01 प्राङ्मुखोऽन्नानि भुञ्जीत उच्चरेद्दक्षिणामुखः ...{Loading}...
प्राङ्-मुखो ऽन्नानि भुञ्जीत
उच्चरेद् दक्षिणा-मुखः ।
उदङ्-मुखो मूत्रं कुर्यात्
प्रत्यक्-पादावनेजनम्
इति १
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall eat facing the east, void fæces facing, the south, discharge urine facing the north, and wash his feet turned towards the west.
हरदत्त-टीका
सूत्रम्
प्राङ्मुखोऽन्नानि भुञ्जीत्तोच्चरेद्दक्षिणामुखः ।
उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेजनमिति ॥१॥
टिप्पनी
उच्चारः पुरीषकर्म । पादावनेजनं पादप्रक्षालनम् । भोजनादिषु चतस्रो नियम्यन्ते । मनुस्तु—
1 ‘आयुष्यं प्राङ्मुखो भुक्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्त2 ऋतं भुङ्क्ते उदङ्मुखः’ ॥ इति।
याज्ञल्क्वश्च —
3 ‘दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः।
कुर्यान्मूत्रपुरीषे तु रात्री चेद्दक्षिणामुखः ॥’ इति ॥ १॥
02 आराच्चावसथान्मूत्रपुरीषे कुर्याद्दक्षिणान् दिशन् ...{Loading}...
आराच् चावसथान् मूत्रपुरीषे कुर्याद्, दक्षिणां दिशं दक्षिणापरां वा २
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall void excrements far from his house, having gone towards the south or south-west. 4
हरदत्त-टीका
सूत्रम्
आराच्चाऽऽवसथान्मूत्रपुरीषे कुर्याद्दक्षिणां दिशं दक्षिणापरां वा ॥ २॥
टिप्पनी
आवसथो गृहम् । तस्य दूरतो मूत्रपुरीषे कुर्यात्, दक्षिणां दिशम् । द्वितीयानिर्देशादभिनिष्क्रम्येति गम्यते । दक्षिणापरा नैऋती ॥२॥
03 अस्तमिते च बहिर्ग्रामादारादावसथाद्वा ...{Loading}...
अस्तम् इते च
बहिर् ग्रामाद्,
आराद् आवसथाद् वा मूत्रपुरीषयोः कर्म वर्जयेत् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- But after sunset he must not void excrements outside the village or far from his house.
हरदत्त-टीका
सूत्रम्
अस्तमिते च बहिर्ग्रामादारादावसथान्मूमूत्रपुरीषयोः कर्म वर्जयेत् ॥ ३ ॥
टिप्पनी
अस्तमित आदित्ये बहिर्ग्रामान्मूत्रपुरीषे न कुर्यात् । तथा अन्तर्ग्रामेऽपि गृहस्य दूरतो न कुर्यात् । दृष्टार्थोऽयं प्रतिषेधश्चोरव्याघ्रादिशङ्कया । निर्भये देशे नाऽस्ति दोषः ॥ ३ ॥
04 देवताभिधानञ् चाप्रयतः ...{Loading}...
देवताभिधानं चाप्रयतः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- And as long as he is impure he (shall avoid) to pronounce the names of the gods.
हरदत्त-टीका
सूत्रम्
देवताभिधानं चाऽप्रयतः॥ ४ ॥
टिप्पनी
देवतानामन्यादीनामभिधानं चाऽप्रयतस्मन् वर्जयेत् । 1अपिधानमित्यपि पाठे एष एवार्थः ॥ ४॥
05 परुषञ् चोभयोर् देवतानां ...{Loading}...
परुषं +++(वचनं)+++ चोभयोर् देवतानां राज्ञश् च +++(वर्जयेत्)+++ ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall not speak evil of the gods or of the king. 5
हरदत्त-टीका
सूत्रम्
परुषं चोभयोर्देवतानां राज्ञश्च ॥५॥
टिप्पनी
देवतानां राज्ञश्चेत्युभयोः । राश्यपेक्षया द्विवचनम् । परुष निन्दां वर्जयेत् ॥५॥
06 ब्राह्मणस्य गोरिति पदोपस्पर्शनं ...{Loading}...
ब्राह्मणस्य गोर् इति पदोपस्पर्शनं वर्जयेत् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not touch with his foot a Brāhmaṇa, a cow, nor any other (venerable beings).
हरदत्त-टीका
सूत्रम्
ब्राह्मणस्य गोरिति पदोपस्पर्शनं वर्जयेत् ॥ ६॥
टिप्पनी
ब्राह्मणं गां च पादेन नोपस्पृशेत् । इतिशब्दः प्रकारे । तेन विद्यावयोवृद्धानामब्राह्मणानामपि वर्जनम् ॥ ॥६॥
07 हस्तेन चाकारणात् ...{Loading}...
हस्तेन चाकारणात् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Nor shall he touch them) with his hand, except for particular reasons.
हरदत्त-टीका
सूत्रम्
हस्तेन चाऽकारणात् ॥ ७॥
टिप्पनी
कारणमभ्यङ्गकण्डूयनादि । तेन विना हस्तेनाऽप्युपस्पर्शनं वर्जयेत् पूर्वोक्तानाम् ॥ ७॥
08 गोर्दक्षिणानाङ् कुमार्याश्च परीवादान् ...{Loading}...
गोर्, दक्षिणानां, कुमार्याश् च परीवादान् वर्जयेत् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not mention the blemishes of a cow, of sacrificial presents, or of a girl. 6
हरदत्त-टीका
सूत्रम्
गोर्दक्षिणानां कुमार्याश्च परीवादान्वर्जयेत् ॥ ८ ॥
टिप्पनी
गोरदक्षिणाया अपि दक्षिणानामगवामपि हिरण्यादीनां कुमार्याः कन्यायाश्च दोषान् सतोऽपि न कथयेत् । अध्यात्मप्रकरणे योगाङ्गतया परीवादः प्रतिषिद्धः । अनन्तरं च वक्ष्यति2 ‘क्रोधादींश्च भूतदाहीयान् वर्जयेदिति । इदं तु वचनं गवादिषु प्रायश्चित्तातिरेकार्थम् ॥ ८ ॥
09 स्पृहतीञ् च गान् ...{Loading}...
+++(सस्यधान्यादिकं भक्षयन्तीं←)+++ स्पृहतीं च गां नाचक्षीत +++(तत्स्वामिने)+++ ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall not announce it (to the owner) if a cow does damage (by eating corn or grass in a field).
हरदत्त-टीका
सूत्रम्
स्पृहतीं च गां नाऽऽचक्षीत ॥ ९ ॥
टिप्पनी
स्पृहतीं सस्यधान्यादिकं भक्षयन्तीं गां स्वामिने न ब्रूयात् ॥ ९ ॥
10 संसृष्टाञ् च वत्सेनानिमित्ते ...{Loading}...
संसृष्टां +++(गां)+++ च वत्सेनानिमित्ते +++(नाचक्षीत तत्स्वामिने)+++१०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Nor shall he call attention to it) if a cow is together with her calf, except for a particular reason.
हरदत्त-टीका
सूत्रम्
संसृष्टां च वत्सेनाऽनिमित्ते ॥१०॥
टिप्पनी
या च गौर्वत्सेन संसृजते तामपि न ब्रूयादनिमित्ते-इयं ते गौर्वत्सेन पीयत इति । ‘अनिमित्ते’ इति वचनात्1 ‘यस्य हविषे वत्सा अपाकृता धयेयुरि’त्यादिके निमित्ते सति वक्तुर्नास्ति दोषः ॥ १०॥
11 नाधेनुमधेनुरिति ब्रूयात् धेनुभव्येत्येव ...{Loading}...
नाधेनुम् अधेनुर् इति ब्रूयात् - “धेनुभव्ये"त्य् एव ब्रूयात् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- And of a cow which is not a milch-cow he shall not say, ‘She is not a milch-cow.’ He must say, ‘This is a cow which will become a milch-cow.’
हरदत्त-टीका
सूत्रम्
नाऽधेनुमधेनुरिति ब्रूयात् । धेनुभव्येत्येव ब्रयात् ॥ ११ ॥
टिप्पनी
या च गौरधेनुः पयस्विनी भवति तामप्यधेनुरिति न ब्रूयात् ॥१९॥
किं तर्हि धेनुभव्येत्येव ब्रूयात- भविष्यन्ती धेनुर्धेनुभव्या । ‘धेनोर्भव्यायां (मुम् वक्तव्य) इति मुम् न भवति । च्व्यग्तत्वेनाऽव्ययत्वात् । वक्तव्यत्वे च सति शब्दनियमोऽयम् । न पुनरधेनुदर्शन एवं वक्तव्यम् ॥१२॥
12 न भद्रम्भद्रमिति ब्रूयात् ...{Loading}...
न भद्रम् “भद्रम्” इति ब्रूयात् । +++(तत्-स्थाने)+++ “पुण्यं प्रशास्तम्” इत्येव ब्रूयात् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not call ’lucky’ that which is lucky. He shall call it ‘a mercy, a blessing.’ 7
हरदत्त-टीका
सूत्रम्
2 न भद्रं भद्रमिति ब्रूयात् ॥ १३ ॥
टिप्पनी
यत् भद्रं तत् भद्रमिति न ब्रूयात् ॥ १३ ॥
सूत्रम्
पुण्यं प्रशास्तमित्येव ब्रूयात् ॥१४॥
प्रस्तावः
किं तु?
टिप्पनी
पुण्यं प्रशास्तमित्यनयोरन्यतरेण शब्देन ब्रूयात् । प्रशास्तं प्रशस्तम् । छान्दसो दीर्घः ॥ १४॥
13 वत्सतन्तीञ् च नोपरि ...{Loading}...
वत्स-तन्तीं च नोपरि गच्छेत् १३
14 प्रेङ्खावन्तरेण (डोलास्तम्भौ) च ...{Loading}...
प्रेङ्खाव्+++(=डोलास्तम्भौ)+++ अन्तरेण च नातीयात् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not pass between the posts from which a swing is suspended. 9
हरदत्त-टीका
सूत्रम्
प्रेङ्खावन्तरेण च नाऽतीयात् ॥ १६॥
टिप्पनी
प्रेङ्खौ डोलास्तम्भौ । तोरणस्तम्भावित्यन्ये । ताव् अन्तरेण नाऽतीयात्- तयोर्मध्ये न गच्छेत् ॥ १६ ॥
15 नासौ मे सपत्न ...{Loading}...
न “+असौ मे सपत्न” ब्रूयात् । यद्यसौ मे सपत्न इति ब्रूयाद्, द्विषन्तं भ्रातृव्यं जनयेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (In company) he shall not say, ‘This person is my enemy.’ If he says, ‘This person is my enemy,’ he will raise for himself an enemy, who will show his hatred.
हरदत्त-टीका
सूत्रम्
नाऽसौ मे सपत्न इति ब्रूयात् यद्यसौ में सपत्न इति ब्रूयात् द्विषन्तं भ्रातृव्यं जनयेत् ॥ १७ ॥
टिप्पनी
असौ देवदत्तो मे सपत्न इति न ब्रूयात् सदसि । किं कारणम् ? यद्यसौ मे सपत्न इति ब्रूयात्, द्विषन्तं, क्रियाशब्दोऽयम्, विद्विषाणं भ्रातृव्यं सपत्नं जनयेत् ‘व्यन् सपत्ने’ इति भ्रातृशब्दे व्यन् प्रत्ययः । एवं युक्ते स मन्येत-नाऽकस्मादयं ब्रूते नूनमस्य मयि द्वेषो वर्तत इति । ततश्च तत्प्रतीकारार्थं यतमानस्सपत्न एव जायते इति ॥ १७ ॥
16 नेन्द्रधनुरिति परस्मै प्रब्रूयात् ...{Loading}...
नेन्द्र-धनुर् इति परस्मै प्रब्रूयात् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he sees a rainbow, he must not say to others, ‘Here is Indra’s bow.’ 10
हरदत्त-टीका
सूत्रम्
नेन्द्रधनुरिति परस्मै प्रब्रूयात् ॥ १८ ॥
टिप्पनी
इन्द्रधनुराकाशे पश्यन् परस्मै तेन शब्देन न ब्रूयात् । यद्यवश्यं वक्तव्यं मणिधनुरिति ब्रूयात् । गौतमीये 1 दर्शनात् ॥ १८ ॥
17 न पततः सञ्चक्षीतः ...{Loading}...
न पततः +++(=पक्षिणः/ asteroids)+++ संचक्षीतः+++(=गणयेत्)+++ १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not count (a flock of) birds. 11
हरदत्त-टीका
सूत्रम्
न पततः सञ्चक्षीत ॥ १९ ॥
टिप्पनी
पततः पक्षिणः सङ्घीभूय स्थितान्न सञ्चक्षीत न गणयेत्— इयन्त एत इति । अपर आह— ‘पुण्यक्षयेण स्वर्गात्पततः सुकृतिनः परस्मै न सञ्चक्षीत-ज्योतींषि पतन्तीति न कथयेत् ॥ १९ ॥
18 उद्यन्तमस्तं यन्तञ् चादित्यन् ...{Loading}...
उद्यन्तम् अस्तं यन्तं चादित्यं दर्शने वर्जयेत् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid to look at the sun when he rises or sets. 12
हरदत्त-टीका
सूत्रम्
उद्यन्तमस्तं यन्तं चाऽऽदित्यं दर्शने वर्जयेत् ॥२०॥
टिप्पनी
उदयसमये अस्तमयसमये वा आदित्यं न पश्येत् ।
2मनुस्तु —
नेक्षेतोद्यन्तम् आदित्यं
नाऽस्तं यन्तं कदाचन ।
नोपरक्तं न वारिस्थं
न मध्यं नभसो गतम् ॥
इति ॥ २० ॥
19 दिवादित्यः सत्त्वानि गोपायति ...{Loading}...
दिवादित्यः सत्त्वानि गोपायति,
नक्तं चन्द्रमास्,
तस्माद् अमावास्यायां निशायां स्वाधीय+++(=साधीय)+++ आत्मनो गुप्तिम् इच्छेत्
प्रायत्य-ब्रह्मचर्य-काले चर्यया च १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- During the day the sun protects the creatures, during the night the moon. Therefore let him eagerly strive to protect himself on the night of the new moon by purity, continence, and rites adapted for the season.
हरदत्त-टीका
सूत्रम्
दिवाऽऽदित्यः सत्वानि गोपायति नक्तं चन्द्रमाः । तस्मादमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिमिच्छेत् प्रायत्यब्रह्मचर्यकाले चर्यया च ॥ २१ ॥
टिप्पनी
दिवा अहनि । आदित्यः सत्वानि गोपायति प्राणिनो रक्षति, आलोकदानेन ।
नक्तं रात्रौ चन्द्रमाः ।
तस्माद् अमावास्यायां निशायां रात्रौ
स्वाधीयः । वकारश्छान्दसः । अन्तिकवाढयोर्नेदसाधौ ।
बाढतरं भृशतरं आत्मनो गुप्तिं रक्षणमिच्छेत् ।
केन प्रकारेण ?
प्रायत्य-ब्रह्मचर्याभ्यां काले चर्यया च । अयं तावदर्थानुरूपः पाठः। अधीयमानस्तु प्रमादश्छान्दसो वा । प्रयतस्य भावः प्रायत्यं नित्यप्रायत्यादधिकेन प्रायत्येन स्नानादिजेन । ब्रह्मचर्येण मैथुनत्यागेन । काले कृतया चर्यया देवार्चनजपादिकया च ॥ २१ ॥
20 सह ह्येतां रात्रिं ...{Loading}...
सह ह्य् एतां रात्रिं सूर्याचन्द्रमसौ वसतः २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- For during that night the sun and the moon dwell together.
हरदत्त-टीका
सूत्रम्
सह ह्येतां रात्रिं सूर्याचन्द्रमसौ वसतः ॥ २२ ॥
प्रस्तावः
कस्मात्पुनरस्यां रात्रौ चन्द्रमा न गोपायतीत्याह —
टिप्पनी
एतां रात्रिम् । अत्यन्तसंयोगे द्वितीया । सर्वामेतां रात्रिं सूर्याचन्द्रमसौ सह वसतः । न च सूर्येण सह वसतश्चन्द्रमसः प्रकाशोऽस्ति ॥ २२ ॥
21 न कुसृत्या ग्रामम् ...{Loading}...
न कुसृत्या ग्रामं प्रविशेत् ।
यदि प्रविशेन् “नमो रुद्राय वास्तोष्पतय” इत्येताम् ऋचं जपेद् अन्यां वा रौद्रीम् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not enter the village by a by path. If he enters it thus, he shall mutter this Ṛk-verse, ‘Praise be to Rudra, the lord of the dwelling,’ or some other (verse) addressed to Rudra. 13
हरदत्त-टीका
सूत्रम्
न कुसृत्या ग्रामं प्रविशेत् ॥ २३ ॥
टिप्पनी
कुसृतिः कुमार्गः । तया ग्रामं न प्रविशेत् ॥ २३॥
सूत्रम्
यदि प्रविशे’न्नमो रुद्राय वास्तोष्पत्तय’ इत्येतामृचं जपेदन्यां वा रौद्रीम् ॥ २४ ॥
टिप्पनी
यदि गत्यन्तराभावात् प्रविशेत1 ‘नमो रुद्राये’त्यादिकामृचं जपेत् । अन्यां वा रौद्रीम्2 ‘इमां रुद्राय तवस’इत्यादिकाम् । अत्र वाजसनेयगृह्ये— 3 वनं प्रवेक्ष्यन्ननुमन्त्रयते ‘नमो रुद्राय वनसदे स्वस्ति मा सम्पारये’ति । पन्थानमारोक्ष्यन्ननुमन्त्रयते ‘नमो रुद्राय पथिपदे स्वस्ति मा सम्पारये’ति । अपः प्रवेक्ष्यन्ननुमन्त्रयते— ‘नमो रुद्रायाऽप्सुषदे स्वस्ति मा सम्पारयेति । तस्माद्यत्किञ्चन कर्म कुर्वन् स्यात् सर्वं ‘नमो रुद्राये’त्येव कुर्यात् ‘सर्वो ह्येष रुद्र’ इति श्रुतेरिति । भारद्वाजगृह्येऽप्यस्मिन्विषये कियानेव भेदः ॥२४॥
22 नाब्राह्मणायोच्छिष्टम् प्रयच्छेत् यदि ...{Loading}...
नाब्राह्मणायोच्छिष्टं प्रयच्छेत् ।
यदि प्रयच्छेद् - दन्तान् स्कुप्त्वा, तस्मिन्न् अवधाय प्रयच्छेत् २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not (ordinarily) give the residue of his food to a person who is not a Brāhmaṇa. When he gives it (to such a one), he shall clean his teeth and give (the food) after having placed in it (the dirt from his teeth). 14
हरदत्त-टीका
सूत्रम्
नाऽब्राह्मणायोच्छिष्टं प्रयच्छेत् ॥ २५ ॥
टिप्पनी
अब्राह्मणः शुद्रः । 15 ‘न शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्या’दिति वासिष्ठे दर्शनात् । तस्मा उच्छिष्टं न प्रयच्छे’दित्यनाश्रितविषयम् ॥ २५ ॥
सूत्रम्
यदि प्रयच्छेद्दन्तान् स्कुप्त्वा तस्मिन्नवधाय प्रयच्छेत् ॥२६॥
टिप्पनी
इदमाश्रितविषयम् । दन्तान्नखेन स्कुपवा विलिख्य तन्मलं तस्मिन्नुच्छिष्टेऽवधाय प्रयच्छेत् । ‘स्कुप्त्वे’ति स्कुभ्नातेः क्त्वाप्रत्यये छान्दसं भकारस्य चर्त्वम् । स्कुनोतेर्वा पकार उपजनः ॥ २६ ॥
23 क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ...{Loading}...
क्रोधादींश् च भूत-दाहीयान् दोषान् वर्जयेत् २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And let him avoid the faults that destroy the creatures, such as anger and the like. 16
हरदत्त-टीका
सूत्रम्
क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ॥ २७ ॥
टिप्पनी
क्रोधादयो भूतदाहीया अध्यात्मपटले(२२.५) व्याख्याताः । तद्वचनं योगिविषयमित्ययोगिनोऽपि स्नातकस्य क्रोधादिनिवृत्त्यर्थमिदं वचनम् । इदमेव तर्ह्युभयार्थमस्तु-योग्यर्थमयोग्यर्थं च । एवं सिद्धे तद्वचनं क्रोधादिवर्जनस्य योगाङ्गत्वप्रतिपादनार्थम् । तेन क्रोधाद्यनुष्ठाने योगसिद्धिर्न भवति । न पुनः स्नातकव्रतलोपप्रायश्चितमिति ॥२७॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने एकत्रिंशी कण्डिका ॥ ३१ ॥
-
- Manu IV, 151; Yājñ. I, 16.
-
Manu IV, 163. ↩︎
-
‘In the section on transcendental knowledge (I, 8, 23, 5), “speaking evil” has been forbidden, in connection with the means of salvation. And below (Sūtra 25) the (author) will declare that the sins which destroy the creatures are to be avoided. But this precept (is given in order to indicate that) in the case of cows and the rest an extra penance must be performed.’–Haradatta. ↩︎
-
Manu IV, 139. ↩︎
-
Manu IV, 38. ↩︎
-
‘Or according to others, " He shall not pass between pillars supporting an arch."’–Haradatta. ↩︎
-
Manu IV, 59. ↩︎
-
Others explain (the Sūtra thus): He shall not announce it to others, if he sees (the souls of) good men falling from heaven on account of the expenditure of their merit, (i.e.) he shall not call attention to shooting-stars.’–Haradatta. ↩︎
-
Manu IV, 37. 19. Manu IV, 153. ↩︎
-
Manu IV, 73; Yājñ. I, 140. ↩︎
-
Manu IV, 80. ‘This prohibition (given in the first part of the Sūtra) refers to Śūdras who are not dependents; to dependents the following (exception applies).’–Haradatta. ↩︎
-
व० ध० १८ १४. ↩︎
-
See above, I, 6, 23, 4 and 5, and Manu IV, 163. ↩︎