01 धेन्वनडुहोश्चाकारणात् ...{Loading}...
धेन्वनडुहोश्चाकारणात् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The same penance must be performed), if a milch-cow or a full-grown ox (has been slain), without a reason. 1
हरदत्त-टीका
सूत्रम्
धेन्वनडुहोश्चाऽकारणात् ॥१॥
टिप्पनी
धेनुः पयस्विनी गौः । अनड्वान् अनोवहनयोग्यो बलीवर्दः । तयोः कारणमन्तरेण हिंसायां शूद्रवत्प्रायश्चित्तं कर्तव्यम् । कारणं कोपो मांसेच्छा वा । ताभ्यां विना, अबुद्धिपूर्वमित्यर्थः । बुद्धिपुर्वं तु2 ‘गाश्च वैश्यव’दित्यादि स्मृत्यन्तरे द्रष्टव्यम् ॥ १ ॥
02 धुर्यवाहप्रवृत्तौ चेतरेषाम् प्राणिनाम् ...{Loading}...
धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- And for other animals (which have no bones), if an ox-load of them has been killed. 3
हरदत्त-टीका
सूत्रम्
धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् ॥ २॥
टिप्पनी
धुरं वहतीति धुर्यो बलीवर्दः । तेन वोढुं शक्त्या धुर्यवाहाः। तावत्सु हिंसायाः प्रवृत्तौ सत्याम् । इतरेषां प्राणिनां केवलं प्राणा एव येषां नाऽस्थीनि तेषां हिंसायां शूद्रवत्प्रायश्चित्तमिति। अत्र गौतमः4 अस्थन्वतां सहस्रं हत्वा अनस्थिमतामनुडुद्भारे चेति ॥ २॥
03 अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनम् ...{Loading}...
अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनं ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who abuses a person who (on account of his venerability) ought not to be abused, or speaks an untruth (regarding any small matter) must abstain for three days from milk, pungent condiments, and salt. 5
हरदत्त-टीका
सूत्रम्
अनाक्रोश्यमाक्रुश्याऽनृतं वोक्त्वा त्रिरात्रमक्षीराक्षारलवणभोजनम् ॥ ३ ॥
टिप्पनी
येन यो न कथञ्चनाऽऽक्रोशमर्हति स पित्राचार्यादिरनाक्रोश्यः । तमाक्रुश्य अनृतं वोक्त्वा पातकोपातकवर्जं, त्रिरात्रं क्षीरादि भोजने वर्जयेत् । क्षीरग्रहणेन तद्विकाराणां दध्यादीनामपि6 ग्रहणमित्याहुः ॥३॥
04 शूद्रस्य सप्तरात्रमभोजनम् ...{Loading}...
शूद्रस्य सप्तरात्रमभोजनम् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- (If the same sins have been committed) by a Śūdra, he must fast for seven days.
हरदत्त-टीका
सूत्रम्
शुद्रस्य सप्तरात्रमभोजनम् ॥ ४ ॥
टिप्पनी
शुद्रस्त्वनन्तरोक्तविषये सप्तरात्रमुपवसेत् ॥ ४॥
05 स्त्रीणाञ् चैवम् ...{Loading}...
स्त्रीणां चैवम् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And the same (penances must also be performed) by women, (but not those which follow). 7
हरदत्त-टीका
सूत्रम्
स्त्रीणां चैवम् ॥५॥
टिप्पनी
‘क्षत्रियं हत्वे’(२४. १.)त्यादिषु अन्नवचनान्तेषु निमित्तेषु यानि प्रायश्चित्तान्युक्तानि तानि स्त्रीणामप्येवमेव कर्तव्यानि । एतत् ‘चत्वारो वर्णा’ इति जात्याभिधानादेव2 प्राप्तं सन्नियमार्थमुच्यते—अत ऊर्ध्वं पुरुषस्यैव न स्त्रीणामिति । अपर आह— जात्याभिधानादेव सिद्धे अतिदेशार्थं वचनम् । अतिदेशेषु चाऽर्धं प्राप्यते इति स्मार्तो न्यायः । तेन स्त्रीणामर्धप्राप्त्यर्थं वचनमिति । तथा च भार्गवः —
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥’ इति ॥५॥
06 येष्वाभिशस्त्यन् तेषामेकाङ्गञ् छित्त्वाप्राणहिंसायाम् ...{Loading}...
येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाप्राणहिंसायाम् +++(ततः शूद्रहप्रायश्चित्तम्)+++ ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who cuts off a limb of a person for whose murder he would become an Abhiśasta (must perform the penance prescribed for killing a Śūdra), if the life (of the person injured) has not been endangered.
हरदत्त-टीका
सूत्रम्
येष्वाभिशस्त्यं तेषामेकाङ्गं छित्वाऽप्राणिहिंसायाम् ॥६॥
टिप्पनी
येषु हतेषु ‘सवनगतं वाऽभिशस्त, (२४.९) इत्यादिना अभिशस्तत्वमुक्तं तेषामेकाङ्गं छित्वा शूद्रवत्प्रायश्चित्तं कुर्यात् । अप्राणिहिंसायां यदि छेदनेन तस्याङ्गस्य शक्ति4र्न हन्यते ॥६॥
07 अनार्यवपैशुनप्रतिषिद्धाऽचारेष्वभक्ष्याभोज्यापेयप्राशने शूद्रायाञ् च ...{Loading}...
अनार्यव-पैशुन-प्रतिषिद्धाऽचारेष्व्
अभक्ष्याऽभोज्याऽपेय-प्राशने
शूद्रायां च रेतः सिक्त्वा ऽयोनौ च
दोषवच् च कर्माभिसंधिपूर्वं कृत्वा ऽनभिसंधिपूर्वं वा
ऽब्लिङ्गाभिर् अप उपस्पृशेद्
वारुणीभिर् वान्यैर् वा पवित्रैर् यथा कर्माभ्यासः ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who has been guilty of conduct unworthy of an Aryan, of calumniating others, of actions contrary to the rule of conduct, of eating or drinking things forbidden, of connection with a woman of the Śūdra caste, of an unnatural crime, of performing; magic rites with intent (to harm his enemies) or (of hurting others) unintentionally, shall bathe and sprinkle himself with water, reciting the (seven) verses addressed to the Waters, or the verses addressed to Varuṇa, or (other verses chosen from the Anuvāka, called) Pavitra, in proportion to the frequency with which the crime has been committed. 8
हरदत्त-टीका
सूत्रम्
6अनार्यवपैशुनप्रतिषिद्धाचारेश्वभक्ष्या भोज्यापेयप्राशने शूद्रायां च रेतस्सिक्वाऽयोनौ च दोषवच्च कर्माभिसन्धिपूर्वं कृत्वाऽनभिसन्धिपूर्वं वाऽब्लिङ्गाभिरप उपस्पृशेद्वारुणीभिर्वाऽन्यैर्वा पवित्रमन्त्रैर्यथा कर्माभ्यासः ॥७॥
टिप्पनी
आर्याणां भाव आर्यम् । तद्यस्मिन्नाचारेऽस्ति तदार्यवम् । मत्वर्थीयो वप्रत्ययः। ततोऽन्यदनार्यवम् । असत्यभाषणादि । पैशुनं परदोषकथनं राजगामि प्रतिषिद्धाचारः ‘ष्ठीवनमैथुनयोः कर्माऽसुवर्जये(३०.१९)दित्यादेरनुष्ठानम् । अभक्ष्यं वृथाकृसरादि । अभोज्यं केशकीटद्युपहतम् । अपेयम् अनिर्दशायाः गोः क्षीरादि । एतेषां प्राशने । शूद्रायां च वेश्याप्रभृतौ रेतः सिक्त्वा । अयोनी च जलादौ रेतः सिक्वा । दोषवच्च कर्म श्रौतमाभिचारिकम् । अभिसन्धिपूर्वं बुद्धिपूर्वं कृत्वा। अनभिसन्धिपूर्वं वा परपीडादिकरं कर्म कृत्वा । अब्लिङ्गाभिः9 “आपो हि ष्ठा मयोभुव’ इति तिसृभि10 हिरण्यवर्णाश्शुचयः पावका’ इति चतसृभिरप उपस्पृशेत् ।
तूष्णीं प्रथमं स्नात्वा पश्चादेतैर्मन्त्रैर्मार्जनं कुर्यात् । वारुणीभिर्वा 11 इमं मे वरुण, ‘तत्त्वा यामि, ‘त्वन्नो अग्ने’ इत्येताभिरन्यैर्वा पवित्रैः 12पवमानस्सुवर्जन’ इत्यतेनानुवाकेन 13 शुद्धवतीभिः 14 तरत्समन्दीयेन च । यथा कर्माभ्यासः कृतः 15 तावत्कृत्वोऽप उपस्पृशेत् । रहस्यप्रायश्चित्तमेतदित्याहुः ॥७॥
08 गर्दभेनावकीर्णी निरृतिम् पाकयज्ञेन ...{Loading}...
गर्दभेनावकीर्णी निरृतिं पाकयज्ञेन यजेत ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- A (student) who has broken the vow of chastity, shall offer to Nirṛti an ass, according to the manner of the Pākayajña-rites. 16
हरदत्त-टीका
सूत्रम्
गर्दभेनाऽवकीर्णी निर्ऋतिं पाकयज्ञेन यजेत ॥ ८ ॥
टिप्पनी
यो ब्रह्मचारी स्त्रियमुपेयात् सोऽवकीर्णी गर्दभेन निर्ऋतिं यजेत पाकयज्ञेन स्थालीपाकविधानेन । अत्र मनुः—
17 ‘अविकीर्णा तु काणेन गर्दभेन चतुष्पथे।
पाकयज्ञविधानेन, यजेत निर्ऋतिं निशि ॥’ इति ।
हारीतस्तु—
“स्त्रीष्ववकीर्णी निर्ऋत्यै चतुष्पथे गर्दभं पशुमालभेत पाकयज्ञधर्मेण। भूमौ पशुपुरोडाशश्रपणमप्स्ववदानैः प्रचार्याऽऽज्यं जुहोति ‘कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्रुग्धोस्म्यभिद्रुग्धोऽस्मि कामकामाय स्वाहा’ इति ॥ ८॥
09 तस्य शूद्रः प्राश्नीयात् ...{Loading}...
तस्य शूद्रः प्राश्नीयात् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Śūdra shall eat (the remainder) of that (offering).
हरदत्त-टीका
सूत्रम्
तस्य शुद्रः प्राश्नीयात् ॥ ९ ॥
टिप्पनी
तस्य गर्दभस्य सर्पिष्मद्धविरुच्छिष्टं शुद्रः प्राश्नीयात् 18 तेन सर्पिष्मता ब्राह्मण’मित्यस्याऽपवादः ॥९॥
10 मिथ्याअधीतप्रायश्चित्तम् ...{Loading}...
मिथ्याऽधीत-प्रायश्चित्तम् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Now follows) the penance for him who transgresses the rules of studentship.
हरदत्त-टीका
सूत्रम्
मिथ्याधीतप्रायश्चित्तम् ॥ १० ॥
टिप्पनी
नियमातिक्रमेणाऽधीतं मिथ्याधीतम् । तद्दोषनिर्हरणाय प्रायश्चित्तं वक्ष्यते ॥१०॥
11 संवत्सरमाचार्यहिते वर्तमानो वाचं ...{Loading}...
संवत्सरम् आचार्य-हिते वर्तमानो
वाचं यच्छेत्
स्वाध्याय एवोत्सृजमानो वाचम्
आचार्य आचार्य-दारे भिक्षाचर्ये च ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall for a year serve his teacher silently, emitting speech only during the daily study (of the Veda, in announcing necessary business to) his teacher or his teacher’s wife, and whilst collecting alms.
हरदत्त-टीका
सूत्रम्
सम्वत्सरमाचार्यहिते वर्तमानो वाचं यच्छेत्स्वाध्याय एवोत्सृजमानो वाचमाचार्य आचार्यदारे वा भिक्षाचर्ये च ॥११॥
टिप्पनी
आचार्यहिते वर्तमानो वाचंयमः स्यात् । 19स्वाध्यायादिष्वेषु वाचमुत्सृजमानः । आचार्ये तं प्रति कार्यनिवेदने । एवमाचार्यदारे । भिक्षाचर्यं भिक्षाचरणम्। तत्र च ‘भवति भिक्षां देही’ति । अस्मादेव ज्ञायते-असमावृत्तविषयमेतदिति ॥ ११ ॥
12 एवमन्येष्वपि दोषवत्स्वपतनीयेषूत्तराणि यानि ...{Loading}...
एवमन्येष्व् अपि दोषवत्स्व् अपतनीयेषूत्तराणि यानि वक्ष्यामः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- The following penances) which we are going to proclaim, may be performed for the same sin, and 20 also for other sinful acts, which do not cause loss of caste.
हरदत्त-टीका
सूत्रम्
एवमन्येष्वपि दोषवत्स्वपतनीयेषूत्तराणि यानि वक्ष्यामः ॥ १२ ॥
टिप्पनी
यथा मिथ्याधीतस्येदं प्रायश्चित्तमेवमुत्तराणि यानि प्रायश्चित्तानि वक्ष्यामः तान्यन्येष्वपि । अपिशब्दान्मिथ्याधीतेऽपि । दोषवत्स्वपतनीयेषु पतनीयव्यतिरिक्तेषु कर्मसु येष्वाहत्य प्रायश्चित्तं नोक्तं तद्विषयाणि द्रष्टव्यानि ॥ १२॥
13 काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति ...{Loading}...
काम-मन्युभ्यां वा जुहुयात् -
कामोऽकार्षीन् मन्युर् अकार्षीद् इति जपेद् वा १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He may either offer oblations to Kāma and Manyu (with the following two Mantras), ‘Kāma (passion) has done it; Manyu (anger) has done it.’ Or he may mutter (these Mantras). 21
हरदत्त-टीका
सूत्रम्
काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति ॥१३ ॥
टिप्पनी
स्वाहाकारान्ताभ्यां होमः । आज्यं द्रव्यम् ॥ १३ ॥
14 पर्वणि वा तिलभक्ष ...{Loading}...
पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकम् उपस्पृश्य सावित्रीं प्राणायामशः सहस्र-कृत्व आवर्तयेद् अप्राणायामशो वा १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or, after having eaten sesamum or fasted on the days of the full and new moon he may, on the following day bathe, and stopping his breath, repeat the Gāyatrī one thousand times, or he may do so without stopping his breath.
हरदत्त-टीका
सूत्रम्
जपेद्वा ॥ १४ ॥
टिप्पनी
अस्मिन् पक्षे न स्वाहाकारः। केचित्तु ‘कामाय स्वाहा’ ‘मन्यवे स्वाहे’ति होममिच्छन्ति । जपपक्षे तु सूत्रोपदिष्टौ मन्त्राविति । दोषाभ्यासानुरूपं जपहोमयोरावृत्तिः ॥१४॥
सूत्रम्
पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशस्सहस्रकृत्व आवर्तयेदप्राणायामशो वा ॥१५॥
टिप्पनी
पर्वणि पौर्णमास्याममावास्यायां वा । तिलानेव भक्षयति नान्यदोदनादिकमिति तिलभक्षः । श्वोभूते उदकमुपस्पृश्य स्नात्वा सावित्रीं प्राणायामशः प्राणायामेन एकस्मिन्प्राणायामे यावत्कृत्व आवर्तयितुं शक्यं तावत्कृत्व आवर्तयेत् । एवमा सहस्रपूर्तेः प्राणायामावृत्तिः । अप्राणायामशो वा 2जपकाले प्राणानायच्छेत् , तुष्णीं जपेद्वेति ॥ १५ ॥
॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने षड्विंशी कण्डिका ॥२६॥
-
- ‘A reason’ for hurting a cow is, according to Haradatta, anger, or the desire to obtain meat.
-
Manu XI, 141; Yājñ. III, 269. That ‘animals without bones,’ i.e. insects or mollusks, are intended in the Sūtra is an inference, drawn by Haradatta from the parallel passages of Gautama, Manu, and Yājñavalkya. ↩︎
-
‘A person who ought not to be abused, i. e. a father, a teacher, and the like.’–Haradatta. ↩︎
-
The same penances, i. e. those prescribed I, 9, 24-I, 9, 26, 4. According to Haradatta this Sūtra is intended to teach that women shall not perform the penances which follow. Others, however, are of opinion that it is given in order to indicate that the preceding Sūtras apply to women by an atideśa, and that, according to a Smārta principle, applicable to such cases, it may be inferred, that women are to perform one-half only of the penances prescribed for men. ↩︎
-
The Anuvāka intended is Taitt. Saṃh. II, 5, 12. ↩︎
-
तै० ५. ६. १०. यो वश्शिवतमो रसः, तस्मा अरं गमाम वः, इत्यग्रिमे ऋचौ । ↩︎
-
तै० सं० ६. ६. १. यासां राजा वरुणः, यासां देवा दिवि, शिवेन मा चक्षुषा, इत्यग्रिमं ऋक्त्रयम् । ↩︎
-
तै० सं० ४. २. ११. ↩︎
-
तै० ब्रा० १.४.४ ↩︎
-
ऋ० सं० ८. ९५. ६. ↩︎
-
ऋ० सं० ८.९५,७ ↩︎
-
कृतः तथोपस्पृशेत्० इति. क. पु. ↩︎
-
Taitt. Ār. II, 18, and Weber, Ind. Stud. X, 102; Manu XI, 199 seq.; and Yājñ. III, 280. Regarding the Pākayajña-rites, see Āśv. Gṛ. Sū. I, 1, 2, and Max Müller’s History of Ancient Sanskrit Literature, p. 203. ↩︎
-
म० स्मृ० ११. ११८. ↩︎
-
आप० गृ० ७. १५. ↩︎
-
वागुत्सर्गस्स्वाध्याय एव इति. ख. पु. ↩︎
-
Regarding the Patanīya-crimes which cause loss of caste, see above, I, 7, 21, 7 seq. ↩︎
-
Weber, Ind. Stud. X, 102. According to the greatness of the crime the number of the burnt-oblations must be increased and the prayers be repeated. ↩︎