01 क्षत्रियं हत्वा गवां ...{Loading}...
क्षत्रियं हत्वा गवां सहस्रं वैरयातनार्थं दद्यात् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who has killed a Kṣatriya shall give a thousand cows (to Brāhmaṇas) for the expiation of his sin. 1
हरदत्त-टीका
सूत्रम्
क्षत्रियं हत्वा गवां सहस्रं वैरयातनार्थं दद्यात् ॥ १ ॥
टिप्पनी
क्षत्रियं हत्वा गवां सहस्रं ब्राह्मणेभ्यो दद्यात्। किमर्थम् ? वैरयातनार्थं वैरं पापं तस्य यातनं निहरणं तदर्थम् “ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थ”(२४.४)इति वक्ष्यति । तेन प्रायश्चित्तरूपमिदं दानम्। प्रायश्चित्तं च पापक्षयार्थम् । तत्किमर्थं वैरयातनार्थमित्युच्यते ? केचिन्मन्यन्ते नाऽभुक्तं क्षीयते कर्म पुण्यमपुण्यं च । प्रायश्चित्तं तु नैमित्तिकं कर्मान्तरं 2यथा गृहदाहादौ क्षामवत्यादय इति । तान्निराकर्तुमिदमुक्तम् । श्रौतेऽप्युक्तं-3दोषनिघातार्थानि भवन्ती’ति । अपर आह-यो येन हन्यते स हतो म्रियमाणस्तस्मिन्वैरं करोति-अपि नामाऽहमेनं जन्मान्तरेऽपि वध्यासमिति । तस्य वैरस्य यातनार्थमिदमिति प्रायश्चित्तार्थत्वमपि वक्ष्यमाणेन सिद्धमिति ॥ १॥
02 शतं वैश्ये ...{Loading}...
शतं वैश्ये २
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall give) a hundred cows for a Vaiśya, 4
हरदत्त-टीका
सूत्रम्
शतं वैश्ये ॥२॥
टिप्पनी
वैश्ये हते गवां शतं दद्यात् ॥ २॥
03 दश शूद्रे ...{Loading}...
दश शूद्रे ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Ten for a Śūdra, 5
हरदत्त-टीका
सूत्रम्
दश शूद्रे ॥३॥
टिप्पनी
शूद्रे हते दश दद्यात् । गा इति प्रकरणागम्यते ॥३॥
04 ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः ...{Loading}...
ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- And in every one (of these cases) one bull (must be given) in excess (of the number of cows) for the sake of expiation.
हरदत्त-टीका
सूत्रम्
ऋषभश्चाऽत्राधिकः सर्वत्र प्रायश्चित्तार्थः॥ ४॥
टिप्पनी
सर्वेष्वेतेषु निमित्तेषु ऋषभोऽप्यधिको देयः। न केवलं गा एव । इदं प्रायश्चित्तत्रयं मानवेन समानविषयम् । यथाऽऽह—
6अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।
ऋषभैकसहस्रा गा दद्याच्छुद्ध्यर्थमात्मनः ॥
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ।
वलन् दूरतरे ग्रामाद्वृक्षमूलनिकेतनः ॥
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः।
प्रमाप्य वैश्यं वृत्तस्थ दद्याद्वैकशतं गवाम् ॥
एतदेव व्रतं कृत्स्नं षण्मासान्श्छूद्रहा चरेत् ।
ऋषभैकादशा वाऽपि दयाद्विप्राय गास्सिताः ॥ इति ॥४॥
05 स्त्रीषु चैतेषामेवम् ...{Loading}...
स्त्रीषु चैतेषामेवम् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And if women of the (three castes mentioned have been slain) the same (composition must be paid).
हरदत्त-टीका
सूत्रम्
स्त्रीषु चैतेषामेवम् ॥ ५॥
टिप्पनी
एतेषां क्षत्रियादीनां स्त्रीषु च हतासु एवमेव प्रायश्चित्तं यथा पुरुषेषु॥५॥
06 पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं ...{Loading}...
पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं वाभिशस्तः ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who has slain a man belonging to the two (first-mentioned castes) who has studied the Veda, or had been initiated for the performance of a Soma-sacrifice, becomes an Abhiśasta. 7
हरदत्त-टीका
सूत्रम्
पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं वाऽभिशस्तः ॥६॥
टिप्पनी
उक्तेषु यौ पूर्वौ वर्णौ क्षत्रियवैश्यौ तयोर्यो वेदाध्यायः अधीतवेदः तं हत्वा अभिशस्तो भवति । अभिशस्त इति ब्रह्मघ्नोऽभिधानम् । सवनगतं वा, तयोरेव वर्णयोः यः सवनगतः सवनशब्देन न प्रातस्सवनादीन्युच्यन्ते, नापि यागमात्रम् । किं तर्हि ? सोमयागः। तत्र यो दीक्षितः सवनगतः ‘ब्राह्मणो वा एष जायते यो दीक्षित’ इति दर्शनात्। तं च हत्वाऽभिशस्तो भवति । पूर्वयोर्वर्णयोरिति किम् ? ब्राह्मणे मा भूत् । इष्यते ब्राह्मणे। वक्ष्यति च ‘ब्राह्मणमात्रं ‘चे’(२४.७.)ति। एवं तर्हि शूद्रे मा भूत् । न शुद्रो वेदाध्यायः सवनगतो वा भवति । इदं तर्हि प्रयोजनं पूर्वयोर्वर्णयोरेव यथा स्यात्तयोरेव यावनुलोमी2 करणाम्बष्ठौ तयोर्मा भूदिति । तेनान्ये वर्णधर्मा अनुलोमानामपि भवन्ति ॥ ६ ॥
07 ब्राह्मणमात्रञ् च ...{Loading}...
ब्राह्मणमात्रं च ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (he is called an Abhiśasta) who has slain a man belonging merely to the Brāhmaṇa caste (though he has not studied the Veda or been initiated for a Soma-sacrifice),
हरदत्त-टीका
सूत्रम्
ब्राह्मणमात्रं च ॥ ७ ॥
टिप्पनी
हत्वाऽभिशस्तो भवति । मात्रग्रहणान्नाऽभिजनविद्यासंस्काराद्यपेक्षा ॥
08 गर्भञ् च तस्याविज्ञातम् ...{Loading}...
गर्भं च तस्याविज्ञातम् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Likewise he who has destroyed an embryo of a (Brāhmaṇa, even though its sex be) undistinguishable,
हरदत्त-टीका
सूत्रम्
गर्भ च तस्याऽविज्ञातम् ॥ ८॥
टिप्पनी
तस्य ब्राह्मणमात्रस्य । गर्भं च स्त्रीपुन्नपुंसकभेदेनाऽविज्ञातम् । हत्वाभिशस्तो भवति ॥८॥
09 आत्रेयीञ् च स्त्रियम् ...{Loading}...
आत्रेयीं +++(=ऋतुस्नाताम्)+++ च स्त्रियम् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or a woman (of the Brāhmaṇa caste) during her courses. 8
हरदत्त-टीका
सूत्रम्
आत्रेयीं च स्त्रियम् ॥९॥
टिप्पनी
3 ‘ऋतुस्नातामात्रेयीमाहु’रिति वसिष्ठः । तस्येति वर्तते । आत्रेयीं च ब्राह्मणनस्त्रियं हत्वाऽभिशस्तो भवति । ब्रह्महा भवति । सम्भवत्यस्यां ब्राह्मणगर्भ इति । अत्रिगोत्रजा आत्रेयीत्यन्ये ॥ ९॥
10 तस्य निर्वेषः ...{Loading}...
तस्य निर्वेषः +++(=प्रायश्चित्तम्)+++ १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Now follows) the penance for him (who is an Abhiśasta).
हरदत्त-टीका
सूत्रम्
तस्य निर्वेषः ॥ १० ॥
टिप्पनी
तस्य सर्वप्रकाराभिशस्तस्य निर्वेषः प्रायश्चित्तं वक्ष्यते ॥१०॥
11 अरण्ये कुटिङ् कृत्वा ...{Loading}...
अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽर्धशाणीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- He (himself) shall erect a hut in the forest, restrain his speech, carry (on his stick) the skull (of the person slain) like a flag, and cover the space from his navel to his knees with a quarter of a piece of hempen cloth. 9
हरदत्त-टीका
सूत्रम्
अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽधशाणोपक्षमधोनाभ्युपरिजान्वाच्छाद्य ॥ १ ॥
टिप्पनी
कृत्वेति वचनान्न परकृता कुटी ग्राह्या । वाक् यता नियता येन स वाग्यतः वाचयमः। आहिताग्न्यादिषु दर्शनात् निष्ठान्तस्य परनिपातः। शवशिरः ध्वजो यस्य स शवशिरोध्वजः । सकारलोपश्छान्दसः। स्वव्यापादितस्य शिरो ध्वजदण्डस्याग्रे प्रोतं कृत्वेत्यर्थः यस्य कस्यचिच्छवस्येत्यन्ये । शणस्य विकारःशाणी पटी तस्या अर्धमर्धशाणी तस्याः पक्षमर्धशाणीपक्ष आयामविस्तारयोरुभयोरप्यर्धम् । अधो नाभि उपरिजानु च यथा भवति तथा तावन्तं प्रदेशमाच्छाद्य । सापेक्षत्वात् ‘ग्रामे प्रतिष्ठेते’(२४.१४.)ति वक्ष्यमाणेन सम्बन्धः । मध्ये क्रियान्तरविधिः ॥११॥
12 तस्य पन्था अन्तरा ...{Loading}...
तस्य पन्था अन्तरा वर्त्मनी १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- The path for him when he goes to a village, is the space between the tracks (of the wheels).
हरदत्त-टीका
सूत्रम्
तस्य पन्था अन्तरा वर्मनी ॥ १२॥
टिप्पनी
तस्य ग्रामं प्रविशतः वर्त्मनी अन्तरा शकटादेर्वत्मनोर्मध्ये पन्था वेदितव्यः । अपर आह- यत्र रथ्यादावुभयोः पार्श्वयोर्वर्त्मनी भवतः तत्र तयोर्मध्येन सूकरादिपथेन सञ्चरेदिति ॥ १२ ॥
13 दृष्ट्वा चान्यमुत्क्रामेत् ...{Loading}...
दृष्ट्वा चान्यमुत्क्रामेत् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And if he sees another (Ārya), he shall step out of the road (to the distance of two yards).
हरदत्त-टीका
सूत्रम्
दृष्ट्रा चाऽन्यमुत्क्रामेत् ॥ १३ ॥
टिप्पनी
अन्यमार्यं दृष्ट्वा पथ उत्क्रामेत् । तत्र कौटिल्यः2 ‘पञ्चारत्नयो रथपथश्चत्वारो हस्तिपथः द्वौ क्षुद्रपशुमनुष्याणा’मिति । तेन मनुष्येषु द्वौ हस्तावुत्क्रामेदिति ॥ १३॥
14 खण्डेन लोहितकेन शरावेण ...{Loading}...
खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall go to the village, carrying a broken tray of metal of an inferior quality.
हरदत्त-टीका
सूत्रम्
खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत ॥१४॥
टिप्पनी
खर्परमात्रं खण्डम् । 3लोहितकमनाप्रीतम् । एवम्भूतं शरावं भिक्षा पात्रं गृहीत्वा ग्रामे प्रतिष्ठेत । ग्रामं गच्छेत् ॥ १४ ॥
15 कोऽभिशस्ताय भिक्षामिति सप्तागाराणि ...{Loading}...
कोऽभिशस्ताय भिक्षामिति सप्तागाराणि चरेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He may go to seven houses only, (crying,) ‘Who will give alms to an Abhiśasta?’
16 सा वृत्तिः ...{Loading}...
सा वृत्तिः १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- That is (the way in which he must gain) his livelihood.
हरदत्त-टीका
सूत्रम्
सा वृत्तिः॥ १६॥
टिप्पनी
सप्तस्वगारेषु या च यावती लभ्यते सैव वृत्तिः अपर्याप्ताऽपि ॥१६॥
17 अलब्धोपवासः ...{Loading}...
अलब्धोपवासः १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he does not obtain anything (at the seven houses), he must fast.
हरदत्त-टीका
सूत्रम्
अलब्ध्वोपवासः ॥ १७ ॥
टिप्पनी
यदि सप्तागारेषु न किञ्चिल्लभ्यते तदोपवास एव तस्मिन्नहनि ॥
18 गाश्च रक्षेत् ...{Loading}...
गाश्च रक्षेत् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (whilst performing this penance) he must tend cows.
हरदत्त-टीका
सूत्रम्
गाश्च रक्षेत् ॥१८॥
टिप्पनी
एवं प्रायश्चित्तं कुर्वन्नहरहर्गाश्च रक्षेत् ॥ १८॥
19 तासान् निष्क्रमणप्रवेशने द्वितीयो ...{Loading}...
तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- When they leave and enter the village, that is the second occasion (on which he may enter) the village.
हरदत्त-टीका
सूत्रम्
तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः ॥ १९ ॥
टिप्पनी
तासां गवां निष्क्रमणसमये प्रवेशनसमये च द्वितीयो ग्रामेऽर्थः प्रयोजनम् । भिक्षार्थ प्रथममुक्तम् । नाऽन्यथा ग्रामं प्रविशेदित्युक्तं भवति ॥
20 द्वादश वर्षाणि चरित्वा ...{Loading}...
द्वादश वर्षाणि चरित्वा सिद्धः सद्भिः संप्रयोगः २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- After having performed (this penance) for twelve years, he must perform) the ceremony known (by custom), through which he is re-admitted into the society of the good. 11
हरदत्त-टीका
सूत्रम्
द्वादश वर्षाणि2 चरित्वा सिद्धः सद्भिस्सम्प्रयोगः ॥२०॥
टिप्पनी
एवं द्वादश वर्षाणि व्रतमेतच्चरित्वा सद्भिः सम्प्रयोगः कर्तव्यः । सद्भिः सह सम्प्रयुज्यते येन विधिना स कर्तव्यः। स शिष्टाचारे शास्त्रान्तरे च सिद्धः स उच्यते-कृतप्रायश्चित्तः स्वहस्ते यवसं गृहीत्वा गामाह्वयेत् । सा यद्यागत्य श्रद्दधाना भक्षयति तदा सम्यगनेन व्रतं चरितमिति जानीयात् , अन्यथा नेति ॥ २० ॥
21 आजिपथे वा कुटिम्कृत्वा ...{Loading}...
आजिपथे वा कुटिङ्कृत्वा ब्राह्मणगव्योपजिगीषंआणो वसेत्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or (after having performed the twelve years’ penance), he may build a hut on the path of robbers, and live there, trying to take from them the cows of Brāhmaṇas. He is free (from his sin), when thrice he has been defeated by them, or when he has vanquished them. 12
हरदत्त-टीका
सूत्रम्
आजिपथे वा कुटिं कृत्वा ब्राह्मणगव्योऽपजिगीषमाणो वसेस्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः ॥ २१ ॥
टिप्पनी
सङ्ग्रामेण जेतव्या दस्यवो येन पथा प्रामं प्रविश्य गवादिकमपहृत्याऽपसरन्ति स आजिपथः । तस्मिन्वा कुटिं कृत्वा वसेत् । किं चिकीर्षन् ? ब्राह्मणगव्यः 3 ‘वा छन्दसी’ति पूर्वसवर्णाभावे यणादेशः। ब्राह्मणगवीरपजिगीषमाणः दस्यूनपजित्य प्रत्याहर्तुमिच्छन् । एष वसन् दस्युभिर्ह्रियमाणं गवादिकमुद्दिश्य तैर्युद्धं कुर्वन् त्रिः प्रतिराद्धः तैरपजितः अपजित्य वा तान् गवादिकं प्रत्याहृत्य ब्राह्मणेभ्यो दत्वा मुक्तो भवति तस्मादेनसः । द्वादशवार्षिके प्रवृत्तस्येदम् । एवमुत्तरमपि ॥ २१ ॥
22 आश्वमेधिकं वावभृथमवेत्य मुच्यते ...{Loading}...
आश्वमेधिकं वावभृथमवेत्य मुच्यते २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he is freed (from his sin), if (after the twelve years’ penance) he bathes (with the priests) at the end of a horse-sacrifice. 13
हरदत्त-टीका
सूत्रम्
आश्वमेधिकं वाऽवभृथमवेत्य मुच्यते ॥ २२ ॥
टिप्पनी
अथ वाऽश्वमेधावभृथे स्नात्वा मुच्यते ॥ २२ ॥
23 धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ...{Loading}...
धर्मार्थसंनिपातेऽर्थग्राहिण एतदेव २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- This very same (penance is ordained) for him who, when his duty and love of gain come into conflict, chooses the gain. 14
हरदत्त-टीका
सूत्रम्
धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ॥ २३ ॥
टिप्पनी
धर्मस्याऽग्निहोत्रादेः, अर्थस्य च कुड्यकरणादेः 2 युगपद्यत्र सन्निपातः तोभयानुग्रहासम्भवे धर्मलोपेन योऽर्थं गृह्णाति तस्याऽप्येतदेव प्रायश्चित्तम् । अथवा धर्मं हित्वाऽर्थहेतोः कौटसाक्ष्यादि करोति तद्विषयमेतत् । अत्र गौतमः—
3 ‘कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातकसमानी’ति । मनुरपि—
6 अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥
गुरोश्चाऽलीकनिर्बन्धः समानि ब्रह्महत्यया’ ॥ इति ॥ २३ ॥
24 गुरुं हत्वा श्रोत्रियं ...{Loading}...
गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he has slain a Guru or a Brāhmaṇa, who has studied the Veda and finished the ceremonies of a Soma-sacrifice, he shall live according to this very same rule until his last breath. 15
हरदत्त-टीका
सूत्रम्
गुरुं हत्वा श्रोत्रियं वा कर्मसमासमेतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् ॥ २४ ॥
टिप्पनी
गुरुः पित्राचार्यादिः । श्रोत्रियोऽधीतवेदः । स यदि कर्मसमाप्तो भवति सोमान्तानि कर्माणि समाप्तानि यस्य स कर्मसमाप्तः । तो हत्वा एतेनैवाऽनन्तरोक्तेन विधिना ओत्तमादुच्छ्वासात् । उत्तम उच्छ्वासःप्राणविनियोगः । आ तस्माच्चरेत् ॥ २४॥
25 नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषन् ...{Loading}...
नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He cannot be purified in this life. But his sin is removed (after death). 16
हरदत्त-टीका
सूत्रम्
नास्याऽस्मिंल्लोके प्रत्यापत्तिर्विद्यते ॥ २५ ॥
टिप्पनी
अश्वमेधावभृथादिषु सम्भवत्स्वपि अस्याऽस्मिंल्लोके अस्मिन् जीविते प्रत्यापत्तिः शुद्धिर्नास्तीत्यर्थः ॥ २५ ॥
सूत्रम्
कल्मषं तु निर्हण्यते ॥ २६ ॥
टिप्पनी
मृतस्य कल्मषं निर्हण्यते । 10तेन पुत्रादिभिः संस्कारादिः कर्तव्य इति भावः । अन्ये तु पूर्वं सूत्रं तन्निवृत्यर्थं मन्यन्ते । प्रत्यापत्तिः पुत्रादिभिः पित्रादिभावेन सम्बन्ध इति ॥२६॥
इति हरदत्तविरचितायामापस्तम्बसूत्रवृत्तौ चतुर्विंशी कडिका ॥२४॥
-
- Manu XI, 128; Yājñ. III, 266. Others explain the phrase vairayātanārtham, ‘for the expiation of his sin,’ thus: ‘He, who is p. 79 slain by anybody, becomes, in dying, an enemy of his slayer (and thinks), “O that I might slay him in another life,” for the removal of this enmity!’–Haradatta. I am strongly inclined to agree with the other commentator, and to translate vairayātanārtham, ‘in order to remove the enmity.’ I recognise in this fine a remnant of the law permitting compositions for murder which was in force in ancient Greece and among the Teutonic nations. With the explanation adopted by Haradatta, it is impossible to find a reasonable interpretation for prāyaścittirthaḥ, Sūtra 4. Haradatta, seduced by the parallel passage of Manu, takes it to be identical with vairayātanārtham. I propose to translate our Sūtra thus: ‘He who has killed a Kṣatriya shall give a thousand cows (to the relations of the murdered man) in order to remove the enmity.’ According to Baudhāyana I, 10. 19. 1 (compare Zeitschr. d. D. Morg. Ges., vol. 41, pp. 672-76; Festgruss an Roth, pp. 44-52), the cows are to be given to the king.
-
‘यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् भागधेयेनैवैनं शमयति नाऽस्याऽपरं गृहान् दहति’ (तै०सं० २. २.२.) इति विहिता आहिताग्नेर्यजमानस्य गृहे दग्धे तादृशगृहदाहनिमित्तका क्षामवदग्निदेवताकेष्टिः क्षामवतीष्टिः। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
Manu XI, 130. Yājñ. III, 267. ↩︎
-
Manu XI, 131. Yājñ. III, 267. ↩︎
-
Manu XI, 87. Abhiśasta means literally ‘accused, accursed,’ and corresponds in Āpastamba’s terminology to the mahāpātakin of Manu and Yājñavalkya, instead of which latter word Manu uses it occasionally, e.g. II, 185. ↩︎
-
‘Others interpret ātreyī, “during her courses,” by “belonging to the race of Atri.”’–Haradatta. ↩︎
-
Others say that he may carry the skull of any corpse. This Sūtra is to be construed with Sūtra 14, Sūtras 12 and 13 being inserted parenthetically.–Haradatta. Manu XI, 72-78; Yājñ. III, 243. ↩︎
-
‘I.e. after having performed the penance, he shall take grass and offer it to a cow. If the cow approaches and confidingly eats, then one should know that he has performed the penance properly not otherwise.’–Haradatta. Manu XI, 195 and 196. ↩︎
-
Manu XI, 81.–Thus Haradatta, better, ‘when-thrice he has fought with them,’ see the Pet. Dict. s. v. rādh. ↩︎
-
Manu XI, 83; Weber, Ind. Stud. X, 67. ↩︎
-
‘Or the Sūtra may have reference to unrighteous gain acquired by false testimony and the like.’–Haradatta. ↩︎
-
‘Guru means “the father and the rest.”–Haradatta. ↩︎
-
‘His sin is removed after death. Hence the meaning is that his sons or other (relations) may perform the funeral ceremonies and the like. But others think that the first part of the Sūtra forbids this, and that the meaning of pratvāpattiḥ (can be p. 82 purified) is “connection by being received as a son or other relation.”–Haradatta. ↩︎