01 आत्मन् पश्यन् सर्वभूतानि ...{Loading}...
आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति १
सर्वाष् टीकाः ...{Loading}...
Bühler
- That Brāhmaṇa, who is wise and recognises all creatures to be in the Ātman, who pondering (thereon) does not become bewildered, and who recognises the Ātman in every (created) thing, shines, indeed, in heaven.
हरदत्त-टीका
सूत्रम्
आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः।
आत्मानं चैव सर्वत्र यः पश्यत्स वै ब्रह्मा नाकपृष्ठे विराजति ॥ ९ ॥ १ ॥
टिप्पनी
सर्वाणि भूतानि आत्मन् आत्मनि शेषत्वेन स्थितानि पश्यन् उपनिषदादिभिर्जानन् । पश्चाच्चिन्तयन् युक्तिभिर्निरूपयन्, यो न मुह्येत् मध्ये मोहं न गच्छेत् । कविर्मेधावी । पश्चाच्च सर्वत्रैव शेषत्वेन स्थितमात्मनं पश्येत् साक्षात्कुर्यात् । स वै ब्रह्मा ब्राह्मणः नाकपृष्ठे तत्सदृशे स्वे महिम्नि स्थितो विराजति स्वयं प्रकाशते ॥१॥
शङ्कराचार्य-विवरणम्
आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति १
विवरणम् । किञ्च आत्मन् पश्यन् आत्मनि पश्यन् उपलभमानः । सर्वभूतानि सर्वाणि (भूतानि)। सर्वेषां भूतानामात्मस्वरूपतामेव पश्यन्नित्यर्थः । सवत्राऽऽत्मानं च परम् । न मुह्येत मोह न गच्छेत् । न ह्यात्मैकत्वदर्शिनो मोहावतारः; (१) तत्र को मोह’ इति च मन्त्रलिङ्गात्। कीडग्विशिष्टमा स्मदर्शनं मोहनिबर्हणमित्याह–चिन्तयन् उपसंहृतकरणः कविः मेधा वी सन् ध्यायमानः । न शब्दजनितदर्शनमात्रेण मोहापगमः । सर्वभूते. चतुप्रविष्टमकं संव्यवहारकाले यो हि युक्तः पश्येत् , स वै ब्रह्मा ब्राह्मणः । नाकपृष्ठे सुकरागौ(१) ब्रह्मणि । विराजति विविधं दीप्यते ॥९॥
02 निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य ...{Loading}...
निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- He, who is intelligence itself and subtler than the thread of the lotus-fibre, pervades the universe, and who, unchangeable and larger than the earth, contains the universe; he, who is different from the knowledge of this world, obtained by the senses and identical with its objects, possesses the highest (form consisting of absolute knowledge). From him, who divides himself, spring all (created) bodies. He is the primary cause, he is eternal, he is unchangeable. 1
हरदत्त-टीका
सूत्रम्
निपुणोऽणीयान् बिसोर्णाया यस्सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति ।
स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽ नन्यस्य ज्ञेयात्परमेष्ठी विभाजः।
तस्मात्कायाःप्रभवन्ति सर्वे समूलं शाश्वतिकः स नित्यः ॥
टिप्पनी
निपुणो मेधावी चित्स्वरूपः । बिसोर्णाया बिसतन्तोरप्यणीयान् सूक्ष्मः। य सर्वमावृत्य व्याप्य तिष्ठति । यश्च पृथिव्या अपि वर्षीयान् प्रवृद्धतरः सर्वगतत्वादेव सर्वमारभ्य विष्टभ्य शेषित्वेनाऽधिष्ठाय तिष्ठति । ध्रुवः एकरूपः। अस्य जगतो यदिन्द्रियैर्ज्ञानं इन्द्रियजन्यं ज्ञानं तस्मात् । कीदृशात ? अनन्यस्य ज्ञेयात् , पञ्चम्यर्थे षष्ठी, ज्ञेयात् नीलपीताद्याकारादनन्यभूतं नीलपीताद्याकारं, तस्माद्विषज्ञानादन्य इत्यर्थः । श्रूयते च 2 तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमय’ इति ।
3 ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतस्स्थितम् ॥ इति पुराणम् । स्वभावतः स्वच्छस्य चिद्रूपस्यऽऽत्मनो नीलपीताद्याकारकालुष्यं तद्रूपाया बुद्धेरनुरागकृतं भ्रान्तमित्यर्थः। वैषयिकज्ञानादन्य इति विशेषणेन ज्ञानात्मक इत्यपि सिद्धम्। 4 ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ति च श्रुतिः। एवंभूतस्याऽऽमा परमेष्ठी परमे स्वरूपे तिष्ठतीति । विभाज इत्यस्य परेण सम्बन्धः । विभजत्यात्मानं देवमनुष्यादिरूपेण नानाशरीरानुप्रवेशेनेति विभाक् । तस्माद्विभाजो निमित्तभूतात् सर्वे काया देवमनुष्यशरीराणि प्रभवन्ति उत्पद्यन्ते । स मूलं प्रपञ्चसृष्टेर्भोक्तृतया मूलकारणम् । स नित्यः अविनाशी । शाश्वतिक एकरूपः अविकारः ॥२॥
शङ्कराचार्य-विवरणम्
निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः २
विवरणम्। किञ्च निपुण’ सर्ववित् अणीयान् अणुतरो विसोर्णायाः बिसत तन्तोरपि । कोऽसौ ? य प्रकृत आत्मा सर्व समस्तं जगदावृत्य सं. व्याप्य तिष्ठति । किञ्च वर्षीयान् वृद्धतरः स्थूलतरश्च पृथिव्याः। सर्वा. त्मको हि सः । ध्रुव. नित्यः सर्व कृत्स्नमारभ्य संस्तम्भनं कृत्वा । तिष्ठति वर्तते । (२) येन द्यौरुमा पृथवी च बढा’ इति मन्त्रलिङ्गात् । स सर्वेश्वरः सर्वज्ञः एको विनेय इत्यर्थः। स परमात्मा इन्द्रियैर्जन्यते यशानं ज गतोऽस्य, तस्मात् ज्ञानादन्यो विलक्षणः, लौकिकज्ञानादन्य इति विशे. षणाज्ञानात्मक इत्यतेत् सिद्धम् । ‘सत्यं ज्ञानमनन्तमिति च श्रुतेः। अस्य जगत इन्द्रियजन्यज्ञानादन्य इत्युक्तम् । अतश्च तद्यतिरिक्तं ज. १. इशा. उ. ७. २. ८.७.३. HELP I । .. . आपस्तम्बधर्मसूत्रे (प.८)क.२३. PAL A गदिति प्राप्तम् । अतस्तन्मा भूदित्याह-अनन्यस्य अपृथग्भूतस्य ज. गतः, ज्ञेयात् ज्ञातव्यात् परमार्थस्वरूपाद्वयात् परमेश्वराद् घटादेरिव मदः । स च परमेष्ठी परमे प्रकृष्टे स्वे माहिम्नि हृदाकाशेऽवस्थातुं शीलमस्येति परमेष्ठी । स्वयमेव विभाज’ विभक्तो देवपितृमनुष्यादि. ना ज्ञातृशेयज्ञानभेदेन च, यस्मात् स एव ज्ञेय आत्मा स्वतो विभजति जगदनेकधा । तस्मादेवाऽऽत्मनः काया. शारीराण्याकाशादिक्रमेण प्रभवन्ति सर्वे ब्रह्मादिलक्षणाः। अतो मूलं स जगतः । (१) यतो वा इमानि भूतानि जायन्ते" इति श्रुतेः । अत एव स शाश्वतिकः । यो हि पृथिव्यादिविकार, सोऽबादिक्रमेण विनश्येत् , पर मूलकारणमापद्यते, सोऽशाश्वतिकोऽ नित्यः । अयं चाऽऽत्मा परं मूलम् । न तस्याऽप्यन्यन्मूलमस्ति, यतो जा. तो विनश्येत् , मूलमापद्यते, ततस्तद्विलक्षणत्वाच्छाश्वतिकः शश्वदे. करूपः । अतो नित्यः एकत्वमहत्वमूलत्वेभ्यश्च ॥ १० ॥
- १. तै. उ. ३. १.
03 दोषाणान् तु विनिर्घातो ...{Loading}...
दोषाणां तु विनिर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- But the eradication of the faults is brought about in this life by the means (called Yoga). A wise man who has eradicated the (faults) which destroy the creatures, obtains salvation.
हरदत्त-टीका
सूत्रम्
दोषाणां तु निर्घातो योगमूल इह जीविते ।
निर्हृत्य भूत दाहीयान् क्षेमं गच्छति पण्डितः ॥ ११ ॥ ३ ॥
टिप्पनी
दोषाणां वक्ष्यमाणानां क्रोधादीनां निर्घातः निर्मूलनम् । इह जीविते योगमूलः योगाः वक्ष्यमाणा अक्रोधादयः तन्मूलकः । अतश्च तान् भूतदाहीयान् भूतानि दहतः क्रोधादीन्दोषान् निर्हृत्य क्षेमं गच्छति आत्मत्राणद्वारेण । पण्डितो 3लब्धज्ञानः आत्मसाक्षात्कारी । क्षेमं अभयं मोक्षम् 4अभयं वै जनक प्राप्तोऽसीति बृहदारण्यकम् ॥ समाप्ताः श्लोकाः ॥ ३ ॥
शङ्कराचार्य-विवरणम्
दोषाणां तु विनिर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ३
विवरणम् । एवं यथोक्तमात्मान विदितवत आध्यात्मिका योगा न्यायसहिता अप्रतिबन्धेन भविष्यन्ति । मिथ्याप्रत्ययपूर्वका हि दोषाः। दोषनिमिः सश्च धर्माधर्मजनितः ससारः दोषनिवृत्तावत्यन्तं विनिवर्तते इत्येतम. थै दर्शयिष्यन्नाह–
दोषाणां तु निर्घातो योगमूल इह जीविते । निहत्य भूत दाहीयान् क्षेमं गच्छति पण्डितः ॥ ११ ॥ ३ ॥ ___ दोषाणां तु क्रोधादीनां निर्घात विनाशः। योगा अक्रोधादयः, त. न्मूलः तनिमित्तमित्येतत् । अक्रोधादिषु हि सत्सु प्रतिद्वन्द्विनो दोषा दुर्बलत्वानिहन्यन्ते । इह जवित इति दोषप्रभवकमीनीमत्तत्वाज्जीवित तस्य देहधारणावसानो दोषव्यापार इत्येतद् दर्शयति । तत्प्रतिपक्षेश्व क्रोधादिषु कथं नु नाम मुमुक्षवः प्रयत्नातिशय कुयुरिति योगदोषयो रितरेतरविरोधित्वे सति स्थितिगतिवद् योगेभ्यो दोषाणामेव निर्धातः, न तु विपर्यय इत्येतत् । कथामिति चेत् ? उच्यते-सम्यग्दर्शनसचिव. त्वाद् बलवन्तो योगाः । मिथ्याप्रत्ययसचिवक्त्वात दुर्बलत्वानिहन्यन्ते । निहन्तीत्येतदप्युक्तम् । बुद्धिबलवद्भयस्तद्धीनानां लोके निर्धातो दृष्टः । ‘अक्रोधनः’ (१. १. २३) ‘क्रोधादींश्च—’ (१. ११. २५) इति लि नात् । निर्हत्य अपहृत्य । भूतदाहान् दोषेषु(न?) ह्यद्भुतेषु भूतानि द. हन्त इव अग्निना परितप्यन्ते । अतो भूतदाहा दोषा उच्यन्ते । तान् निहत्य । क्षेमं निर्भय मोक्षं गच्छति। ___“आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन"अभयं वै जनक प्राप्तो अलि’ न भवति विदषां ततो भयम’ इत्यादिश्रतिस्मतिभ्य. । न दोषप्रशममात्रेणाऽब्रह्मविदः क्षेमप्राप्तिरित्याह-पण्डित इति । ब्रह्मविदि ह्यत्र पण्डितशब्दः प्रयुक्तो, न शास्त्रविदि । (१)“तस्माद् ब्राह्मणः पा ण्डित्य निर्विद्य” इति श्रुतेः । इहाऽऽत्मविद्याधिकारात । यदि तर्हि दोषनिहरणं पण्डितोऽप्यपक्षेत, तं प्रति न हि ब्रह्मवि द्या क्षेमप्राप्तिनिमित्तम् । यदि ब्रह्मविद्यैव क्षेमप्राप्तिनिमित्तं, ब्रह्मविद्या नन्तरमेव न दुःखमुपलभेत । नैष दोषः । उक्तो ह्यत्र परिहारः–सम्यग ज्ञानबलावष्टम्भाद् बलिनो योगा दुर्वलान् दोषान् मिथ्याप्रत्ययभवान् निहन्तुमलमिति । तस्माद् ब्रह्मविद्ययैव क्षेमप्राप्तिः । अन्यथा दोषनिह रणकर्मक्षययोरसम्भवात् । १. ब. उ. ३. ५. १. wwwPhomemain ८ आपस्तम्बधर्मसूत्रे (प.८)क.२३ विद्यया चेद् दोषनिहरणकर्मक्षयावश्यं भवतः, तत इदमयनका. यत्वाद् दोषनिहरणस्य नित्यानुवाद रूपमनर्थकम्, निहत्येति, न, प्रवृत्तकर्माक्षिप्तत्वाद् दोषाणाम्। द्विविधानि बनेकजन्मान्तरकृतानि कर्माणि-फलदानाय प्रवृत्तान्यप्रवृत्तानि च । यत्तु प्रवृत्त कर्म, तेनाक्षि ना दोषाः कर्तुः सुखदुःखादिफलदानाय, दोषाभावे फलारम्भकत्वा. नुपपत्तेः । न हि रागद्वेषादिशून्ये सुखदुःख प्रवृत्तिलब्धिः कदाचित् कस्यचिदिह दृश्यते । तस्मात् फलदानाय प्रवृत्तेन कर्मणाक्षिप्ता दोषाः प्रसङ्गेन प्राप्तबला यत्नतो निहर्तव्या । प्रवृत्याधिक्यहेतुत्वप्रसङ्गात् । अत एवेदमुक्तम्-दोषाणां तु निर्घातो योगमूले इह जीवित इति। मन्द. मध्यमोत्तमापेक्षत्वाच्च । ब्रह्मविदामपि न सर्वेषां समा बह्मप्रतिपत्तिः, विवेकातिशयदर्शनात कस्याचत । ‘एष ब्रह्मविदां वरिष्ट’ इति च श्रुतः सम्यग्दर्शनसम्पन्न’ इति च स्मृतः। मन्दमध्यमब्रह्मविदपेक्षया त्याग. वैराग्येन्द्रियजयाविधेरर्थवत्त्वम् : उत्तम ब्रह्मविदां त्वर्थप्राप्तमेतत् सवमि. त्यनुवादमात्रम् । (१) रसोऽप्यस्य परं दृष्ट्वा निवर्तते, इति वचनात् गुणा तीत्तलक्षणवचनेभ्यश्च । प्रवृत्तकांक्षिप्तदोषात् तजानतचेष्टाभ्यश्च भ. वति विदुषोऽपि देहान्तरोत्पत्तिरिति चेद-मुक्तषुवत् प्रवृत्तकाक्षिप्त त्वाद् विद्वहोषचेष्टानां प्रवृत्त कर्मविभागनवोपक्षीणशक्तित्वात प्रयोजना न्ताराभावाच्च न जन्मान्तरारम्भकत्वमुपपद्यते । यद्यप्रवृत्तं कम, तत सत्यवावस्थमेव ब्रह्मविद्याहुताशनदग्धबीजशक्तित्वाचाल जन्मान्तरार. म्भाय, ‘क्षीयन्ते चाऽस्य कमाणि’(२) ‘ज्ञानाग्निः सर्वकमाणि’इत्यादिश्रु. तिस्मृतिभ्यः । अतः सिद्धा पण्डितस्य दोषनिहरणात क्षमप्राप्तिः ॥ ११॥
१. श्रीभ० गीता० २. ५९. २. श्रीभगव. ४. ३७.
05 अथ भूतदाहीयान्दोषानुदाहरिष्यामः ...{Loading}...
अथ भूतदाहीयान्दोषानुदाहरिष्यामः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now we will enumerate the faults which tend to destroy the creatures.
हरदत्त-टीका
सूत्रम्
अथ भूतदाहीयान्दोषानुदाहरिष्यामः ॥ १२ ॥ ४॥
टिप्पनी
भूतानां दाहो भूतदाहः तस्मै हिताः भृतदाहीयाः तस्मै हितमिति छः।
05 क्रोधो हर्षो ...{Loading}...
क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥
सर्वाष् टीकाः ...{Loading}...
Bühler
- (These are) anger, exultation, grumbling, covetousness, perplexity, doing injury, hypocrisy, lying, gluttony, calumny, envy, lust, secret hatred, neglect to keep the senses in subjection, neglect to concentrate the mind. The eradication of these (faults) takes place through the means of (salvation called) Yoga.
हरदत्त-टीका
सूत्रम्
क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥
टिप्पनी
5ताडनाक्रोशादिहेतुकोऽन्तःकरणविक्षोभः स्वेदकम्पादिलिङ्गः क्रोधः । हर्षः इष्टलाभाच्चेतस उद्रेको रोमाञ्चादिलिङ्गः । रोषः क्रोधस्यैव कियानपि भेदो मित्रादिषु प्रतिकूलेषु मनसो वैलोम्यमात्रकार्यकरः। लोभो द्रव्यसङ्गः, यो धर्मव्ययमपि रुणद्धि । मोहः कार्याकार्ययोरविवेकः। स च प्रायेण क्रोधादिजन्योऽपि पृथगुपदिश्यते कदाचित्तदभावेऽपि सम्भवतीति । दम्भो धार्मिकत्व2प्रकाशनेन लोकवञ्चनम् । द्रोहोऽपकारः। मृषोद्यमनृतवादः । अत्याशोऽत्यशनम् । परीवादः परदोषाभिधानम् । असूया परगुणे3ष्वक्षमा । कामः स्त्रीसंसर्गः । मन्युः गूढो द्वेषः । अनात्म्य अजितेन्द्रियत्वं जिह्वाचापलादि । अयोगो विक्षिप्तचित्तता । एते भूतदाहीया दोषाः । तेषां योगमूलो निर्घातः ॥५॥
06 अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग ...{Loading}...
अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Freedom from anger, from exultation, from grumbling, from covetousness, from perplexity, from hypocrisy (and) hurtfulness; truthfulness, moderation in eating, silencing a slander, freedom from envy, self-denying liberality, avoiding to accept gifts, uprightness, affability, extinction of the passions, subjection of the senses, peace with all created beings, concentration (of the mind on the contemplation of the Ātman), regulation of one’s conduct according to that of the Āryas, peacefulness and contentedness;–these (good qualities) have been settled by the agreement (of the wise) for all (the four) orders; he who, according to the precepts of the sacred law, practises these, enters the universal soul.
हरदत्त-टीका
सूत्रम्
अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन् विधिना 5सार्वगामी भवति ॥ १४ ॥ ६॥
प्रस्तावः
के पुनस्ते योगा इति, उच्यते —
टिप्पनी
के पुनस्ते योगाः ? तानाह—
एते चाऽक्रोधादयोऽपि भावरूपाः न क्रोधाद्यभावमात्रम् , क्रोधादिनिर्घातहेतुतयोपदेशात् । के पुनस्ते ? अक्रोधः, क्रोधादिषु प्रसक्तेष्वपि मा कार्षमिति सङ्कल्पः। अहर्षः, इष्टलाभालाभेषु चेतस ऐकरूप्यम् । अरोषः मित्रादिषु प्रतिकूलेष्वपि मनोविकाराभावः । अलोभः सन्तोषोऽलम्बुद्धिः। अमोहोऽवधानम् । अदम्भो धर्मानुष्ठानम् । अद्रोहः परेष्वपकारिष्वप्यनपकारः । अनसूया परगुणेष्वभिमोदनम् । सत्यवचनं यथादृष्टार्थवादित्वम् । सम्विभागः आत्मान5मुपरुध्याऽप्यग्रादिदानम् । त्यागोऽपरिप्रहः । आर्जवं मनोवाक्कायानामेकरूपत्वम् । मार्दवं सूपगम्यता। शमः मन्युपरित्यागः । दमः2इन्द्रियजयः । एताभ्यामेव गतत्वात् पूर्वस्वस्मिन् क्रमे अकामः, अमन्युः, आत्मवत्वमिति नोपदिष्टम् । सर्वभूतैरविरोधः । सर्वग्रहणं क्षुद्रैरविरोधार्थम् । योगः ऐकाप्यम् । आर्याणां भावः आर्यं शिष्टाचारानुपालनम् । आनृशंसं आनृशंस्यं व्यवहारवचनादौ प्रसक्तनैष्ठुर्यस्य वर्जनम् । तुष्टिरनिर्वेदः । समयो ब्यवस्था । सा च प्रकरणाद्धर्मज्ञानाम् । पदं विषयः । एते अक्रोधादयः सर्वेषामाश्रमाणां सेव्याः, न केवलं योगिनामेवेति धर्मज्ञानां समय इत्यर्थः । एते हि भाव्यमानाः क्रोधादीनू समूलघातं घ्नन्ति । अतश्च तान्यनुतिष्ठन् विधिना सार्वगामी भवति । तान्यक्रोधादीनि तुष्ट्यन्तानि । विधिना यथाशास्त्रम् । अनुतिष्ठन् सार्वगामी सर्वस्मै हितः सार्वः आत्मा तं गच्छति प्राप्नोति। ‘विधिने’ति वचनात्3प्राणिनां तु वधो यत्र तत्र साक्ष्यनृतं वदेत् ।’ इत्यादिके विषये अनृतवचनादावपि न दोष इति ॥ ६ ॥
इति श्रीहरदत्तविरचितायामापस्तम्बधर्मसत्रवृत्तावुज्वलायां त्रयोविंशी कण्डिका ॥ २३ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु ज्ज्वलायां प्रथमप्रश्नेऽष्टमः पटलः ॥८॥ .
शङ्कराचार्य-विवरणम्
अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति ६
विवरणम् । __ अक्रोधोऽहर्षः इत्येवमाद्या अयोगविपरीताः । अतस्ते समाधिलक्षण स्वाद योगा। सविभागः आत्मनो यात्रालाधनस्याऽर्थिभ्यः संविभजनम् । स्यागः दृष्टादृष्टेष्टभोगानां शक्तितः परित्यजम् , तत्साधनानां च । आर्जवम् ऋजुता, अदुष्टाकलनपूर्विका वाङ्मनाकायानां प्रवृतिः। मार्दव मृदुत्वम् । शमोऽन्तःकरणोपशमः। दमो बाह्यकरणापेशमः। इदमन्यद् योगलक्षणं संक्षेपत उच्यते-सर्वभूताविरोधो योगः, विरोघे हि भूतानां पीडा, तदभावेऽपीडा । स एव सर्वभूतापीडालक्षणो योगः। आर्यम् आर्याणां भावः अक्षुद्रता । आनृशंसम् आनृशंस्यम् , अक्रौर्यम् । तुष्टिः लब्धव्यस्याऽलाभेऽपि चेतसा प्रसन्नतयाऽवस्थानं लाभ इव । सर्व भताविरोलक्षणांहिला परिव्राजकस्यैव सम्भवतीत्यायर्यादीनां त्रया. णामन्येषां चाविरुद्धानां सर्वाश्रमान प्रति प्राप्तिरितीतिशब्दसाम द्,ि इतिशब्दस्य च प्रकारवचनत्वादार्यादीनीत्थंप्रकाराणि सर्वाश्र मान् प्रति गमयति सर्वाश्रमाणां समयपदानोति । समयस्थानानीत्ये तत् । अवश्यानुष्ठेयानीत्यर्थः । तान्येतानि यथोक्तान्यनुतिष्ठन् विधिना सर्वगामी सर्वगमनशीलः, शानाभिव्यक्तिक्रमेण । भवति मुच्यते इत्यर्थः ।। इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीशङ्करभगवत्पादाचार्यस्य कृतिषु आपस्तम्बीयधर्मशास्त्राध्यात्मपटलविवरणम् ॥
इति अष्टमः पटलः