२१ पतनीयानि, अशुचिकराणि

विश्वास-प्रस्तुतिः …{Loading}…

मुञ्जबल्बजैर्मूलफलैः १

विश्वास-प्रस्तुतिः …{Loading}…

तृणकाष्ठैरविकृतैः २

विश्वास-प्रस्तुतिः …{Loading}…

नात्यन्तमन्ववस्येत् ३

विश्वास-प्रस्तुतिः …{Loading}…

वृत्तिं प्राप्य विरमेत् ४

विश्वास-प्रस्तुतिः …{Loading}…

न पतितैः संव्यवहारो विद्यते ५

विश्वास-प्रस्तुतिः …{Loading}…

तथापपात्रैः ६

विश्वास-प्रस्तुतिः …{Loading}…

अथ पतनीयानि+++(←द्विजातिकर्मभ्यो हानिः पतनम्)+++ ७

विश्वास-प्रस्तुतिः …{Loading}…

स्तेयम्, आभिशस्त्यं +++(←ब्रह्महत्यादिभिर् वक्ष्यमाणैः)+++,
पुरुष-वधो, ब्रह्मोज्झं+++(=वेद-त्यागः)+++,
गर्भ-शातनम्,
मातुः पितुर् इति योनि-संबन्धे सहापत्ये स्त्री-गमनं,
सुरा-पानम्, असंयोग-संयोगः ८

विश्वास-प्रस्तुतिः …{Loading}…

गुर्वी-सखिं गुरु-सखिं च गत्वा
ऽन्यांश् च पर-तल्पान् ९

विश्वास-प्रस्तुतिः …{Loading}…

नागुरुतल्पे पततीत्येके १०

विश्वास-प्रस्तुतिः …{Loading}…

अधर्माणां तु सततम् आचारः ११

विश्वास-प्रस्तुतिः …{Loading}…

अथाशुचिकराणि १२

विश्वास-प्रस्तुतिः …{Loading}…

शूद्र-गमनम् आर्य-स्त्रीणाम् १३

विश्वास-प्रस्तुतिः …{Loading}…

प्रतिषिद्धानां मांस-भक्षणम् १४

विश्वास-प्रस्तुतिः …{Loading}…

+++(यथा -)+++ शुनो मनुष्यस्य च
कुक्कुट-सूकराणां ग्राम्याणां, क्रव्यादसाम् १५

विश्वास-प्रस्तुतिः …{Loading}…

मनुष्याणां मूत्र-पुरीष-प्राशनम् १६

विश्वास-प्रस्तुतिः …{Loading}…

शूद्रोच्छिष्टम्,
+++(प्रतिलोमाद्य्-)+++अपपात्रा-गमनं चार्याणाम् १७

विश्वास-प्रस्तुतिः …{Loading}…

एतान्यपि पतनीयानीत्य् एके १८

विश्वास-प्रस्तुतिः …{Loading}…

अतोऽन्यानि दोषवन्त्य् अशुचिकराणि भवन्ति १९

विश्वास-प्रस्तुतिः …{Loading}…

दोषं बुद्ध्वा
न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्,
वर्जयेत् त्व् एनं धर्मेषु २०

इति सप्तमः पटलः


    1. ‘Since it is known that Muñja and Balbaja are kinds of grass, it may be inferred from their being especially mentioned (in Sūtra 1) that objects made of them (may be also sold).’–Haradatta.
     ↩︎
  1. गौ० ध० ७. २२, २३ ↩︎

  2. म० स्मृ० १०-१०४ ↩︎

  3. Yājñ. III, 35. ↩︎

  4. Manu XI, 180. ↩︎

  5. म० स्मृ० ११.१८० ↩︎

  6. Regarding the definition of the word Apapātra, see above, I, 5, 16, 29. ↩︎

  7. The crimes by which a person becomes Abhiśasta are enumerated below, I, 9, 24, 6 seq., where an explanation of the term will be given. ↩︎

  8. म० स्मृ० ११ ९४. ↩︎

  9. Regarding the ‘male Gurus’ see above. By ‘female Gurus’ their wives are meant. ↩︎

  10. I.e. he need not perform so heavy a penance. ↩︎

  11. ‘That is to say, he is not to invite the sinner to dinners, given at the occasion of religious ceremonies.’–Haradatta. ↩︎