२९ पतित-धर्मः

विश्वास-प्रस्तुतिः …{Loading}…

खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२

विश्वास-प्रस्तुतिः …{Loading}…

यः प्रमत्तो हन्ति, प्राप्तं दोषफलम् २

विश्वास-प्रस्तुतिः …{Loading}…

सह संकल्पेन भूयः ३

विश्वास-प्रस्तुतिः …{Loading}…

एवमन्येष्वपि दोषवत्सु कर्मसु ४

विश्वास-प्रस्तुतिः …{Loading}…

तथा पुण्यक्रियासु ५

विश्वास-प्रस्तुतिः …{Loading}…

परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत ६

विश्वास-प्रस्तुतिः …{Loading}…

यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन्दोष इति पुराणे ७

विश्वास-प्रस्तुतिः …{Loading}…

अथाभिशस्ताः समवसाय
पतित-पुत्रेषु चरेयुर् धार्म्यम् इति
सांशित्येतरेतर-याजका इतरेतराध्यापका मिथो विवहमानाः ८

विश्वास-प्रस्तुतिः …{Loading}…

पुत्रान्संनिष्पाद्य ब्रूयुर् -
“विप्रव्रजततास्मद् -
एवं ह्य् अस्मत्स्व् आर्याः संप्रत्यपत्स्यते"ति ९

विश्वास-प्रस्तुतिः …{Loading}…

अथापि न सेन्द्रि यः पतति १०

विश्वास-प्रस्तुतिः …{Loading}…

तदेतेन वेदितव्यम् । अङ्गहीनो हि साङ्गं जनयति ११

विश्वास-प्रस्तुतिः …{Loading}…

मिथ्यैतदिति हारीतः १२

विश्वास-प्रस्तुतिः …{Loading}…

दधिधानीसधर्मा स्त्री भवति १३

विश्वास-प्रस्तुतिः …{Loading}…

यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तेन धर्मकृत्यं क्रियते । एवमशुचि शुक्लं यन्निवर्तते न तेन सह संप्रयोगो विद्यते १४

विश्वास-प्रस्तुतिः …{Loading}…

अभीचारानुव्याहारावशुचिकरावपतनीयौ १५

विश्वास-प्रस्तुतिः …{Loading}…

पतनीयाविति हारीतः १६

विश्वास-प्रस्तुतिः …{Loading}…

पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान्द्वादशार्धमासान्द्वादश द्वादशाहान्द्वादश सप्ताहान्द्वादश त्र्यहान्द्वादशाहं सप्ताहं त्र्यहमेकाहम् १७

विश्वास-प्रस्तुतिः …{Loading}…

इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः १८

इति दशमः पटलः


  1. बौधा० गृ० १. ११. ↩︎ ↩︎ ↩︎ ↩︎

  2. पा० सू० ६. ३ ↩︎ ↩︎ ↩︎

  3. श्रुतिधारी इति क० पु० ↩︎

    1. Haradatta gives, as an example, the case where a warrior saves the property of a traveller from thieves. If the traveller turns out to be a Brāhmaṇa, and the warrior did not know his caste before rescuing his property, his merit will be less than if he had rescued knowingly the property of a Brāhmaṇa.
     ↩︎
  4. गौ० ध० ७ २५ आप० ध० २१ ↩︎ ↩︎

  5. व० ध० ३. १६, १७, ↩︎

  6. It is impossible to agree with Haradatta’s explanation of the words to be addressed by Abhiśastas to their children. No Vedic license can excuse the use of the second person plural instead of the third. I propose the following: ‘Go out from among us; for thus (leaving the guilt) to us, you will be received (as) Āryas.’ it is, however, not improbable that our text is disfigured by several very old corruptions, compare Baudhāyana II, 1, 2, 18. ↩︎

  7. ‘In like manner a man who has lost his rights, (can) beget a son, who possesses the rights (of his caste). For the wife is also a cause (of the birth of the son), and she is guiltless.’–Haradatta. ↩︎

  8. The statements now following are those with which Āpastamba agrees. Those contained in Sūtras 8-11 are merely the pūrvapakṣa. ↩︎