02 खट्वाङ्गन् दण्डार्थे कर्मनामधेयम् ...{Loading}...
खट्वाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाभ्युपाश्रयेन्न हि म आर्यैः संप्रयोगो विद्यते १-१
एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १-२
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall take the foot of a bed instead of a staff and, proclaiming the name of his deed, he shall go about (saying), ‘Who (gives) alms to the murderer of a Bhrūṇa?’ Obtaining thus his livelihood in the village, he shall dwell in an empty house or under a tree, (knowing that) he is not allowed to have intercourse with Aryans. According to this rule he shall act until his last breath. He cannot be purified in this world. But (after death) his sin is taken away.
हरदत्त-टीका
सूत्रम्
खटाङ्गं दण्डार्थे कर्मनामधेयं प्रब्रुवाणश्चङ्क्रम्येत को भ्रूणघ्ने भिक्षामिति । ग्रामे प्राणवृत्तिं प्रतिलभ्य शून्यागारं वृक्षमूलं वाऽभ्युपाश्रये’न्न हिम आर्यैः सह सम्प्रयोगो विद्यते । एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नाऽस्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते॥ १ ॥
टिप्पनी
षडङ्गस्य वेदस्याऽध्येता, तदर्थवित्, प्रगोगशास्त्रस्य सव्याख्यस्यार्थवित् कर्मणामनुष्ठाताऽनुष्ठापयिता च ब्राह्मणो भ्रूणः । तथा च बौधायन:— 1‘वेदानां किञ्चिदधीत्य ब्राह्मणः । एका शाखामधीत्य श्रोत्रियः । अङ्गाध्याय्यनूचानः । कल्पाध्याय्यृषिकल्पः। सूत्रप्रवचनाप्यायी भ्रूणः’ इति । तं यो हतवान् स भ्रूणहा । स शुनः खरस्य वाऽजिनं वहिर्लोमपरिधाय पुरुषस्य यस्य कस्यचिन्मृतस्य शिरः, प्रतीपानार्थम् । प्रतिर्धात्वानुवादः 2 ‘उपसर्गस्य घञ्यमनुष्ये बहुल’मिति बाहुलको दीर्घः । पानमेव प्रतीपानम् । पानग्रहणमुपलक्षणम् । भोजनमपि तत्रैव । खटाङ्गं दण्डार्थे, खट्वाया अङ्गं खट्वाङ्गमीषादि तण्द्दण्डकृत्ये आदाय । “भ्रणहाऽस्मीत्येवं कर्मनिबन्धनमात्मनो नामधेयं प्रब्रुवाणश्चक्रम्येत इतस्ततश्चरेत् । कापालिकतन्त्रप्रसिद्धस्य खट्वाङ्गस्य वा ग्रहणम् । भिक्षाचरणकाले च को भ्रूणघ्ने भिक्षा ददातीति चरेत् । चरित्वा प्रामे प्राणवृत्तिं प्राणयात्रामात्रं प्रतिलभ्य शून्यागारं वृक्षमूलं वा निवासार्थमभ्युपाश्रयेत्- ‘न हि म आर्यैः सह सम्प्रयोगो विद्यत’ इत्येवं मन्यमानः । कियन्तं कालमेवं चरितव्यमित्यत आह— एतेनैवेत्यादि । गतम् ।
‘श्रोत्रियं वा कर्मसमाप्त(२४.२४.) मित्यत्र यः श्रोत्रियः 3ग्रन्थधारी अर्थज्ञश्च न भवति अनुष्ठापयिता च न भवति तस्य प्रहणम् ॥२॥
सूत्रम्
यः प्रमत्तो हन्ति प्राप्तं दोषफलम् ॥ २॥
टिप्पनी
‘क्षत्रियं हत्वे’त्येवमादिकेऽनुक्रान्तेऽपि विषये यः प्रमत्तो हन्ति प्रमादे नाऽबुद्धिपूर्वं हन्ति तस्याऽपि दोषफलं प्राप्तमेव । न तु प्रमादकृतमिति दोषाभावः ॥२॥
02 यः प्रमत्तो ...{Loading}...
यः प्रमत्तो हन्ति, प्राप्तं दोषफलम् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- He even who slays unintentionally, reaps nevertheless the result of his sin.
हरदत्त-टीका
सूत्रम्
यः प्रमत्तो हन्ति प्राप्तं दोषफलम् ॥ २॥
टिप्पनी
‘क्षत्रियं हत्वे’त्येवमादिकेऽनुक्रान्तेऽपि विषये यः प्रमत्तो हन्ति प्रमादे नाऽबुद्धिपूर्वं हन्ति तस्याऽपि दोषफलं प्राप्तमेव । न तु प्रमादकृतमिति दोषाभावः ॥२॥
03 सह सङ्कल्पेन भूयः ...{Loading}...
सह संकल्पेन भूयः ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (His guilt is) greater, (if he slays) intentionally.
हरदत्त-टीका
सूत्रम्
सह सङ्कल्पेन भूयः ॥ ३ ॥
टिप्पनी
सङ्कल्पेन सह वधे कृते भूयः प्रभूततरं भवति । तेन प्रमादकृते लघुप्रायश्चित्तम् , बुद्धिपूर्वं तु गुर्विति । यत्पुनः पूर्वमुक्तं ‘दोषवच्च कर्माभिसन्धिपूर्वं कृत्वाऽनभिसन्धिपूर्वं वे(२६.७)‘ति तत्र तेषु प्रायश्चित्तेषु विशेषाभावादिदमुक्तम् ॥ ३ ॥
04 एवमन्येष्वपि दोषवत्सु कर्मसु ...{Loading}...
एवमन्येष्वपि दोषवत्सु कर्मसु ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- The same (principle applies) also to other sinful actions,
हरदत्त-टीका
सूत्रम्
एवमन्येष्वपि दोषवत्सु कर्मसु ॥ ४ ॥
टिप्पनी
अन्येष्वपि हननव्यतिरिक्तेषु दोषवत्सु कर्ममु एवमेव द्रष्टव्यम्-अबुद्धिपूर्वं कृतेऽल्पो दोषः , बुद्धिपूर्वे महानिति ॥ ४॥
05 तथा पुण्यक्रियासु ...{Loading}...
तथा पुण्यक्रियासु ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And also to good works. 4
हरदत्त-टीका
सूत्रम्
तथा पुण्यक्रियासु ॥ ५ ॥
टिप्पनी
पुण्यक्रियास्वप्येष एव न्यायः— अबुद्धिपूर्वेऽल्पं फलम्, बुद्धिपूर्वे महदिति। तद्यथा— ब्राह्मणस्स्वान्यपहृत्य चोरेषु धावत्सु यदृच्छया कश्चिच्छूर आगतस्तान् हन्यात्, स्वयमेव वा शूरं दृष्ट्वा चोरा अपहृतानि द्रव्याण्युत्सृज्य पलायेरन् तदा शूरस्याऽल्पं पुण्यफलम् । यदा तु बुद्धिपूर्वं स्वयमेव चोरेभ्यः प्रत्याहृत्य स्वानि स्वामिभ्यो ददाति तदा महदिति । एवं स्वभार्याबुद्ध्या परदारगमनेऽल्पम्, अन्यत्र महदिति ॥५॥
06 परीक्षार्थोऽपि ब्राह्मण आयुधन् ...{Loading}...
परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Brāhmaṇa shall not take a weapon into his hand, though he be only desirous of examining it.
हरदत्त-टीका
सूत्रम्
परीक्षार्थोऽपि ब्राह्मण आयुधं नाऽऽददीत ॥ ६॥
टिप्पनी
गुणदोषज्ञानं परीक्षा । तया अर्थः प्रयोजनं यस्य सः । एवंभूतोऽपि ब्राह्मण आयुधं न गृह्णीयात् किं पुनर्हिंसार्थ इत्यपिशब्दार्थः ॥ ७ ॥
07 यो हिंसार्थमभिक्रान्तं हन्ति ...{Loading}...
यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन्दोष इति पुराणे ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- In a Purāṇa (it has been declared), that he who slays an assailant does not sin, for (in that case) wrath meets wrath.
हरदत्त-टीका
सूत्रम्
यो हिंसार्थमभिकान्तं हन्ति मन्युरेव मन्युं स्पृशति न तस्मिन् दोष इति पुराणे ॥ ७ ॥
प्रस्तावः
अस्य प्रतिप्रसवः—
टिप्पनी
यस्तु हिंसार्थं मारणार्थमभिक्रान्तमभिपतितं हन्ति न तस्मिन् दोषो विद्यत इति पुराणे श्रुतम् । दोषाभावे हेतुः-यस्मान्मन्युरेव मन्युं स्पृशति न पुनः पुरुषः पुरुषम् । अत्र वसिष्ठबौधायनौ—
1स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् ।
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ॥ इति ॥
मनुस्तु—
2शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुद्ध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥
आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे ।
स्त्रीविप्राभ्यवपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ इति ॥
गौतमः- 5‘प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीते’ति ॥
वसिष्ठः—
6अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥
आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत् ॥’ इति ॥७॥
08 अथाभिशस्ताः समवसाय पतितपुत्रेषु ...{Loading}...
अथाभिशस्ताः समवसाय पतित-पुत्रेषु - चरेयुर्धार्म्यमिति सांशित्येतरेतरयाजका इतरेतराध्यापका मिथो विवहमानाः ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- But Abhiśastas shall live together in dwellings (outside the village); considering this their lawful (mode of life), they shall sacrifice for each other, teach each other, and marry amongst each other.
हरदत्त-टीका
सूत्रम्
अथाऽभिशस्ताः समवसाय चरेयुर्धार्म्यमिति सांशित्येतरेतरयाजका इतरेतराध्यापका मिथो विवाहमानाः ॥८॥
प्रस्तावः
पतितैरकृतप्रायश्चित्तैरुत्पादितानां पुत्राणामपि पातित्यमस्तीति प्रतिपादयितुं पूर्वपक्षमाह —
टिप्पनी
अथशब्दोऽर्थान्तरप्रस्तावं सूचयति । अभिशस्ताः पतिताः । समवसाय चरेयुः । अवसानं गृहम् । समित्येकीभावे । ग्रामाद्बहिरेकस्मिन् प्रदेशे गृहाणि कृत्वा चरेयुः । धार्म्यं धर्म्ये वक्ष्यमाणं वृत्तमिति । सांशित्य संशितां तीक्ष्णां बुद्धिं कृत्वा । निश्चित्येत्यर्थः । इतरेतरं याजयन्तः । इतरेतरमध्यापयन्तः परस्परं विवाहसम्बन्धं च कुर्वन्तश्चरेयुः वर्तेरन्निति ॥८ ॥
09 पुत्रान्सन्निष्पाद्य ब्रूयुर्विप्र व्रजततास्मदेवं ...{Loading}...
पुत्रान्संनिष्पाद्य ब्रूयुर्विप्र व्रजततास्मदेवं ह्यस्मत्स्वार्याः संप्रत्यपत्स्यतेति ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- If they have begot sons, let them. say to them: ‘Go out from amongst us, for thus the Āryas, (throwing the guilt) upon us, will receive you (amongst their number).’ 7
हरदत्त-टीका
सूत्रम्
पुत्रान् सन्निष्पाद्य ब्रूयुर्विप्रजताऽस्मदेवं ह्यस्मत्स्वार्यास्स्म्प्रत्यपत्स्यतेति ॥९॥
टिप्पनी
अथ ते पुत्रान् सन्निष्पाद्य ब्रूयुः हे पुत्राः अस्मत् अस्मत्तः। विप्रव्रजत विविधं प्रकर्षेण च स्नेहमुत्सृज्याऽऽर्यसमीपं गच्छत । एवं ह्यस्मासु अस्मा स्वार्याः शिष्टाः सम्प्रत्यपत्स्यत । 1 ‘आशंसायां भूतवच्चेति’ भविष्यति लुङ् । सकारात्परो यकारोऽपपाठश्छान्दसो वा । सम्प्रतिपत्तिं करिष्यन्ति । आर्याणामप्येतदभिप्रेतं भविष्यति । यस्मादस्माभिरेव पतनीयं कर्माऽनुष्ठितं न भवद्भिः । न च पतितेनोत्पादितस्य पातित्यम्, अन्यत्वात् ॥९॥
10 अथापि न सेन्द्रि ...{Loading}...
अथापि न सेन्द्रि यः पतति १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- For the organs do not become impure together with the man.
हरदत्त-टीका
सूत्रम्
अथाऽपि न सेन्द्रियः पतति ॥ १०॥
प्रस्तावः
एतदेवोपपादयति
टिप्पनी
न हि पतितो भवन् सहेन्द्रियेण पतति, पुरुष एव पतति, नेन्द्रियं शुक्लमिति । अथापिशब्दावपि चेत्यस्याऽर्थे ॥ १० ॥
11 तदेतेन वेदितव्यम् अङ्गहीनो ...{Loading}...
तदेतेन वेदितव्यम् । अङ्गहीनो हि साङ्गं जनयति ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The truth of) that may be learned from this (parallel case); a man deficient in limbs begets a son who possesses the full number of limbs. 8
हरदत्त-टीका
सूत्रम्
तदेतेन वेदितव्यमङ्गहीनो ऽपि साङ्गं जनयति ॥ ११ ॥
प्रस्तावः
कथं न सेन्द्रियः पततीत्याह—
टिप्पनी
तदनन्तरोक्तमर्थरूपमेतेन वक्ष्यमाणेन निदर्शनेन वेदितव्यम् । चक्षुराद्यङ्गहीनोऽपि साङ्गं चक्षुरादिमन्तं जनयति, एवमधिकारविकल: साधिकारं जनयिष्यति । स्त्रिया अपि कारणत्वात् तस्याश्च दोषाभावात् ॥ ११ ॥
12 मिथ्यैतदिति हारीतः ...{Loading}...
मिथ्यैतदिति हारीतः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Hārita declares that this is wrong.
हरदत्त-टीका
सूत्रम्
मिथ्येतदिति हारीतः ॥ १२ ॥
प्रस्तावः
दूषयति—
टिप्पनी
एतदनन्तरोक्तमर्थरूपं मिथ्या न युक्तमिति हारीतो मन्यते ॥ १२॥
13 दधिधानीसधर्मा स्त्री भवति ...{Loading}...
दधिधानीसधर्मा स्त्री भवति १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- A wife is similar to the vessel which contains the curds (for the sacrifice). 9
हरदत्त-टीका
सूत्रम्
दधिधानीसधर्मा स्त्री भवति ॥ १३ ॥
प्रस्तावः
कुत इत्याह—
टिप्पनी
दधि धीयते यस्यां सा दधिधानी स्थाली । तया सधर्मा सदृशी स्त्री भवति ॥
14 यो हि दधिधान्यामप्रयतम् ...{Loading}...
यो हि दधिधान्यामप्रयतं पय आतच्य मन्थति न तेन धर्मकृत्यं क्रियते । एवमशुचि शुक्लं यन्निवर्तते न तेन सह संप्रयोगो विद्यते १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- For if one makes impure milk curdle (by mixing it with whey and water) in a milk-vessel and stirs it, no sacrificial rite can be performed with (the curds produced from) that. Just so no intercourse can be allowed with the impure seed which comes (from an Abhiśasta).
हरदत्त-टीका
सूत्रम्
यो हि दधिधान्यामप्रयत्तं पय आतञ्च्य मन्थति न तेन धर्मकृत्यं क्रियेत एवमशुचि शुक्लं यन्निवर्तते न तेन सह सम्प्रयोगो विद्यते ॥ १४ ॥
प्रस्तावः
ततः किम् ?
टिप्पनी
यो हि पुरुषः दधिधान्यां स्थाल्याम्, अप्रयतं श्वााद्युपहतम् , पय आतञ्च्य तक्राद्यातञ्चनेन संस्कृत्य मन्थति न तेन तदुत्पन्नेन घृतादिना धर्मकृत्यं यागादिकं क्रियते। एवं पतितसम्बन्धेनाऽशुचि शुक्लं स्त्रियां निषितं शोणितेनाकं यन्निवर्तते येन रूपेण निष्पद्यते न तेन सह सम्प्रयोगो विद्यते शिष्टानाम् । अत्र चा’शुचि शुक्ल’मित्येत’दथापि न सेन्द्रिय पतती’त्यस्य दूषणम् । न हि वाचनिकेऽर्थे युक्तय क्रमन्ते । तथा च समानायामप्युत्पत्तौ पुत्र एव पतति न दुहिता । यथाऽऽह वसिष्ठः—
1 ‘पतितोत्पन्नः पतितो भवत्यन्यत्र स्त्रियाः । सा हि परगामिनी तामरिक्थामुपेयात्’ । इति ॥ १४ ॥
15 अभीचारानुव्याहारावशुचिकरावपतनीयौ ...{Loading}...
अभीचारानुव्याहारावशुचिकरावपतनीयौ १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Sorcery and curses (employed against a Brāhmaṇa) cause a man to become impure, but not loss of caste.
16 पतनीयाविति हारीतः ...{Loading}...
पतनीयाविति हारीतः १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Hārita declares that they cause loss of caste.
हरदत्त-टीका
सूत्रम्
पतनीयाविति हारीतः ॥ १६ ॥
टिप्पनी
हारीतस्तु तावपि पतनीयाविति मन्यते ॥ १६ ॥
17 पतनीयवृत्तिस्त्वशुचिकराणान् द्वादश मासान्द्वादशार्धमासान्द्वादश ...{Loading}...
पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान्द्वादशार्धमासान्द्वादश द्वादशाहान्द्वादश सप्ताहान्द्वादश त्र्यहान्द्वादशाहं सप्ताहं त्र्यहमेकाहम् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- But crimes causing impurity must be expiated, (when no particular penance is prescribed,) by performing the penance enjoined for crimes causing loss of caste during twelve months, or twelve half months, or twelve twelve-nights, or twelve se’nnights, or twelve times three days, or twelve days, or seven days, or three days, or one day.
हरदत्त-टीका
सूत्रम्
पतनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान् द्वादशाऽर्धमासान् द्वादश द्वादशाहान् द्वादश सप्ताहान् द्वादश त्र्यहान् द्वादश द्वहान् द्वादशाहं सप्ताहं त्र्यहं द्व्यहमेकाहम् ॥ १७ ॥
टिप्पनी
अशुचिकराणामपि कर्मणां येषामाहत्य प्रायश्चित्तं नोक्तं तेषामपि पतनीयेषु कर्मसु या वृत्तिः प्रायश्चित्तं सैव प्रायश्चित्तिः। कियन्तं कालम् ? द्वादश मासाद्येकाहान्तम् ॥ १७ ॥
18 इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ...{Loading}...
इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Thus acts causing impurity must be expiated according to the manner in which the (sinful) act has been committed (whether intentionally or unintentionally).
हरदत्त-टीका
सूत्रम्
इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ॥ १८ ॥
प्रस्तावः
किमविशेषेण सर्वेष्वेवाऽशुचिकरेष्वयं कालविकल्पः ? नेत्याह—
टिप्पनी
इत्येषोऽशुचिकरनिर्वेषो यथा कर्माभ्यासस्तथा वेदितव्यः । बुद्धिपूर्वे सानुबन्धेऽभ्यासे च भूयांसं कालम्, विपरीते विपर्यय इति ॥१८॥
॥ इत्यापस्तम्बसूत्रवृत्तौ प्रथमप्रश्ने एकोनत्रिंशी कण्डिका ॥ २९ ॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्वलायां प्रथमप्रश्ने दशमः पटलः ॥ १० ॥
इति दशमः पटलः
-
श्रुतिधारी इति क० पु० ↩︎
-
- Haradatta gives, as an example, the case where a warrior saves the property of a traveller from thieves. If the traveller turns out to be a Brāhmaṇa, and the warrior did not know his caste before rescuing his property, his merit will be less than if he had rescued knowingly the property of a Brāhmaṇa.
-
व० ध० ३. १६, १७, ↩︎
-
It is impossible to agree with Haradatta’s explanation of the words to be addressed by Abhiśastas to their children. No Vedic license can excuse the use of the second person plural instead of the third. I propose the following: ‘Go out from among us; for thus (leaving the guilt) to us, you will be received (as) Āryas.’ it is, however, not improbable that our text is disfigured by several very old corruptions, compare Baudhāyana II, 1, 2, 18. ↩︎
-
‘In like manner a man who has lost his rights, (can) beget a son, who possesses the rights (of his caste). For the wife is also a cause (of the birth of the son), and she is guiltless.’–Haradatta. ↩︎
-
The statements now following are those with which Āpastamba agrees. Those contained in Sūtras 8-11 are merely the pūrvapakṣa. ↩︎