३१

01 प्राङ्मुखोऽन्नानि भुञ्जीत उच्चरेद्दक्षिणामुखः ...{Loading}...

प्राङ्-मुखो ऽन्नानि भुञ्जीत
उच्चरेद् दक्षिणा-मुखः ।
उदङ्-मुखो मूत्रं कुर्यात्
प्रत्यक्-पादावनेजनम्

इति १

02 आराच्चावसथान्मूत्रपुरीषे कुर्याद्दक्षिणान् दिशन् ...{Loading}...

आराच् चावसथान् मूत्रपुरीषे कुर्याद्, दक्षिणां दिशं दक्षिणापरां वा २

03 अस्तमिते च बहिर्ग्रामादारादावसथाद्वा ...{Loading}...

अस्तम् इते च
बहिर् ग्रामाद्,
आराद् आवसथाद् वा मूत्रपुरीषयोः कर्म वर्जयेत् ३

04 देवताभिधानञ् चाप्रयतः ...{Loading}...

देवताभिधानं चाप्रयतः ४

05 परुषञ् चोभयोर् देवतानां ...{Loading}...

परुषं +++(वचनं)+++ चोभयोर् देवतानां राज्ञश् च +++(वर्जयेत्)+++ ५

06 ब्राह्मणस्य गोरिति पदोपस्पर्शनं ...{Loading}...

ब्राह्मणस्य गोर् इति पदोपस्पर्शनं वर्जयेत् ६

07 हस्तेन चाकारणात् ...{Loading}...

हस्तेन चाकारणात् ७

08 गोर्दक्षिणानाङ् कुमार्याश्च परीवादान् ...{Loading}...

गोर्, दक्षिणानां, कुमार्याश् च परीवादान् वर्जयेत् ८

09 स्पृहतीञ् च गान् ...{Loading}...

+++(सस्यधान्यादिकं भक्षयन्तीं←)+++ स्पृहतीं च गां नाचक्षीत +++(तत्स्वामिने)+++ ९

10 संसृष्टाञ् च वत्सेनानिमित्ते ...{Loading}...

संसृष्टां +++(गां)+++ च वत्सेनानिमित्ते +++(नाचक्षीत तत्स्वामिने)+++१०

11 नाधेनुमधेनुरिति ब्रूयात् धेनुभव्येत्येव ...{Loading}...

नाधेनुम् अधेनुर् इति ब्रूयात् - “धेनुभव्ये"त्य् एव ब्रूयात् ११

12 न भद्रम्भद्रमिति ब्रूयात् ...{Loading}...

न भद्रम् “भद्रम्” इति ब्रूयात् । +++(तत्-स्थाने)+++ “पुण्यं प्रशास्तम्” इत्येव ब्रूयात् १२

13 वत्सतन्तीञ् च नोपरि ...{Loading}...

वत्स-तन्तीं च नोपरि गच्छेत् १३

14 प्रेङ्खावन्तरेण (डोलास्तम्भौ) च ...{Loading}...

प्रेङ्खाव्+++(=डोलास्तम्भौ)+++ अन्तरेण च नातीयात् १४

15 नासौ मे सपत्न ...{Loading}...

न “+असौ मे सपत्न” ब्रूयात् । यद्यसौ मे सपत्न इति ब्रूयाद्, द्विषन्तं भ्रातृव्यं जनयेत् १५

16 नेन्द्रधनुरिति परस्मै प्रब्रूयात् ...{Loading}...

नेन्द्र-धनुर् इति परस्मै प्रब्रूयात् १६

17 न पततः सञ्चक्षीतः ...{Loading}...

न पततः +++(=पक्षिणः/ asteroids)+++ संचक्षीतः+++(=गणयेत्)+++ १७

18 उद्यन्तमस्तं यन्तञ् चादित्यन् ...{Loading}...

उद्यन्तम् अस्तं यन्तं चादित्यं दर्शने वर्जयेत् १८

19 दिवादित्यः सत्त्वानि गोपायति ...{Loading}...

दिवादित्यः सत्त्वानि गोपायति,
नक्तं चन्द्रमास्,
तस्माद् अमावास्यायां निशायां स्वाधीय+++(=साधीय)+++ आत्मनो गुप्तिम् इच्छेत्
प्रायत्य-ब्रह्मचर्य-काले चर्यया च १९

20 सह ह्येतां रात्रिं ...{Loading}...

सह ह्य् एतां रात्रिं सूर्याचन्द्रमसौ वसतः २०

21 न कुसृत्या ग्रामम् ...{Loading}...

न कुसृत्या ग्रामं प्रविशेत् ।
यदि प्रविशेन् “नमो रुद्राय वास्तोष्पतय” इत्येताम् ऋचं जपेद् अन्यां वा रौद्रीम् २१

22 नाब्राह्मणायोच्छिष्टम् प्रयच्छेत् यदि ...{Loading}...

नाब्राह्मणायोच्छिष्टं प्रयच्छेत् ।
यदि प्रयच्छेद् - दन्तान् स्कुप्त्वा, तस्मिन्न् अवधाय प्रयच्छेत् २२

23 क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ...{Loading}...

क्रोधादींश् च भूत-दाहीयान् दोषान् वर्जयेत् २३


  1. म० स्मृ० २. ५२. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. ऋतं सत्यं, तत्फलमिच्छन् । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. या० स्मृ० १. १६. ↩︎ ↩︎ ↩︎

    1. Manu IV, 151; Yājñ. I, 16.
     ↩︎
  4. Manu IV, 163. ↩︎

  5. ‘In the section on transcendental knowledge (I, 8, 23, 5), “speaking evil” has been forbidden, in connection with the means of salvation. And below (Sūtra 25) the (author) will declare that the sins which destroy the creatures are to be avoided. But this precept (is given in order to indicate that) in the case of cows and the rest an extra penance must be performed.’–Haradatta. ↩︎

  6. Manu IV, 139. ↩︎

  7. Manu IV, 38. ↩︎

  8. ‘Or according to others, " He shall not pass between pillars supporting an arch."’–Haradatta. ↩︎

  9. Manu IV, 59. ↩︎

  10. Others explain (the Sūtra thus): He shall not announce it to others, if he sees (the souls of) good men falling from heaven on account of the expenditure of their merit, (i.e.) he shall not call attention to shooting-stars.’–Haradatta. ↩︎

  11. Manu IV, 37. 19. Manu IV, 153. ↩︎

  12. Manu IV, 73; Yājñ. I, 140. ↩︎

  13. Manu IV, 80. ‘This prohibition (given in the first part of the Sūtra) refers to Śūdras who are not dependents; to dependents the following (exception applies).’–Haradatta. ↩︎

  14. व० ध० १८ १४. ↩︎

  15. See above, I, 6, 23, 4 and 5, and Manu IV, 163. ↩︎