेभ्यः विशिष्टनियमसापेक्षग्रहणत्वात्तैस्सह न गृह्यन्ते । केचित् सौविष्टकृतमपि सप्तमं जुह्वति ‘अग्नये स्विष्टकृते स्वाहे’ति औषधहविष्केषु तस्य सर्वत्र प्रवृत्तिरिति वदन्तः । अन्ये तु सोमाय स्वाहेति न पठन्ति । सौविष्टकृतं षष्ठं पठन्ति । हस्तग्रहणं दर्व्यादिनिवृत्त्यर्थम् ॥ १६ ॥
17 उभयतः परिषेचनं यथा ...{Loading}...
उभयतः परिषेचनं यथा पुरस्तात् १७
१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...
अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++
अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++
सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++
देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall sprinkle water all around both times (before and after the oblations), as (has been declared) above. 13
हरदत्त-टीका
सूत्रम्
उभयतः परिषेचनं यथा पुरस्तात् ॥ १७ ॥
टिप्पनी
उभयतः । पुरस्तादुपरिष्टाच्च परिषेचनं कर्तव्यम् । कथम् ? यथा पुरस्तात् उक्तं गृह्ये4 ‘अदितेऽनुमन्यस्वे’त्यादि, ‘अन्वम्ँ स्थाः प्रासावीरिति मन्त्रसन्नाम’ इति च । सामयाचारिकेषु पार्वणेनातिदेशो न प्रवर्तत इति ज्ञापितत्वादप्राप्तविधिरयम् । अन्ये तु परिसङ्ख्यां मन्यन्ते-परिषेचनमेव वैश्वदेवे, नाऽन्यत्तन्त्रमिति ॥ १८ ॥
18 एवम् बलीनान् देशे ...{Loading}...
एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- In like manner water is sprinkled around once only after the performance of those Bali-offerings that are performed in one place. 14
हरदत्त-टीका
सूत्रम्
एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् ॥ १८ ॥
टिप्पनी
यथा षण्णामाहुतीनां परिषेचनं तन्त्रम्, विभवात् । एवं बलयोऽपि ये एकस्मिन् देशे समवेता ‘उत्तरैर्ब्रह्मसदन’ (४.२.४) इत्यादयस्तेषां यदन्ते परिषेचनं प्राप्तं ‘पश्चात्परिषेचन’मित्यनेन विहितं तत्सर्वान्ते सकृत्कर्तव्यम्, न प्रत्येकं पृथगिति । असत्यस्मिन् सूत्रे पूर्वत्र ‘तस्य तस्ये’ति वचनाद्यथा परिमार्जनमवोक्षणं च प्रत्येकं पृथक्पृथग्भवति तथा परिषेचनमपि स्यात् । अत्र चोपदेशादेव य एकदेशस्था बलयस्तेषामेव सकृदन्ते परिषेचनं, न यादृच्छिकसमवेतानाम् । तेन यद्यप्यगारस्योत्तरपूर्वदेशश्शय्यादेशः, तथापि कामलिङ्गस्य पृथकपरिषेचनं भवति ॥१९॥
19 सति सूपसंसृष्टेन कार्याः ...{Loading}...
सति सूपसंसृष्टेन कार्याः १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If a seasoning) has been prepared, (the Bali-offering should consist of rice) mixed with that seasoning.
हरदत्त-टीका
सूत्रम्
सति सूपसंसृष्टेन कार्याः ॥ १९ ॥
टिप्पनी
सति सूपे तत्संसृष्टा बलयः कार्याः । अन्ये त्वन्यैरपि व्यजनैस्संसर्गमिच्छन्ति । तथा च बौधायनः— 8 ‘काममितरेष्वायतने’ष्विति । एष एव व्यञ्जनानां संस्कारः। 12सूत्रस्यापि—
व्यञ्जनैस्सुष्ठूपसंसृष्टेनाऽन्नेन बलयः कार्यास्सति सम्भव इत्यर्थः इति ॥ १९ ॥
20 अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् ...{Loading}...
अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- With the seventh and eighth Mantras (Balis 15 must be offered to Dharma and Adharma) behind the fire, and must be placed the one to the north of the other.
हरदत्त-टीका
सूत्रम्
अपरेणाऽग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् ॥२०॥
टिप्पनी
अपरेणाऽग्निमग्नेः पश्चात् । सप्तमाष्टमाभ्यां ‘धर्माय स्वाहा, अधर्माय स्वाहे’त्येताभ्यां बलिहरणx कर्तव्यम् । उदगपवर्गम् । न प्रागपवर्गम् ॥ २० ॥
21 उदधानसन्निधौ नवमेन ...{Loading}...
उदधानसंनिधौ नवमेन २१
१३ धर्माय स्वाहा ...{Loading}...
- धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
- अ॒द्भ्यस् स्वाहा॑ । +++(उदधानसंनिधौ नवमेन २१)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- With the ninth (Mantra a Bali offered to the waters must be placed) near the water-vessel (in which the water for domestic purposes is kept). 16
हरदत्त-टीका
सूत्रम्
उधानसन्निधौ नवमेन ॥ २१ ॥
टिप्पनी
उदकं यत्र धीयते तदुदधानं17 मणिकाख्यम् । तस्य सन्निधौ नवमेन ‘अद्भ्यः स्वाहेत्यनेन ॥ २१ ॥
22 मध्येऽगारस्य दशमैकादशाभ्याम् प्रागपवर्गम् ...{Loading}...
मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२
१४ ओषधिवनस्पतिभ्यस् स्वाहा ...{Loading}...
- ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- With the tenth and eleventh (Mantras, Balis, offered to the herbs and trees and to Rakṣodevajana, must be placed) in the centre of the house, and the one to the east of the other. 18
हरदत्त-टीका
सूत्रम्
मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ॥२२ ॥
टिप्पनी
दशमैकादशाभ्यां ‘औषधिवनस्पतिभ्यः स्वाहा, रक्षोदेवजनेभ्यः स्वा’हेत्येताभ्यां अगारस्य मध्ये प्रागपवर्गं कर्तव्यम् ॥ २२ ॥
23 उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः ...{Loading}...
उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३
१५ गृह्यभ्यस् स्वाहा ...{Loading}...
- +++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृह्या॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस्+++(=सीमाभ्यः)+++ स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- With the following four (Mantras, Balis must be placed) in the north-eastern part of the house (and the one to the east of the other). 19
हरदत्त-टीका
सूत्रम्
उत्तरपूर्वे देशेऽगारस्योत्तरैश्चतुर्भिः ॥ २३ ॥
टिप्पनी
अगारस्य य उत्तरपूर्वो देशस्तरोत्तरैश्चतुर्भिः ‘गृह्याभ्यः स्वाहा, अवसानेभ्यः स्वाहा, अवसानपतिभ्यः स्वाहा, सर्वभूतेभ्यः स्वाहेत्येतैः प्रागपवर्गमित्येव ॥२३॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने तृतीया कण्डिका ॥३॥
-
- ‘The food which is used at the Vaiśvadeva, i. e. the food prepared for the meals of the householder and of his wife.’–Haradatta.
-
This Sūtra is a Jñāpaka, as it indicates that Āpastamba also recognises the different rules which are usually prescribed in the Smṛtis for Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras. See above, I, 5, 16, 2. ↩︎
-
Usually in bathing both Āryas and Śūdras wear no dress except the langoṭī. ↩︎
-
Manu II, 54. ↩︎
-
Balis are portions of food which are thrown before the door, or on the floor of the house. See below, Sūtra 16 seq. ↩︎
-
Others explain this Sūtra thus: ‘After having used for the first time these sacred formulas (which are to be recited in offering the burnt-oblation and the Balis, the householder and his wife) shall sleep,’ &c. ↩︎
-
तथा च बौधायनः-‘तेषां ग्रहणे द्वादशरात्र’मित्यादि इत्यधिकं ख. पुस्तके । ↩︎ ↩︎ ↩︎
-
Regarding the use of ekarātra in the sense of ‘a (day and a) night,’ see above. The ’last’ Bali-offering is that described below, II ,2, 4, 5. ↩︎
-
‘They say that the word “afterwards” is used in order to indicate that perfumes, garlands, and other (Upacāras) must be, offered between (the last two acts).’–Haradatta. ↩︎
-
It is a disputed point with the commentators whether every Brāhmaṇa may offer the Vaiśvadeva in the common kitchen-fire, or those persons only who do not keep a sacred domestic fire. The six Mantras, which are given Taitt. Ār. X, 67, 1, are: 1. Agnaye svāhā, ’to Agni svāhā’; 2. Somāya svāhā, ’to Soma svāhā’; 3. Viśvebhyo devebhyaḥ svāhā, ’to all the gods svāhā’; 4. Dhruvāya bhūmaya svāhā, ’to Dhruva Bhūma svāhā’; 5. Dhruvakṣitaye svāhā, ’to Dhruvakṣiti svāhā’; 6. Acyutakṣitaye svāhā, ’to Acyutakṣiti svāhā.’ Haradatta adds that some add a seventh formula, addressed to Agni sviṣṭakṛt, ’to the fire which causes the proper performance of the sacrifice,’ while others leave out the second Mantra and give that addressed to Agni sviṣṭakṛt the sixth place. This latter is the order given in the Calcutta edition of the Taittirīya Āraṇyaka. ↩︎
-
‘Above, i.e. Gṛhya-sūtra, I, 2, 3, 8.’–Haradatta. The Mantras recited are: 1. at the first sprinkling, Adite ’numanyasva, ‘Aditi permit’; Anumate ’numanyasva, ‘Anumati permit’; Sarasvaty anumanyasva, ‘Sarasvatī permit’; Deva Savitaḥ prasuva, ‘Divine Savitṛ permit’; 2. at the second sprinkling, the same as above, anvamaṃsthāḥ and prāsāvīḥ, ’thou hast permitted,’ being substituted for anumanyasva and prasuva. ↩︎
-
This Sūtra is a restriction of Sūtra 15. ↩︎
-
The first six offerings constitute the Devayajña or Vaiśvadeva, which is offered in the fire. Now follow the Bali-offerings, which are merely placed on the ground. ‘Behind the fire’ means to the east of the fire’; for the sacrificer must face the east. ↩︎
-
The Mantra is, Adbbyaḥ svāhā, ’to the Waters svāhā.’ ↩︎
-
अस्य विधिर्गृह्ये वास्तुनिर्माणविधौ ( आप०गृ० १७. १) द्रष्टव्यः । ↩︎
-
The Mantras are, Osbadhivanaspatibbyaḥ svāhā, ’to the herbs and trees svāhā’; Raksbodevajanebhyaḥ svāhā, ’to the Rākṣasas and the servants of the gods svāhā.’ ↩︎
-
These four Balis are sacred to the Gṛhās, to the Avasānas, to the Avasānapatis, and to all creatures. ↩︎