01 अध्यात्मिकान्योगान् ...{Loading}...
अध्यात्मिकान् योगान् अनुतिष्ठेन् न्याय-संहितान् अनैश्चारिकान् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall employ the means which tend to the acquisition of (the knowledge of) the Ātman, which are attended by the consequent (destruction of the passions, and) which prevent the wandering (of the mind from its object, and fix it on the contemplation of the Ātman). 1
हरदत्त-टीका
सूत्रम्
अध्यात्मिकान् योगाननुतिष्ठेन्न्यायसंहिताननैश्चारिकान् ॥ १ ॥
टिप्पनी
उक्तानि पतनीयान्यशुचिकराणि च कर्माणि । तेषां प्रायश्चित्तानि वक्ष्यन्नादित आत्मज्ञानं तदुपयोगिनश्च योगानधिकुरुते । तस्यापि सर्वपापहरत्वेन मुख्यप्रायश्चित्तत्वात् । श्रूयते हि—
2भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति ।
3 ‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतेवं हाऽस्य सर्वे पाप्मानः प्रदूयन्त’ इति च । याज्ञवल्क्योऽप्याह —
4इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगनाऽऽत्मदर्शनम् ॥ इति ॥
अध्यात्मनि भवानध्यात्मिकान् । छान्दसो वृद्ध्यभावः । आत्मनो लम्भयितॄन् । योगान् चित्तसमाधानहेतून् वक्ष्यमाणानक्रोधादीनुपायान् । अनुतिष्ठेत् सेवेत न्यायसंहितान् उपपत्तिसमन्वितान् , उपपद्यन्ते हि ते न्यायतः क्रोधादीनां दोषाणां निर्घाते । अनैश्चारिकान् निश्चारश्चित्तस्य बहिर्विक्षेपः, तस्मै ये प्रभवन्ति क्रोधादयो वक्ष्यमाणाःते नैश्चारिकाः तत्प्रतिपक्षभूतान् । अक्रोधादिषु सत्सु चित्तमनिश्चरणशीलमात्मालम्बनं निश्चलं तिष्ठति तस्मात्ताननुतिष्ठेत् । आत्मानं लब्धुमक्रोधादिलक्षणं चित्तसमाधानं कुर्यादिति ॥१॥
शङ्कराचार्य-विवरणम्
सूत्रम्
अध्यात्मिकान् योगाननुतिष्ठेन्न्यायसंहिताननैश्चारिकान् ॥ १ ॥
टिप्पनी
श्रीमच्छङ्करभगवत्पादप्रणीतं विवरणम् ॥
अथ ‘अध्यात्मिकान् योगान्’—इत्याद्यध्यात्मपटलस्य संक्षेपतो विवरणं प्रस्तूयते। किमिह प्रायश्चित्तप्रकरणे समाम्नानस्य प्रयोजनमिति । उच्यते— कर्मक्षयहेतुत्वसामान्यात्। अनिष्टकर्मक्षयहेतूनि हि प्रायश्चित्तानि भवन्ति । सर्वं च कर्म वर्णाश्रमविहितमनिष्टमेव विवेकिनः, देहग्रहणहेतुत्वात् । तत्क्षयकारणं चाऽऽत्मज्ञानम्, प्रवृत्तिहेतुदोषनिवर्तकत्वात् । दोषाणां च निर्घाते आत्मज्ञानवतः पण्डितस्य धर्माधर्मक्षये क्षेमप्राप्तिरिह विवक्षितेत्यात्मज्ञानार्थमध्यात्म(१)पटलमारभ्यते, कर्मक्षयहेतुत्वसामान्यात् ।
- १. अत्र पटलशब्दो नपुसकलिङ्गः प्रयुक्तः । ‘समूहे पटलं न ना’ ( अमरको. ३. ३. २००) इत्यमरकोशात्तु समूहवाचिनः पटलशब्दस्यैव क्लीबत्वम् । ‘तिलके च परिच्छेदे पटलः’ इति शेषकोशात् परिच्छेदवाचकस्य पटलशब्दस्य तु पुंल्लिागतैवेत्यवगम्यते । अत एव च सर्वे ग्रन्थकाराः ‘इति प्रथमः पटलः, इत्येव लिखन्ति । अतोऽत्रापि पुलिंङ्गेनैव भाव्यं यद्यपि पटलशब्देन तथापि भेदाविवक्षया प्रयोगः कृत इति भाति ॥
ननु वर्णाश्रमविहितानां कर्मणामफलहेतुन्वात् तत्क्षयो नेष्ट इति, न, “सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम्” ( २. २. २.)
इत्यादिश्रवणात् । अपरिमितवचनात् क्षेमप्राप्तिरेवेति चेन्न, ‘तत्परिवृत्तौ कर्मफलशेषेण’ (२.२.३.) इत्यादिश्रवणात् । गौतमश्च—
(२) वर्णाः आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभय” इत्यादि ना संसारगमनमेव दर्शयति कर्मणां फलम् । सर्वाश्रमाणां हि दोषनिर्घातलक्षणानि समयपदानि विधिनाऽनुतिष्ठन् सार्वगामी भवति, न तु स्वधर्मानुष्ठानात् । वक्ष्यति च—
‘विधूय कविः’ ( २२. ५) “सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्याऽत्मानमन्विच्छेद्’ ( २. २१. १३) इत्यादि ।
“तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति”(२. २१. २)
- २. गौ.ध. ११. २१
इति वचनात् क्षेमशब्दस्य चाऽपवर्गार्थत्वात् सर्वाश्रमकर्मणां ज्ञानरहितानामेव फलार्थत्वं ज्ञानसंयुक्तानि तु क्षेमप्रापकाणि, यथा विषदध्यादीनि मन्त्रशर्करादिसंयुक्तानि कार्यान्तरारम्भकाणि, तद्वदिति चेत्- न; अनारभ्यत्वात् क्षेमप्राप्तेः। यदि हि क्षेमप्राप्तिः कार्या स्यात् तत इदं चिन्त्यम्- किं केवलैः कर्मभिरारभ्या? ज्ञानसहितैर्वा? ज्ञानकर्मभ्यां वा? केवलेन ज्ञानेन कर्मासंयुक्तेन वेति । न त्वारभ्या केनचिदपि; क्षेमप्राप्तेः नित्यत्वात् । अतोऽसदिदम्-झानसंयुक्तानि कर्माणि क्षेमप्राप्तिमारभन्ते इति । ज्ञानसंयुक्तानां ज्ञानवदेव क्षेमप्राप्तिप्रतिबन्धापनयकर्तृत्वमिति चेत्- न, सकार्यकारणानामेव कर्मणां क्षेमप्राप्तिप्रतिबन्धकत्वात् । अविद्यादोषहेतूनि हि सर्वकर्माणि सहफलैः कार्यभूतैः क्षेमप्राप्तिप्रतिबन्धकानि । तदभावमात्रमेव हि क्षेमप्राप्तिः। न च तदभाव आत्मज्ञानादन्यतः कुतश्चिदुपलभ्यते । तथाह्युक्तम्—
“निहत्य भूतदाहान् क्षेमं गच्छति पण्डितः” (२२. ११.) इति । पाण्डित्यं चेहात्मज्ञानं, प्रकृतत्वात् । श्रुतेश्च (१)“आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति” इति । अभयं हि क्षेमप्राप्तिः । (२) अभयं वै जनक ! प्राप्तोऽसि’ इति श्रुत्यन्तरात् ।
“तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति’ (२.२१.२.) इत्याचार्यवचनमन्यार्थम् । कथम् ? यथोपदिष्टेष्वाश्रमधर्मेष्वव्यग्रो निष्कामस्सन् प्रवर्तमानो ज्ञानेऽधिकृतो भवति, न यथेष्टं(३) चेष्टन कामकामी जायापुत्रवित्तादिकामापहृतव्यप्रचेताः। ज्ञानी च सन् सर्वसन्यासक्रमेण क्षेमं गच्छतीत्येषोऽर्थः । नहि दोषनिर्घातः कदाचिदपि कर्मभ्य उपपद्यते । समिथ्याज्ञानानां हि दोषाणां प्रवृत्तौ सत्यां प्राबल्यामिहोपलभ्यते । ‘सङ्कल्पमूलः कामः’ इति च स्मृतेः । प्रवृत्तिमान्द्ये च दोषतनुत्वदर्शनात् । न चाऽनिर्हृत्य समिथ्याज्ञानान् दोषान् क्षेमं प्राप्नोति कश्चित् । न च जन्मान्तरसञ्चितानां शुभकर्मणां विहितकर्मभ्यो निवृत्तिरुपपद्यते, शुद्धिसामान्ये विरोधाभावात् । सत्सु च तेषु तत्फलोपभोगाय शरीरग्रहणं, ततो धर्माधर्मप्रवृत्तरागद्वेषौ, पुनः शरीरग्रहणं चेति संसारः केन वार्यते ? तस्मान्न कर्मभ्यः क्षेमप्राप्तिस्तत्प्रतिबन्धनिवृत्तिर्वा ।
कर्मसहिताज्ज्ञानादविद्यानिवृत्तिरिति चेत् ! यद्यपि ज्ञानकर्मणो भिन्नकार्यत्वाद् विरोधः तथापि तैलवर्त्त्यग्नीनामिव संहृत्य कर्मणा झानमविद्यादि संसारकारणं निवर्तयतीति चेन्न । क्रियाकारकफलानुपमर्देनाऽऽत्मलाभाभावात् ज्ञानस्य कर्मभिः संहतत्वानुपपत्तेः । तैलवर्त्त्यग्नीनां तु सहभावित्वोपपत्तेरितरेतरोपकार्योपकारकत्वोपपत्तेश्च संहतत्वं स्यात् । न तु ज्ञानकर्मणोस्तदुभयानुपपत्तेः संहतत्वं कदाचिदपि सम्भवति । केवलज्ञानपक्षे शास्त्रप्रतिषेधवचनादयुक्तमिति चेन्न । ज्ञान कार्यानिवर्तकत्वाच्छास्त्रप्रतिषेधवचनस्य ॥
- १. तैत्ति, उ. २, ९.
- २. बृ. उ., ४. २.४.
- ३. ‘चेष्टन्’ इति शत्रन्तः प्रयोगस्साधुरिति न प्रतीमः।
योऽयं कर्मविधिपरैः केवलज्ञानपक्षस्य सर्वसन्न्यासस्य विप्रतिषेधो विरोधः, स नैव ज्ञानकार्यमविद्यादोषक्षयं वारयति (१)‘भिद्यते हृदयग्रन्थिः’ (२) ‘तस्य तावदेव चिरम्’ (३) ‘मृत्युमुखात् प्रमुच्यते’ इत्येवमादिश्रुतिस्मृतिशतसिद्धम्, कर्मविधिपरत्वात् प्रवृत्तिशास्त्रस्य । न च (तत्) ज्ञानस्वरूपं ब्रह्मात्मैकत्वविषयं वारयति, सर्वोपनिषदामप्रामाण्यानर्थक्यप्रसङ्गात, ‘पूः प्राणिनः’(२२ ४.) ‘आत्मा वै देवता’ इत्यादिस्मृतीनां च । तस्माद्यद्यपि बहुभिः प्रवृत्तिशास्त्रैर्विप्रतिषिद्धं केवलज्ञानशास्त्रमात्मैकत्वविषयमल्पं, तथापि सकार्यस्य ज्ञानस्य बलवत्तरत्वान्न केनचिद्वारयितुं शक्यम्।
- १. मु.उ. २. २. ८.
- २. छा. उ. ६.१४. ..
- ३. कठो. २, ३ १५,
जीवतो दुःखानिवतर्कत्वाज्ञानस्याऽनैकान्तिकं क्षेमप्रापकत्वमिति चेत्, न, ‘भिद्यते हृदयग्रन्थिः’ ‘ब्रह्मविदाप्नोति परम्’, ‘निचाय्य तं मृत्युमुखात् प्रमुच्यते’ (४) ब्रह्म वेद ब्रह्मैव भवति’ इत्यादिश्रुतिस्मृतिन्यायेभ्यः । बहुभिर्विप्रतिषिद्धत्वात् सर्वत्यागशास्त्रस्य लोकवत् त्याज्यत्वमिति चेन्न, तुल्यप्रमाणत्वात् । मानसान्तानि सर्वाणि कर्माण्युक्त्वा । (५)“तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्” इति तपःशब्दवाच्यानां कर्मणामवरत्वेन संसाराविषयत्वमुक्त्वा न्यासशब्दवाच्यस्य ज्ञानस्य केवलस्य न्यास एवात्यरेचयत्’ (६) त्यागेनैके अमृतत्वमानशुः’ इत्यमृतत्वफलं दर्शयति शास्त्रम् ।
(७)“तस्यैव विदुषो यज्ञस्याऽऽत्मा यजमानः” इत्यादिना च विदुषः सर्वक(र्म?र्मा) भावं दर्शयति;
“द्वौ पन्थानावनुनिष्क्रान्ततरौ कर्मपथश्चैव पुरस्तात् सन्यासश्च, तयोः सन्न्यास एवातिरेचयति”
इति च । विप्रतिषेधवचनस्य निन्दापरत्वादयुक्तमिति चेन्न।
- ४. मुण्ड. उ.३.२ ९.
- ५. नारा. उ. ७८,
- ६. नारा.उ.३.
- ७. नारा.उ. ८०
अविद्वद्विषयस्य कर्मणः स्तुत्यर्थत्वोपपत्तेः । मन्दबुद्धयो हि लोकेऽदृष्टप्रयोजनाः प्ररोचनेन प्रवर्तयितव्याः कर्मसु । न दृष्टप्रयोजना विद्वांसः। परनिन्दा हि परस्तुतिरिति केवलज्ञाननिन्दया कर्मस्तुतिपरमाचार्यवचनम् ।
यत्तु “बुद्धे चेत् क्षेमप्रापणम् , इहैव न दुःखमुपलभेत” (२.२१.१६) इति ज्ञानस्य साधनत्वानैकान्तिकवचनं, तद् (१) ‘ब्रह्मविदाप्नोति परम्’ इत्यादिवाक्येभ्यः प्रत्युक्तम्, आचार्यान्तरवचनाच्च ‘त्यज धर्ममधर्मं च’ ‘न तत्र क्रमते बुद्धिः’ ‘नैष्कर्म्यमाचरेत्’ ‘तस्मात्
कर्म न कुर्वन्ति’ इत्यादेः । तस्मात् केवलादेव ज्ञानात् क्षेमप्राप्तिः॥
- १. तै.उ. २. १.
अध्यात्मिकान् योगानिति । अध्यात्मं भवन्तीत्यध्यात्मिकाः । छान्दसं स्वत्वम् । के ते अध्यात्मिका योगाः ? वक्ष्यमाणा अक्रोधादयः । ते हि चित्तलमाधानहेतुत्वाद् योगाः । बाह्यनिमित्तनिरपेक्षत्वाच्चाध्यात्मिकाः । तानध्यात्मिकान् योगान् । न्यायसहितान् उपपत्तिसमन्वितान् । ते हि क्रोधादिषु दोषनिर्घातं प्रति समर्था उपपद्यन्ते न्यायतः । अनैश्चारिकान् निश्चारयन्ति मनोऽन्तःस्थं बहिर्विषयेभ्य इति नैश्चारिकाः क्रोधादयो दोषाः, तत्प्रतिपक्षभूता ह्येते ऽनैश्चारिकाः । अक्रोधादिषु हि सत्सु चित्तमनिश्चरणस्वरूपं प्रसन्नमात्मावलम्बनं तिष्ठति । अतस्ताननुतिष्ठेत् सेवेत । अक्रोधादिलक्षणं चित्तसमाधानं कुर्यादित्यर्थः। तथा हि परः स्व आत्मा लभ्यते । क्रोधादिदोषापहृतचेतस्तया हि स्वोऽपि पर आत्माऽविज्ञातोऽलब्ध इव सर्वस्य यतः, अतस्तल्लाभाय योगानुष्ठानं कुर्यात् ॥ १ ॥
02 आत्मलाभान्न परं विद्यते ...{Loading}...
आत्म-लाभान् न परं विद्यते २
सर्वाष् टीकाः ...{Loading}...
Bühler
- There is no higher (object) than the attainment of (the knowledge of the) Ātman. 5
हरदत्त-टीका
सूत्रम्
आत्मलाभान्न परं विद्यते ॥२॥
प्रस्तावः
किपुनरात्मा प्रयत्नेन लब्धव्यः ? ओमित्याह—
टिप्पनी
आत्मलाभात्परमुत्कृष्टं लाभान्तरं नास्ति । तस्मात्तस्य लाभाय यत्न आस्थेय इति । का पुनरसावात्मा ? प्रत्यगात्मा । नन्वसौ नित्यलब्धः। न हि स्वयमेव स्वस्याऽलब्धो भवति । सत्यम्, प्रकृतिमेलनात्तधर्मतामुपगतो विनष्टस्वरूप इव भवति । प्रकृत्या हि नित्यसम्बद्धः पुरुषः । तथाविधश्च सम्बन्धो यथा परस्परं विवेको न ज्ञायते । अन्योन्यधर्मश्चान्योऽन्यत्राऽध्यस्यन्ते । यथा क्षीरोदके सम्पृक्ते न ज्ञायते विवेकः-इयत् क्षीरमियदुदकमिति, अमुष्मिन्नवकाशे क्षीरममुश्मिन्नवकाश उदकमिति । यथा वा अग्न्ययोगोलकयोरभिसम्बद्धयोर्ये अग्निधर्मा उष्णत्वभास्वरत्वादयः ते अयोगोलकेऽध्यस्यन्ते। ये वा अयोगोलकधर्माः काठिन्यादैर्घ्यादयः ते ऽग्नावध्यस्यन्ते । एवं हि तत्र ‘प्रतिपत्तिः एकं वस्तु उष्णं दीर्घं भास्वरं कठिनमिति । तद्वदिहापि पुरुषधर्माश्चैत न्यादयः प्रकृतावध्यस्यन्ते । प्रकृतिधर्माश्च सुखदुःखमोहपरिणामादयः पुरुषे । ततश्च एकं वस्तु चेतनं सुखादिकलिल परिणामीति व्यवहारः। वस्ततस्तु तस्मिन् सङ्घाते अचेतनांशः परिणामी । चेतनांशस्तु तमनुधावति । येन येन रूपेण परिणमति तेन तेनाऽभेदाध्यासमापद्यते।
यथा क्षीरावस्थागतं घृतं क्षीरे दध्यात्मना परिणमति तामप्यवस्थामनुप्रविशति तद्वदिहापि । तदिदमुच्यते-6 तत्सृष्ट्वा तदेवानुप्राविश’दिति । सर्गेऽप्यात्मनः कर्तृत्वमिदमेव-यदुत भोक्तृतया निमित्तत्वम् । तदेवं स्वभावतः स्वच्छोऽप्यात्मा प्रकृत्या सहाभेदमापन्नः तद्धर्मा भवति। एवं तद्विकारेण महता तद्विकारेणाऽहङ्कारेण, इत्याशरीराद्द्रष्टव्यम् । स्थूलोऽहं कृशोऽहं देवोऽहं मनुष्योऽहं तिर्यगहमिति । तस्यैवंगतस्यापेक्षितव्यस्स्वरूपलाभः नीचैरिव वर्धितस्य राजपुत्रस्य । तद्यथा शबरादिभिर्बाल्यात्प्रभृति स्वसुतैस्सह संवर्धितो राजपुत्रस्तज्जातीयमात्मानमवगमयन्मात्रा स्वरूपे कथिते लब्धस्वरूप इव भवति । तथा प्रकृत्या2वेश्ययेव स्वरूपान्तरं नीत आत्मा मातृस्थानीयया3 “तत्त्वमसी’ति श्रुत्या स्वभाव नीयते-यदेवंविधं परिशुद्धं वस्तु तदेव त्वमसि, यथा मन्यसे ‘मनुष्योऽहं दुःख्यह’मित्यादि न तथेति । यथा य एवंभूतो राजा स त्वमसीति राजपुत्रः ।
ननु तत्त्वमसीति ब्रह्मणा तादात्म्यमुच्यते। को ब्रूते ? नेति । ब्रह्माऽपि नान्यदात्मनः । किं पुनरयमात्मा एक ? आहो स्विन्नाना? किमनेन ज्ञानेन ? त्वं तावदेवंविधश्चिदेकरसो नित्यनिर्मलः संसर्गात्कलुषतामिव गतः। तद्वियोगश्च ते मोक्षः । त्वयि मुक्ते यद्यन्ये सन्ति ते संसरिष्यन्ति । का ते क्षतिः ? अथ न सन्ति तथापि कस्ते लाभ इत्यलमियता । महत्येषा कथा । तदप्येते श्लोका भवन्ति —
नीचानां वसतौ तदीयतनयैः सार्धं चिरं वर्धित
स्तज्जातीयमवैति राजतनयः स्वात्मानमप्यञ्जसा।
संघाते महदादिभिस्सहवसंस्तद्वत्परः पूरुषः
स्वात्मानं सुखदुःखमोहकलिलं मिथ्यैव धिङ्मन्यते ॥१॥
दाता भोगपरः समग्रविभवो यः शासिता दुष्कृतां
राजा स त्वमसीति मातृमुखतः श्रुत्वा यथावत्स तु ।
राजीभ्य4 जयार्थमेव यतते तद्वत्पुमान् बोधितः
श्रुत्या तत्त्वमसीत्यपास्य दुरितं ब्रह्मैव सम्पद्यते ॥२॥
इत्येवं बहवोऽपि राजतनयाः प्राप्ता दशामीदृशीं
नैवान्योन्यभिदामपस्य सहसा सर्वे भजन्त्येकताम् ।
किं तु स्वे परमे पदे पृथगमी तिष्ठन्ति भिन्नास्तथा
क्षेत्रज्ञा इति तत्त्वमादिवचसः का भेदवादे क्षतिः ॥३॥
तेष्वेको यदि जातु मातृवचनात् प्राप्तो निजं वैभवं
नान्येन क्षतिरस्य यत्किल परे सत्यन्यथा च स्थिता ॥
यद्वान्ये न भवेयुरेवमपि को लाभोऽस्य तद्वद्गतिः पुंसामित्याभिदां भिदां च न वयं निर्बद्ध्य निश्चिन्महे॥४॥ इति॥
शङ्कराचार्य-विवरणम्
सूत्रम्
आत्मलाभान्न परं विद्यते ॥२॥
प्रस्तावः
पुत्रवित्तादिलाभो हि परो दृष्टो लोके । किमात्मलाभेन ? इत्यत आह—
टिप्पनी
आत्मलाभाद् आत्मनः परस्य स्वरूपप्रतिपत्तेः न परं लाभान्तरं विद्यते । तथा विचारितं वृहदारण्यके(१) तदेतत् प्रेयः पुत्राद्’ इत्यादिना ॥२॥
03 तत्रात्मलाभीयाञ्श्लोकानुदाहरिष्यामः ...{Loading}...
तत्रात्मलाभीयाञ् श्लोकान् उदाहरिष्यामः ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- We shall quote the verses (from the Veda) 7 which refer to the attainment of (the knowledge of) the Ātman.
हरदत्त-टीका
सूत्रम्
तत्राऽऽत्मलाभीयाञ्च्छ्लोकानुदाहरिष्यामः ॥ ३ ॥
टिप्पनी
तदिहापेक्षितमात्मज्ञानमुपदिश्यते । तच्च त्रिविधम्- श्रुतं मननं निदिध्यासनमिति । 2श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रवणात् । तत्र श्रुतमुपनिषदादिशब्दजन्यं ज्ञानम् । मननमुपपत्तिभिर्निरूपणम् । एवं श्रुते मते चात्मनि साक्षात्कारहेतुरविक्षिप्तेन चेतसा निरन्तरं भावना3निदिध्यासनम्। तत्राऽऽत्मसिद्धये श्रोतं ज्ञानं तावदाह—
तत्रेति वाक्योपन्यासे । आत्मलाभीयानात्मलाभप्रयोजनान् । अनुप्रवचनादिषु दर्शनाच्छप्रत्ययः । श्लोकान् पादबद्धानोपनिषदान् मन्त्रान् । उदाहरिष्यामः उद्धृत्याहरिष्यामः ग्रन्थे निवेशयिष्यामः ॥३॥
शङ्कराचार्य-विवरणम्
सूत्रम्
तत्राऽऽत्मलाभीयाञ्च्छ्लोकानुदाहरिष्यामः ॥ ३ ॥
टिप्पनी
सत्य क्रोधादयो दोषा आत्मलाभप्रतिबन्धभूता अक्रोधादिभिर्निर्ह(न्य?ण्य)न्ते; तथापि न मुलोद्वर्तनेन निवृत्तिः क्रोधादीनाम्, सर्वदोषबीजभूतमज्ञानं न निवृत्तमिति तस्य चानिवृत्तौ बीजस्याऽनिवर्तितत्वात् सकृन्निवृत्ता अपि क्रोधादयो दोषाः पुनरुद्भविष्यन्तीति संसारस्याऽऽत्यन्तिकोच्छेदो न स्यात् । तद्दोषबीजभूतस्याऽज्ञानस्य मतान् , ज्ञानादन्यतो न निवृत्तिरित्यात्मस्वरूपप्रकाशनायात्मज्ञानाय मतान् शाखान्तरोपनिषद्भयः, तत्र तस्मिन् आत्मलाभप्रयोजने निमित्ते । आत्मानं करतलन्यस्तमिव ल(म्भि ? भयि)तुं समर्थान् आत्मलाभीयान् श्लोकानुदाहरिष्यामः उद्धृत्याऽऽहरिष्यामः । ग्रन्थीकृत्य दर्शयिष्याम इत्यर्थः ॥ ३॥
04 पूः प्राणिनः सर्व ...{Loading}...
पूः प्राणिनः सर्व एव गुहाशयस्य । अहन्यमानस्य विकल्मषस्य ।
अचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- All living creatures are the dwelling of him who lies enveloped in matter, who is immortal and who is spotless. Those become immortal who worship him who is immovable and lives in a movable dwelling. 8
हरदत्त-टीका
सूत्रम्
पूः प्राणिनः सर्व एव गुहाशयस्याऽहन्यमानस्य विकल्मषस्याऽचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः॥ ४ ॥
टिप्पनी
गुहेति प्रकृतिनाम।
‘यत्तस्मृतं कारणमप्रमेयं ब्रह्म प्रधान प्रकृतिप्रसूतिः।
आत्मा गुहा योनि9रनाद्यनन्त क्षेत्रं तथैवामृतमक्षरं च ॥इति
पुराणे दर्शनात् । तस्यां शेते तया सहाऽऽविभागमापन्नास्तिष्ठतीति गुहाशय आत्मा ।
6 अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः, इति च मन्त्रान्तरम् । अहन्यमानस्य न ह्यसौ शरीरे हन्यमानेऽपि हन्यते 2तथा चोक्तं भगवता-3 न हन्यते हन्यमाने शरीर’ इति । विकल्मषस्य निर्लेपस्य। सर्व एव हि धर्माधर्मादिरन्तःकरणस्य धर्मः, आत्मनि त्वध्यस्तः। एवंभूतस्यात्मनः सर्व एव प्राणिनः ब्रह्माद्यास्तिर्यगन्ताः प्राणादिमन्तः संघाता पूः पुरं उपभोगस्थानम् । यथा राजा पुरमधिवसन् सचिवैरानीतान् भोगानुपभुङ्क्ते, तथाऽयं देवादिशरीरमधिवसन् करणैः रुपस्थापितान् भोगानुपभुङ्क्ते । तमेव भूतमचलं सर्वगतत्वेन निश्चलम् । चलनिकेतं निकेतं स्वस्थान शरीरं तद्यस्य चलं तं येऽनुतिष्ठन्ति उपासते एवंभूतोऽहमिति प्रतिपद्यन्ते, तेऽमृताः मुक्ता भवन्तीति ।’ ४॥
शङ्कराचार्य-विवरणम्
सूत्रम्
पूः प्राणिनः सर्व एव गुहाशयस्याऽहन्यमानस्य विकल्मषस्याऽचलं चलनिकेतं येऽनुतिष्ठन्ति तेऽमृताः ॥ ४ ॥
टिप्पनी
पूः पुरं शरीरम् । प्राणिनः प्राणवन्तः। सर्व एव ब्रह्मादीनि स्तम्बपर्यन्तानि प्राणिनः । पुरं पुरमिव राज्ञः उपलब्ध्याधिष्ठानम् । कस्य पुरम् ? गुहाशयस्याऽऽत्मनः । यथा स्वकीयपुरे राजा सचिवादिपरिवृत उपलभ्यते, एवं देहेष्वात्मा बुधादिकरणसंयुक्त उपलभ्यते । उपलभते च बुद्ध्यादिकरणोपसंहृतान् भोगान् । अतोऽविद्यावरणात्मभूतायां बुद्धिगुहायां शेत इति गुहाशयः । तस्य पुरम् । तस्यां बुद्धावविद्यादिदोषमलापनये विद्वद्भिस्त्यक्तैषणैरुपलभ्यते । इदमपरं विशेषणं गुहाशयस्याऽहन्यमानस्य, छेदनभेदनजरारोगादिभिर्हन्यमाने देहे न हन्यते । (१) न वधेनाऽस्य हन्यते’ इतिच्छान्दोग्ये । तस्य विकल्मषस्य, कल्मषं पापं तदस्य नास्तीति विकल्मषः । सर्वं ह्यविद्यादोषसहितं धर्माधर्माख्यं कर्म कल्मषं भवति, विकल्मषस्येति विशेषणेन तत् प्रतिषिध्यते तत्कार्यं जरारोगादिदुःखरूपमहन्यमानस्येति । एवं हेतुफलसम्बन्धरहितस्याऽसंसारिण उपलब्ध्यधिष्ठानं पूः सर्वे प्राणिनः । अतो न संसार्यन्यो ऽस्ति । (२) एको देवः सर्वभूतेषु ‘गूढ’ इति श्वेताश्वतरे। (३)“एष सर्वेषु भूतेषु गुढोऽऽत्मा न प्रकाशते” इति च काठके । (४) नान्यदतोऽस्ति द्रष्टा’ इत्यादि वाजसनेयके । (१) ‘स आत्मा तत्त्वमसी’ति च छान्दोग्ये । पूर्वार्धेन ब्रह्मणो याथात्म्यमुक्त्वोत्तरार्धेन तद्विज्ञानवतस्तद्विज्ञानफलमाह-यस्य सर्वे प्राणिनः पुरा अहन्यमानस्य विकल्मषस्य, तस्य सर्वप्राणिसम्बन्धादर्थसिद्धमाकाशवत् सर्वगतत्वम्, ‘आकाशवत् सर्वगतश्च नित्य’ इति च श्रुतेः। सर्वगतस्य चाऽचलत्वमर्थसिद्धमेव । तमचलं चलनिकेतं चलायां हि प्राणिगुहायां स्वयं शेते तमचलं चलनिकेतम् । येऽनुतिष्ठन्ति ममात्मेति साक्षात् प्रतिपद्यन्ते, तेऽमृताः अमरणधर्माणो भवन्ति ॥ ४॥
- १. छा. उ. ८ १० ४.
- २. श्वेता. उ. ६. ११.
- ३. कठो. १. ३, १२.
- ५, छा. ६. ८. ९.
- ४. बृ. उ. ३.८.११
05 यदिदमिदिहेदिह लोके विषयमुच्यते ...{Loading}...
यदिदमिदिहेदिह लोके विषयमुच्यते । विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Despising all that which in this world is called an object (of the senses) a wise man shall strive after the (knowledge of the) Ātman. 10
हरदत्त-टीका
सूत्रम्
यदिदमिदिहेदिह लोके विषयमुच्यते।
विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ॥ ५ ॥
प्रस्तावः
विषयसङ्गपरित्यागेनाऽयमुपास्य इत्याह —
टिप्पनी
यदिदं, विषयं, मेतदिति सर्वत्र लिङ्गव्यत्ययश्छान्दसः। एवमितिशब्दे तकारस्य दकारः । इतिशब्दः प्रसिद्धौ । हशब्द आश्चर्ये । इतिशब्देनावृत्तेन शब्दादिषु विषयेष्ववान्तरप्रकारभेदः प्रतिपाद्यते। विषयापहृतचेतसो हि वदन्ति- ‘इति ह तस्या गीतम् , इति ह तस्याः सुखस्पर्शः, इति ह तस्या रूपं निष्टप्तमिव कनकम्, इति ह तस्याः स्वादिष्ठोऽधरमणिः, इति ह तस्या गन्धो घ्राणतर्पण’ इति । एवं दिव्यमानुषभेदोऽपि द्रष्टव्यः। अत्राऽनन्तरमपर इतिशब्दोऽध्याहार्यः । इति ह इति हेति यो ऽयं लोके विषय उच्यते, सामान्यापेक्षमेकवचनम् , एतद्विधूय गुहाशयमनुतिष्ठेत् । कविर्मेधावी ॥५॥
शङ्कराचार्य-विवरणम्
सूत्रम्
यदिदमिदिहेदिह लोके विषयमुच्यते।
विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ॥ ५ ॥
प्रस्तावः
कथं तदनुष्ठानमिति ? उच्यते —
टिप्पनी
यदिदं प्रत्यक्षतोऽवगम्यमानं स्त्र्यन्नपानादिसंभोगलक्षणम् । इदिति किञ्चिदर्थे । यत्किञ्चिदिदं प्रत्यक्षम् । इहाऽस्मिन् लोके। विषयम् । इदंशब्दसामानाधिकरण्यान्नपुंसकलिङ्गप्रयोगो विषयमिति । उभयालिङ्गो वा विषयशब्दः । द्वितीय इच्छब्द इहशब्दश्च । तयोः क्वचिन्नियोगः । इच्छब्दश्चार्थे । इहशब्दोऽमुष्मिन्नर्थे । लोकशब्दः काकाक्षिवदुभयत्र सम्बध्यते । इह लोके इह च लोकेऽमुष्मिंश्च यदिदं विषयमुच्यते, स्वर्गादिलोके पार्श्वस्थमध्यस्थो व्यपदिशति इह लोके इति च लोके इत तत्सर्वं विधूय परित्यज्य । कविः क्रान्तदर्शी, मेधावीत्यर्थः । फलं साधनं च तद्विधूय एषणात्रयाद् व्युत्थायेत्यर्थः । अनुतिष्ठेद् गुहाशयं यथोक्तलक्षणमात्मतत्वम् ॥५॥
06 आत्मन्न् एवाहमलब्ध्वैतद्धितं सेवस्व ...{Loading}...
आत्मन्न् एवाहमलब्ध्वैतद्धितं सेवस्व नाहितम् । अथान्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया । महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- O pupil, I, who had not recognised in my own self the great self-luminous, universal, (absolutely) free Ātman, which must be obtained without the mediation of anything else, desired (to find) it in others (the senses). (But now as I have obtained the pure knowledge, I do so no more.) Therefore follow thou also this good road that leads to welfare (salvation), and not the one that leads into misfortune (new births). 11
हरदत्त-टीका
सूत्रम्
आत्मन्नेवाऽहमलब्ध्वैतद्धितं सेवस्व नाऽहितम् ।
अथाऽन्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया ।
महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ॥ ६ ॥
प्रस्तावः
विषयत्यागे हेतुमाह—
टिप्पनी
शिष्यं प्रत्याचार्यस्य वचनमेतत्। द्वौ चात्र हेतू विषयाणां त्यागे-पराधीनत्वमाहितत्वं च । महान्त गुणतः। तेजसस्कायं तेजसश्शरीरं तेजोराशिं स्वयंप्रकाशम् । 6 ‘आत्मज्योतिः सम्राडिति होवाचे’ति बृहदारण्यकम्। सर्वत्र निहितं सर्वगतम् । प्रभुं स्वतन्त्रम् । एवंभूतं गुहाशयं एतावन्तं कालं अहमात्मन् , सप्तम्येकवचनस्य लुक्, आत्मनि । अस्मिन् मदीये सङ्घाते अन्यानपेक्षयैव लब्धुं योग्यमलब्ध्वा अथाऽन्येषु इन्द्रियादिषु तं तं विषयं प्रतीच्छामि लङथै लट्, प्रत्यैच्छम् । इदानीं तु तं लब्ध्वा न तथाविधोऽस्मि । त्वमप्येतदेव हितं साधुष्ठानं साधुमार्गं सेवस्व नाहितं विषयानुधावनमिति ॥ ६॥
शङ्कराचार्य-विवरणम्
सूत्रम्
आत्मन्नेवाऽहमलब्ध्वैतद्धितं सेवस्व नाऽहितम् ।
अथाऽन्येषु प्रतीच्छामि साधुष्ठानमनपेक्षया ।
महान्तं तेजसस्कायं सर्वत्र निहितं प्रभुम् ॥ ६ ॥
प्रस्तावः
तत् क्वाऽनुष्ठातव्यमिति । उच्यते—
टिप्पनी
आत्मन्नेव आत्मन्येव । प्रत्यगात्मा हि परमात्मा। सर्वं ह्यत्रानुष्ठेयम् । यदि देहादन्यत्राऽनुष्ठीयेत, सोऽनात्मा कल्पितः स्यात् । तस्माद् देहादिसङ्घात आत्मन्येव विधूय बाह्यासङ्गं गुहाशयमात्मतत्वमनुष्ठेयम् । किमन्येष्वननुष्ठेयमिति भगवतो मतम् ? बाढम्, प्रथममेव नान्येष्वनुष्ठेयमात्मतत्त्वम् । कथं तर्हि ? सर्वप्रयत्नेनाऽपि स्वदेहादिसङ्घाते यथोक्तमात्मतत्त्वं न लभेत, अथाऽहमन्येष्वादित्यादिषु प्रतीच्छामि अभिवाञ्छामि । साधुष्ठानं साधोः परमात्मनः उपलब्धिस्थानं, यत्र गुहाशायं ब्रह्मतत्वमनुष्ठेयम् । अनपेक्षयाऽन्यत् पुत्रवित्तलोकादिसुखं छित्वा निःस्पृहतया । न ह्यात्मानुष्ठानं बाह्यार्थाकाङ्क्षा च सह सम्भवतः । कस्मात् पुनरनेकान्यन्यानि हितप्रकाराण्यनपेक्ष्याऽत्मानुष्ठानमेव यत्नत आस्थीयत इत्यत आहाऽऽचार्यः- यथान्यान्यहितानि हितबुध्या परिगृहीतानि, न तथैवमात्मसेवनम् । किं तर्हि ? (ए)तद्धितमेव । तस्मात् सेवस्वेति । किंविशिष्टश्चाऽऽत्मा सेवितव्य इत्याह- महान्तम् अमितान्तम् अनन्त(र)त्वादबाह्यत्वाच्च महानात्मा, तं महान्तम् । गुणैर्वोपाधिसहचारिभिर्महान्तं, बृंहणमिति यद्वत् । तेजसस्कायं तेजःशरीरमित्यर्थः । चैतन्यात्मज्योतिःस्वरूपम् । तद्धि तेजसां तेजः । (१) ‘येन सूर्यस्तपति तेजसेद्धः’ (२) ‘तस्य भासा सर्वमिदं विभाति’ इति श्रुतेः। सर्वत्र सर्वदेहेषु ब्रह्मादिस्तम्बपर्यन्तेषु । निहितं स्थितम, उपलब्धिरूपेणाभिव्यक्तमित्यर्थः । न हि ब्रह्मणोऽभिव्यक्तिनिमित्तत्वव्यतिरेकेण कस्यचिदाधारत्वसम्भवः । निराधारं हि ब्रह्म, सर्वगतत्वोपपत्तेः । प्रभुं प्रभवति सर्वानीश्वरान् प्रति, अचिन्त्यशक्तित्वात् । एवमाद्यनन्तगुणविशिष्टमात्मानं सेवस्वेति ॥ ६॥
- १. तै. ब्रा. १३. ९. ७.
- २. मुण्ड, २. २. १०.
07 सर्वभूतेषु यो नित्यो ...{Loading}...
सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः । अनङ्गो ऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्शुचिः । स सर्वं परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- It is he who is the eternal part in all creatures, whose essence is wisdom, who is immortal, unchangeable, destitute of limbs, of voice, of the (subtle) body, 12 (even) of touch, exceedingly pure; he is the universe, he is the highest goal; (he dwells in the middle of the body as) the Vishuvat day is (the middle of a Sattra-sacrifice); he, indeed, is (accessible to all) like a town intersected by many streets.
हरदत्त-टीका
सूत्रम्
सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः ।
अनङ्गोऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्च्छुचिः।
स सर्वां परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ॥७॥
प्रस्तावः
पुनरप्यसौ कीदृश इत्याह—
टिप्पनी
सर्वभूतेषु मनुष्यादिषु सङ्घातेषु यो नित्यः विनश्यत्स्वपि न विनश्यति विपश्चित् मेधावी चित्स्वरूपः। अमृतः नित्यत्वादेवाऽमरणधर्मा । अतः ध्रुवः एकरूपः, विकाररहितः । न प्रधानवाद्विकारिणस्सतो धार्मरूपेणाऽस्य नित्यत्वमित्यर्थः । अनङ्गः करचरणाद्यङ्गरहितः । अशब्दोऽस्पर्श इति भूतगुणानामुपलक्षणम् । शब्दादिगुणरहितः अशरीरः सूक्ष्मशरीरेणाऽपि वर्जितः। महाञ्च्छुचिः महत्त्वं शौचस्य विशेषणम् । परमार्थतोऽत्यन्तशुद्धः। स सर्वं प्रकृत्यभेदद्वारेण । स एव परमा काष्ठा, ततः परं गन्तव्याभावाद । स वैषुवतं विषुवान्नाम गवामयनस्य मध्ये भवमहः । ‘एकविंशमेतदहरुपयन्ति विषुवन्तं मध्ये सम्वत्सरस्ये’ति दर्शनात् । विषुवानेव वैषुवतम् ।
तद्यथा सम्वत्सरस्य मध्ये भवति एवमङ्गानामेष मध्ये । 6 मध्यं ह्येषामङ्गानामात्मेति बह्वृचब्राह्मणम् । स एव च वैभाजनं पुरं विविधैर्मार्गैर्भजनीयं विभजनम् । तदेव वैभाजनं प्रज्ञादिरनुशतिकादिश्च । यथा समृद्धं पुरं सर्वैरर्थिभिः प्राप्यमेवमयमपीति ॥७॥
शङ्कराचार्य-विवरणम्
सूत्रम्
सर्वभूतेषु यो नित्यो विपश्चिदमृतो ध्रुवः ।
अनङ्गोऽशब्दोऽशरीरोऽस्पर्शश्च महाञ्च्छुचिः।
स सर्वां परमा काष्ठा स वैषुवतं स वै वैभाजनं पुरम् ॥७॥
टिप्पनी
विशिष्टमात्मानं सेवस्वेति क्रियापदमनुवर्तते । किं च सर्वभूतेषु ब्रह्मादिष्वनित्येषु यो नित्योऽविनाशी । विपश्चिन्मेधावी, सर्वज्ञ इत्यर्थः । अमृतोऽत एव । यो ह्यनित्योऽसर्वज्ञः स मर्त्यो दृष्टः, अयं तु तद्विपरीतत्वादमृतः। ध्रुव अविचलः । निष्कम्पस्वभाव इत्यर्थः । अनङ्गः स्थूलशरीररहित इत्यर्थः । स्थूले हि शरीरे शिरआद्यङ्गानि सम्भवन्ति । अशरीर इति लिङ्गशरीरवर्जित इत्येतत् । अशब्दः नाऽस्य शब्दगुणः सम्भवति । शब्दविद्धि सन् अन्यथा शब्दात्मकः शब्दात्मकमेव विजानीयात् । न चैतदस्ति । अतोऽशब्दः । तथा अस्पर्शः आकाशवायुभूतद्वयगुणप्रतिषेधेन शब्दादयो गन्धावसानाः सर्वभूतगुणाः प्रतिषिद्धा वेदितव्याः। तत इदं सिद्धमाकाशादपि सूक्ष्मत्वम् । शब्दादिगुणबाहुल्याद्वाय्वादिषु स्थौल्यतारतम्यमुपलभ्यते। शब्दादिगुणाभावान्निरतिशयसूक्ष्मत्वं सर्वगतत्वादि चाऽऽप्रतिबन्धेन धर्मजातं तर्केणाऽपि शक्यं स्थापयितुम् ।
- १. बृह.उ. ४. ३ ६. अत्र पाठभेदो दृश्यते.
महान्, अत एव शुचिर्निरञ्जनः। अथवा शुचिः पावन इत्यर्थः । शुचि हि वस्तु पावनं दृष्टम् , यथा लोके वाय्वग्न्यादि । किञ्च य आत्मा प्रकृतः, स सर्वम् । (१)‘इदं सर्वं यदयमात्मे’ति हि वाजसनेयके । न ह्यात्मव्यतिरेकेण किञ्चिन्निरूप्यमाणमुपपद्यते । अत एव परमा प्रकृष्टा । काष्ठा अवसानम् । (२) ‘सा काष्ठा सा परा गति’रिति काठके । संसारगतीनां अवसानं निष्ठा समाप्तिरित्यर्थः । स वैषुवतं मध्यं सर्वस्य, सर्वान्तरश्रुतेः। विषुवत्सु वा(३) दिवाकीर्त्येषु मन्त्रेषु नित्यं प्रकाश्यं भवतीति वैषुवतः । स परमात्मा ।
ननु स सर्वं परमा काष्ठा सा वैषुवत’मित्युक्तम् । कस्मात् पुनस्तदात्मतत्त्वं विभक्तमुपलभ्यत इति । उच्यते- स परमात्मा वैभाजनं, विभाकर्विभजनं विवेकः आत्मनो यस्मिन् देहे क्रियते, तत् । विभाजनमेव वैभाजनम् । आत्मनो विवेकोपलब्ध्यधिष्ठानं हि शरीरम् । तच्चाऽनेकधा विभक्तम् । तदुपाध्यनुवर्तित्वाद् वैभाजनम् सर्वथा शुद्धमेव सर्वैर्नोपलभ्यते । किं तर्हि ? विभक्तो विपरीतश्चोपलभ्यते ॥ ७॥
08 तं योऽनुतिष्ठेत्सर्वत्र प्राध्वञ् ...{Loading}...
तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चास्य सदाचरेत् । दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who meditates on him, and everywhere and always lives according to his (commandments), and who, full of devotion, sees him who is difficult to be seen and subtle, will rejoice in (his) heaven. 13
हरदत्त-टीका
सूत्रम्
तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चाऽस्य सदाऽऽचरेत् ।
दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥८॥
टिप्पनी
तमेवंभूतमात्मानं योऽनुतिष्ठेदुपासीत यश्चाऽस्य सर्वत्र सर्वास्ववस्थासु सदा प्राध्वमानुकूल्यमाचरेत् । आनुकूल्य प्रतिषिद्धवर्जनं नित्यनैमित्तिककर्मानुष्ठानं च। यश्च दुर्दशं निपुणं2 सूक्ष्मतः युक्तः समाहितो भूत्वा पश्येत् साक्षात्कुर्यात् । सः विष्टपे विगततापे स्वे महिम्नि स्थितो मोदेत सर्वदुःखवर्जितो भवति । संसारदशायां वा तिरोहितं निरतिशयं स्वमानन्दमनुभवतीति ॥८॥
॥ इत्यापस्तम्बसुत्रवृत्तावुज्जलायां द्वाविंशी कण्डिका ॥ २२ ॥
शङ्कराचार्य-विवरणम्
सूत्रम्
तं योऽनुतिष्ठेत्सर्वत्र प्राध्वं चाऽस्य सदाऽऽचरेत् ।
दुर्दर्शं निपुणं युक्तो यः पश्येत्स मोदेत विष्टपे ॥८॥
टिप्पनी
अतस्तदुपाध्यनुवर्तिस्वभावदर्शनमविद्याख्यं हित्वा विद्यया शास्त्रजनितदर्शनेन तं यथोक्तलक्षणमात्मानमनुतिष्ठेत् । सर्वत्र सर्वस्मिन् काले। किञ्च न केवलमनुष्ठानमात्रमस्य । प्राध्वं बन्धनम् आत्मैकत्वरसप्रज्ञतां स्थिरां बाह्यैषणाव्यावृत्तरूपां सर्वसन्यासलक्षणम् । तद्धि बन्धनं विदुषो ब्रह्मणि । एवं हि बद्धो ब्रह्मणि संसाराभिमुखो नाऽऽवर्तते । तस्माद् बन्धनं चाऽस्य सदाऽऽचरेत् । तदनुष्ठानबन्धने सदाचरतः किं स्यादिति ? उच्यते- दुर्दर्श दुःखेन ह्येषणात्यागादिना स दृश्यत इति दुर्दर्शम् । निपुणं यस्माद्धि दुर्दर्शं तस्मान्निपुणम् । अत्यन्तकौशलेन समाहितचेतसा युक्तो यः पश्येत् साक्षादुपलभेत्-अहमात्मेति, स मोदेत् । एवं दृष्टा हर्षमानन्दलक्षणं प्राप्नुयात् । विष्टपे विगतसन्तापलक्षणेऽस्मिन् ब्रह्मणीत्यर्थः ॥ ८ ॥
-
- The knowledge of the Vedānta and the means which prepare men for the knowledge of the Ātman, the ‘Self, the universal soul,’ are placed in this Paṭala at the head of the penances, because they are most efficacious for the removal of all sin. The means are absence of anger &c., which are enumerated I, 8, 23, 6.
-
Haradatta gives in his commentary a lengthy discussion on the Ātman, which corresponds nearly to Śaṅkara’s Introduction to and Commentary on the first Sūtra of Bādarāyaṇa. ↩︎
-
According to Haradatta, the following verses are taken from an Upaniṣad. ↩︎
-
The spotless one &c. is the Paramātman. The spots are merit and demerit which, residing in the Manas, the internal organ of perception, are only falsely attributed to the Ātman, ’the soul.’ To become immortal means ’to obtain final liberation.’ ↩︎
-
अनाद्यनन्त इति. ख. पुस्तके ↩︎
-
It seems to me that Haradatta’s explanation of the words ‘idam idi ha idi ha’ is wrong. They ought to be divided thus, ‘idamid, iha id, iha loke.’ The general sense remains the same, and there is no necessity to assume very curious and otherwise unknown Vedic forms. ↩︎
-
The verse is addressed by a teacher to his pupil. My translation strictly follows Haradatta’s gloss. But his interpretation is open to many doubts. However, I am unable to suggest anything better. ↩︎
-
The Sutra contains a further description of the Paramātman. ↩︎
-
Haradatta explains the word viṣṭap, ‘heaven,’ by ‘pain-freed greatness,’ apparently misled by a bad etymology. The heaven of the Ātman is, of course, liberation, that state where the individual soul becomes merged in the Brahman or Paramātman, which is pure essence, intelligence and joy. ↩︎