२८ अपतनीयानि

विश्वास-प्रस्तुतिः …{Loading}…

यथा कथा च परपरिग्रहम् अभिमन्यते - स्तेनो ह भवतीति कौत्स-हारीतौ, तथा कण्व-पुष्करसादी १

विश्वास-प्रस्तुतिः …{Loading}…

सन्त्य् अपवादाः परिग्रहेष्व् इति वार्ष्यायणिः २

विश्वास-प्रस्तुतिः …{Loading}…

शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ३

विश्वास-प्रस्तुतिः …{Loading}…

अतिव्यपहारो व्यृद्धो भवति ४

विश्वास-प्रस्तुतिः …{Loading}…

सर्वत्रानुमतिपूर्वमिति हारीतः ५

विश्वास-प्रस्तुतिः …{Loading}…

न पतितमाचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् ६

विश्वास-प्रस्तुतिः …{Loading}…

न चास्माद्भोगानुपयुञ्जीत ७

विश्वास-प्रस्तुतिः …{Loading}…

यदृच्छासंनिपात उपसंगृह्य तूष्णीं व्यतिव्रजेत् ८

विश्वास-प्रस्तुतिः …{Loading}…

माता पुत्रत्वस्य भूयांसि कर्माण्यारभते तस्यां शुश्रूषा नित्या पतितायामपि ९

विश्वास-प्रस्तुतिः …{Loading}…

न तु धर्मसंनिपातः स्यात् १०

विश्वास-प्रस्तुतिः …{Loading}…

अधर्माहृतान् भोगान् अनुज्ञाय
न वयं चाधर्मश् चेत्य् अभिव्याहृत्या
ऽधोनाभ्य् उपरिजान्व् आछाद्य
त्रिषवणम् उदकम् उपस्पृशन्न्
अक्षीराक्षारालवणं भुञ्जानो
द्वादश वर्षाणि नागारं प्रविशेत् ११

विश्वास-प्रस्तुतिः …{Loading}…

ततः सिद्धिः १२

विश्वास-प्रस्तुतिः …{Loading}…

अथ संप्रयोगः स्याद् आर्यैः १३

विश्वास-प्रस्तुतिः …{Loading}…

एतद् एवान्येषाम् अपि पतनीयानाम् १४

विश्वास-प्रस्तुतिः …{Loading}…

गुरुतल्पगामी तु सुषिरां सूर्मिं प्रविश्योभयत आदीप्याभिदहेदात्मानम् १५

विश्वास-प्रस्तुतिः …{Loading}…

मिथ्यैतदिति हारीतः १६

विश्वास-प्रस्तुतिः …{Loading}…

यो ह्यात्मानं परं वाभिमन्यते +++(=हन्ति)+++ ऽभिशस्त एव स भवति १७

विश्वास-प्रस्तुतिः …{Loading}…

एतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् । नास्यास्मिंल् लोके प्रत्यापत्तिर्विद्यते । कल्मषं तु निर्हण्यते १८

विश्वास-प्रस्तुतिः …{Loading}…

दारव्यतिक्रमी खराजिनं बहिर्लोम परिधाय दारव्यतिक्रमिणे भिक्षामिति सप्तागाराणि चरेत् । सा वृत्तिः षण्मासान् १९

विश्वास-प्रस्तुतिः …{Loading}…

स्त्रियास्तु भर्तृव्यतिक्रमे कृच्छ्रद्वादशरात्राभ्यासस्तावन्तं कालम् २०

विश्वास-प्रस्तुतिः …{Loading}…

अथ भ्रूणहा श्वाजिनं खराजिनं वा बहिर्लोम परिधाय पुरुषशिरः प्रतीपानार्थमादाय २१


  1. ‘कथा’ इति छान्दसं रूपं कथमित्यर्थः । दृष्टं च “तमब्रुवन् कथा हास्थाः”(तै०सं० २.६.३.) “कथा मा निरभागिति” (तै०सं० ३.१.९) इत्यादौ । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2.  ↩︎ ↩︎ ↩︎
    1. The same rule Manu emphatically ascribes to himself, Manu VIII, 339, But see also VIII, 331.
     ↩︎
  3. म० स्मृ० ८. ३४१. ↩︎ ↩︎ ↩︎

  4. Haradatta remarks, that this Sūtra implicitly forbids to accept the heritage of an outcast. ↩︎

  5. A similar but easier penance is prescribed, Manu XI, 19 4. ↩︎

  6. ‘(This penance, which had been prescribed above, I, 9, 25, 1), is enjoined (once more), in order to show that it is not optional (as might be expected according to Sūtra 14).’–Haradatta. ↩︎

  7. षण्मासादूर्ध्वं शुद्धः, इति. ग. पु. ‘सा वृत्ति’रित्यादि पृथक्सूत्रं च ॥ ↩︎