01 अपि वा लेपान्प्रक्षाल्याचम्य ...{Loading}...
अपि वा लेपान्प्रक्षाल्याचम्य प्रोक्षणमङ्गानाम् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or they shall remove the stains with earth or water, sip water, and sprinkle the body with water.
हरदत्त-टीका
सूत्रम्
अपि वा लेपान्प्रक्षाल्याऽऽचम्य प्रोक्षणमङ्गानाम् ॥ १ ॥
टिप्पनी
अपि वा रेतसो रजसश्च ये लेपास्तानद्भिर्मृदा च प्रक्षाल्याऽऽचम्य अङ्गानां प्रोक्षणं शिरःप्रभृतीनां कर्तव्यम्1 । रुचितो व्यवस्था । यावता प्रयतो मन्यते ॥ १॥
02 सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं ...{Loading}...
सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- Men of all castes, if they fulfil their (assigned) duties, enjoy (in heaven) the highest, imperishable bliss.
हरदत्त-टीका
सूत्रम्
सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् ॥२॥
टिप्पनी
सर्वेषामेव वर्णानां ब्राह्मणादीनां चतुर्णां ये स्वधर्मा वर्णप्रयुक्ता आश्रमप्रयुक्ता उभयप्रयुक्ता वा तेषामवैगुण्येनाऽऽन्तादनुष्ठाने सति परमुत्कृष्टं अपरिमितमक्षयं सुखं स्वर्गाख्यं भवति ॥२॥
03 ततः परिवृत्तौ कर्मफलशेषेण ...{Loading}...
ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते । तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Afterwards when (a man who has fulfilled his duties) returns to this world, he obtains, by virtue of a remainder of merit, birth in a distinguished family, beauty of form, beauty of complexion, strength, aptitude for learning, wisdom, wealth, and the gift of fulfilling the laws of his (caste and order). Therefore in both worlds he dwells in happiness, (rolling) like a wheel (from the one to the other).
हरदत्त-टीका
सूत्रम्
ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्ण बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ॥ ३ ॥
प्रस्तावः
न केवलमेतावत् । किं तर्हि ?
टिप्पनी
ततः सुखानुभवानन्तरं परिवृत्तिरिह लोके जन्म भवति । तस्यां च कर्मणां यः फलशेषोऽभुक्तोऽशः, तेन जातिं ब्राह्मणादिकां विशिष्टे वा कुले जन्म । रूपं कान्तिम् । वर्ण हेमादितुल्यम् । बलं प्रतिपक्षनिग्रहक्षमम् । मेधां 2 ग्रन्थधारणशक्तिम् । प्रज्ञा अर्थधारणशक्तिम् । द्रव्याणि स्वर्णादीनि । धर्मानुष्ठानम् इतिकरणाद्यच्चान्यदेवं युक्तं तत्सर्वं प्रतिपद्यते । सर्वत्र धर्मशेषो हेतुः । कर्माणि भुज्यमानानि सावशेषाणि भुज्यन्ते । ऐहिकस्य शरीरग्रहणादेरपि कर्मफलत्वात् । धर्मानुष्ठानं प्रतिपद्यत इत्युक्तम् । यदा चैवं तदा सर्ववर्णानां स्वधर्मानुष्ठान इत्यादि प्रतिपद्यत इत्यन्तं पुनर्भवतीत्यनुक्तसिद्धम् । तत् तस्माच्चक्रवदुभयोर्लोकयोरिह चाऽमुस्मिंश्च सुख एव वर्तते न जातु चित् दुःखे वर्तते । सुखानुबन्धेनैवाऽऽवृत्तिर्भवतीत्यर्थः ॥ ३ ॥
04 यथौषधिवनस्पतीनाम् बीजस्य क्षेत्रकर्मविशेषे ...{Loading}...
यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- As the seed of herbs (and) trees, (sown) in good and well-cultivated soil, gives manifold returns of fruit (even so it is with men who have received the various sacraments).
हरदत्त-टीका
सूत्रम्
यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ॥ ४ ॥
प्रस्तावः
शरीरोत्पत्तिसंस्कारा3अप्यावश्यका इति दर्शयितुं दृष्टान्तमाह—
टिप्पनी
चलोपोऽत्र द्रष्टव्यः । यथा चौषधीना ब्रीह्यादीनां वनस्पतीनां चाम्रादीनां बीजस्य क्षेत्रविशेषे कर्मविशेषे संस्कारविशेषे च क्षेत्रस्य वा कृम्यादौ कर्मविशेषे फलपरिवद्धिर्भवति । त एव ब्रीह्यादय ऊषर उप्ता न रोहन्ति । कृष्यादिपरिकर्मिते तु क्षेत्रे उप्ताः स्तम्बकरयो भवन्ति । एवं पुरुषेऽपि गर्भाधानादिसंस्कारसम्पन्ने द्रष्टव्यम् ॥ ४॥
05 एतेन दोषफलपरिवृद्धिरुक्ता ...{Loading}...
एतेन दोषफलपरिवृद्धिरुक्ता ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- The increase of the results of sins has been explained hereby.
हरदत्त-टीका
सूत्रम्
एतेन दोषफलपरिवृद्विरुक्ता ॥ ५ ॥
टिप्पनी
एतेनैव न्यायेन दुष्कर्मफलपरिवद्धिरप्युक्ता वेदितव्या । 1तत्रोहेन पठनीयम्— सर्ववर्णानां स्वधर्माननुष्ठाने परमपरिमितदुःखम् । ततः परिवृत्तौ कर्मफलशेषेण दुष्टां जात्यादिकामद्रव्यान्तामधर्मानुष्ठानमिति प्रतिपद्यते । तच्चक्रवदुभयोर्दुःख एच वर्तते। यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषाभावे फलहानिरेवमिति ॥५॥
06 स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो ...{Loading}...
स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिंल् लोके परिमिते निरये वृत्ते जायते चाण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Thus after having undergone a long punishment in the next world, a person who has stolen (the gold of a Brāhmaṇa) or killed a (Brāhmaṇa) is born again, in case he was a Brāhmaṇa as a Cāṇḍāla, in case he was a Kṣatriya as a Paulkasa, in case he was a Vaiśya as a Vaiṇa. 4
हरदत्त-टीका
सूत्रम्
स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिल्लोँकेऽपरिमिते निरये वृत्ते जायते चण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ॥ ६ ॥
टिप्पनी
दोषफलपरिवृद्धावुदाहरणमाह—
टिप्पनी
स्तेनः सुवर्णचोरः । अभिशस्तो ब्रह्महा स्तेनोऽभिशस्तो वा ब्राह्मणादिरमुष्मिल्लोँकेऽपरिमिते निरये दोषफलमनुभूय तस्मिन् वृत्ते परिक्षीणे ब्राह्मणश्चण्डालो जायते । शूद्रात् ब्राह्मण्यां जातश्चण्डालः, राजन्यः, पौल्कसः । शूद्राक्षत्रियायां जातः पुल्कसः । स एव पौलकसः । प्रज्ञादित्वादण् । वैश्यो, वैणो जायते2 वेणुना नर्तको वैणः ॥ ६॥
07 एतेनान्ये दोषफलैः कर्मभिः ...{Loading}...
एतेनान्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the same manner other (sinners) who have become outcasts in consequence of their sinful actions are born again, on account of (these) sins, losing their caste, in the wombs (of various animals). 5
हरदत्त-टीका
सूत्रम्
एतेनाऽन्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ॥ ७ ॥
टिप्पनी
वर्णपरिध्वंसा वर्णेभ्यः प्रच्यवनं तस्यां वर्णपरिध्वंसायाम् । यथा ब्राह्मणादयश्चण्डालाद्या जायन्ते । एतेन प्रकारेण स्तेनाभिशस्ताभ्यां अन्येऽपि दोषफलैः कर्मभिर्दोषफलासु सूकरादिषु, योनिषु जायन्ते । परिध्वंसाः स्वजातिपरिभ्रष्टा इत्यर्थः । ते तथाऽवगन्तव्या इति ॥ ७ ॥
08 यथा चाण्डालोपस्पर्शने सम्भाषायान् ...{Loading}...
यथा चाण्डालोपस्पर्शने संभाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- As it is sinful to touch a Cāṇḍāla, (so it is also sinful) to speak to him or to look at him. The penance for these (offences will be declared).
हरदत्त-टीका
सूत्रम्
यथा चण्डालोपस्पर्शने सम्भाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ॥ ८॥
टिप्पनी
चण्डालोपोस्पर्शने दोषो भवति । तथा सम्भाषायां दर्शने च । उपसमस्तमपि चण्डालग्रहणमभिसम्बध्यते । तत्र सर्वत्र प्रायश्चित्तं वक्ष्यते ॥८॥
09 अवगाहनमपामुपस्पर्शने सम्भाषायाम् ब्राह्मणसम्भाषा ...{Loading}...
अवगाहनमपामुपस्पर्शने संभाषायां ब्राह्मणसंभाषा दर्शने ज्योतिषां दर्शनम् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The penance) for touching him is to bathe, submerging the whole body; for speaking to him to speak to a Brāhmaṇa; for looking at him to look at the lights (of heaven).
हरदत्त-टीका
सूत्रम्
अवगाहनमपामुपस्पर्शने ॥९॥
सम्भाषायां ब्राह्मणसम्भाषा ॥ १० ॥
दर्शने ज्योतिषां दर्शनम् ॥ ११ ॥
टिप्पनी
उपस्पर्शने सत्यवगाहनमपां प्रायश्चित्तम्। ऋजुनी उत्तरे द्वे सत्रे । अस्मिन् कर्मप्रशंसाप्रकरणे प्रायश्चित्ताभिधानं स्वकर्मव्युतानां निन्दार्थम् । एवंनाम निन्दितश्चण्डालः यस्य दर्शनेऽपि प्रायश्चित्तं स एव जायते स्वकर्मच्युतो ब्राह्मण इति ॥ ९-११ ॥
इत्यास्तम्बधर्मसूत्रवृत्तावुज्वलायां द्वितीयप्रश्ने द्वितीया कण्डिका ॥२॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां द्वितीयप्रश्ने प्रथमः पटलः ॥ १॥
इति प्रथमः पटलः
-
इदमनृतुकाले इत्यधिकं ख.च. पुस्तकयोः ‘रुचितः इत्यादिग्रन्थोऽपि नास्ति तत्र। ↩︎ ↩︎
-
मेधां ग्रन्थग्रहणशक्तिम्, प्रज्ञां अर्थग्रहणशक्तिम् इति क. च. पु. । ↩︎ ↩︎
-
अप्यवश्यापेक्ष्या इति. च. पु. ↩︎
-
- Manu XII, 55; Yājñ. III, 206, 207. A Paulkasa is said to be the offspring of a Niṣāda and a Kṣatriya woman. See the Pet. Dict. s.v. A Vaiṇa is a rope-dancer, or equilibrist.
-
Manu XII, 52. ↩︎