01 मुञ्जबल्बजैर्मूलफलैः ...{Loading}...
मुञ्जबल्बजैर्मूलफलैः १
सर्वाष् टीकाः ...{Loading}...
Bühler
- With Muñja-grass, Balbaja-grass (and articles made of them), roots, and fruits,
हरदत्त-टीका
सूत्रम्
मुञ्जबल्बजैर्मूलफलैः ॥ १ ॥
टिप्पनी
मुञ्जबल्वजास्तृणविशेषाः ॥ १ ॥
02 तृणकाष्ठैरविकृतैः ...{Loading}...
तृणकाष्ठैरविकृतैः २
सर्वाष् टीकाः ...{Loading}...
Bühler
- And with (other kinds of) grass and wood which have not been worked up (into objects of use). 1
हरदत्त-टीका
सूत्रम्
तृणकाष्ठैरविकृतैः ॥२॥
टिप्पनी
तृणानां विकारो रज्ज्वादिभावः । काष्ठानां विकारः स्थूणादिभावः । तृणत्वादेव सिद्धे मुञ्जबल्वजग्रहणं विकारार्थम् ॥ २॥
03 नात्यन्तमन्ववस्येत् ...{Loading}...
नात्यन्तमन्ववस्येत् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not be too eager (after such a livelihood).
04 वृत्तिम् प्राप्य विरमेत् ...{Loading}...
वृत्तिं प्राप्य विरमेत् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he obtains (another lawful) livelihood, he shall leave off (trading). 4
हरदत्त-टीका
सूत्रम्
वृत्तिं प्राप्य विरमेत् ॥ ४॥
टिप्पनी
गतम् ॥४॥
05 न पतितैः संव्यवहारो ...{Loading}...
न पतितैः संव्यवहारो विद्यते ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Intercourse with fallen men is not ordained, 5
हरदत्त-टीका
सूत्रम्
न पतितैस्संव्यवहारो विद्यते ॥५॥
टिप्पनी
पतिताः स्तेनादयो वक्ष्यमाणास्तैः सह न कश्चिदपि व्यवहार कर्तव्यः। तत्र मनुः6—
संवत्सरेण पतति पतितेन सहाऽऽचरन् ।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ इति ।
यानादिभिस्संवत्सरेण पतति । याजनादिभिस्तु सद्य एव ॥ ५ ॥
06 तथापपात्रैः ...{Loading}...
तथापपात्रैः ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor with Apapātras. 7
हरदत्त-टीका
सूत्रम्
तथाऽपपात्रैः ॥६॥
टिप्पनी
अपपात्राश्चण्डालादयः । तैश्च संव्यवहारो न कर्तव्यः ॥ ६ ॥
07 अथ पतनीयानि ...{Loading}...
अथ पतनीयानि+++(←द्विजातिकर्मभ्यो हानिः पतनम्)+++ ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now (follows the enumeration of) the actions which cause loss of caste (Patanīya).
हरदत्त-टीका
सूत्रम्
अथ पतनीयानि ॥ ७ ॥
टिप्पनी
द्विजातिकर्मभ्यो हानिः पतनं, तस्य निमित्तानि कर्माणि वक्ष्यन्ते ॥७॥
08 स्तेयम्, आभिशस्त्यं , ...{Loading}...
स्तेयम्, आभिशस्त्यं +++(←ब्रह्महत्यादिभिर् वक्ष्यमाणैः)+++,
पुरुष-वधो, ब्रह्मोज्झं+++(=वेद-त्यागः)+++,
गर्भ-शातनम्,
मातुः पितुर् इति योनि-संबन्धे सहापत्ये स्त्री-गमनं,
सुरा-पानम्, असंयोग-संयोगः ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- (These are) stealing (gold), crimes whereby one becomes an Abhiśasta, homicide, neglect of the Vedas, causing abortion, incestuous connection with relations born from the same womb as one’s mother or father, and with the offspring of such persons, drinking spirituous liquor, and intercourse with persons the intercourse with whom is forbidden. 8
हरदत्त-टीका
सूत्रम्
स्तेयमाभिशस्त्यं पुरुषवधो ब्रह्मोज्झं गर्भशातनं मातुः पितुरिति योनिसम्बन्धे सहापत्ये स्त्रीगमनं सुरापानमसंयोगसंयोगः ॥ ८॥
टिप्पनी
स्तेयं सुवर्णचौर्यम् । आभिशस्त्यं ब्रह्महत्या। ‘ब्राह्मणमात्रं च हत्वाभिशस्त’ (२४७.) इति वक्ष्यमाणत्वात् । पुरुषवधो मनुष्यजातिवधः । तेन स्त्रीवधोऽपि गृह्यते । ब्रह्मोज्झं उज्झ उत्सर्गे। भावे घञ्। छान्दसो लिङ्गव्यत्ययः । ब्रह्म वेदः तस्याऽधीतस्य नाशनं ब्रह्मोज्झम् । औषधादिप्रयोगेण गर्भस्य वधो गर्भशातनम् । मातुर्योनिसम्बन्धे मातृष्वस्रादौ । पितुर्योनिसम्बन्धे पितृष्वस्रादौ सहापत्ये अपत्येन सहिते स्त्रीगमनं मातृष्वसृगमनं तत्सुतागमनं मातुलसुतागमनं चेत्यर्थः ।
9 गौडी पैष्टी च माध्वी च विशेया त्रिविधा सुरा।
यथैवैका न पातव्या तथा सर्वा द्विजोत्तमैः ॥
इति मानवे निषिद्धायाः सुरायाः, पानं सुरापानम् । असंयोगाः, संयोगानर्हाः प्रतिलोमादयः । तैः संयोग एकगृहवासादिः असंयोगसंयोगः । एतानि पतनीयानि ॥८॥
09 गुर्वीसखिङ् गुरुसखिञ् च ...{Loading}...
गुर्वी-सखिं गुरु-सखिं च गत्वा
ऽन्यांश् च पर-तल्पान् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- That man falls who has connection with a female friend of a female Guru, or with a female friend of a male Guru, or with any married woman. 10
हरदत्त-टीका
सूत्रम्
गुर्वीसखिं गुरुसखिं च गत्वाऽन्यांश्च परतल्पान् ॥९॥
टिप्पनी
सखीशब्दस्य छान्दसो ह्रस्वः । गुर्वीसखी मात्रादीनां सखी। गुरुसखी पित्रादिनां सखी तां गत्वा । किम् ? पततीत्युत्तरत्र श्रुतमपेक्ष्यते। अन्याश्च परतल्पान् गत्वा पतति । तल्पशब्देन शपयनवाचिना दारा लक्ष्यन्ते ॥९॥
10 नागुरुतल्पे पततीत्येके ...{Loading}...
नागुरुतल्पे पततीत्येके १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some (teachers declare), that he does not fall by having connection with any other married female except his teacher’s wife. 11
हरदत्त-टीका
सूत्रम्
नाऽगुरुतल्पे पततीत्येके ॥ १० ॥
टिप्पनी
गुरुदारव्यतिरेकेण परतल्पगमने पातित्यं नास्तीत्येके मन्यन्ते । यद्यपि सामान्येन पतनीयानीत्युक्तम् , प्रायश्चित्ते तु गुरुलघुभावो द्रष्टव्यः ॥१०॥
11 अधर्माणान् तु सततम् ...{Loading}...
अधर्माणां तु सततम् आचारः ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- Constant commission of (other) sins (besides those enumerated above) also causes a man to lose his caste.
हरदत्त-टीका
सूत्रम्
अधर्माणां तु सततमाचारः ॥ ११ ॥
टिप्पनी
तुश्चार्थे । उक्तव्यतिरिक्तानामप्यधर्माणां सततमाचारः पतनहेतुः ॥११॥
12 अथाशुचिकराणि ...{Loading}...
अथाशुचिकराणि १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now follows (the enumeration of) the acts which make men impure (Asucikara).
हरदत्त-टीका
सूत्रम्
अथाऽशुचिकराणि ॥ १२ ॥
टिप्पनी
अशुचिं पुरुषं कुर्वन्तीत्यशुचिकराणि, तानि वक्ष्यन्ते ॥ १२ ॥
13 शूद्रगमनमार्यस्त्रीणाम् ...{Loading}...
शूद्र-गमनम् आर्य-स्त्रीणाम् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (These are) the cohabitation of Aryan women with Śūdras,
हरदत्त-टीका
सूत्रम्
शूद्रगमनमार्यस्त्रीणाम् ॥ १३ ॥
टिप्पनी
त्रैवर्णिकस्त्रीणां शूद्रगमनमशुचिकरम् ॥ १३ ॥
14 प्रतिषिद्धानाम् मांसभक्षणम् ...{Loading}...
प्रतिषिद्धानां मांस-भक्षणम् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Eating the flesh of forbidden (creatures),
हरदत्त-टीका
सूत्रम्
प्रतिषिद्धानां मांसभक्षणम् ॥ १४ ॥
टिप्पनी
येषां मांसं प्रतिषिद्धं तेषां मांसस्य भक्षणमशुचिकरम् ॥ १४ ॥
15 शुनो मनुष्यस्य च ...{Loading}...
+++(यथा -)+++ शुनो मनुष्यस्य च
कुक्कुट-सूकराणां ग्राम्याणां, क्रव्यादसाम् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- As of a dog, a man, village cocks or pigs, carnivorous animals,
हरदत्त-टीका
सूत्रम्
शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्रव्यादसाम्॥ १५ ॥
प्रस्तावः
तत्रोदाहरणम्—
टिप्पनी
ग्राम्याणामिति वचनादारण्यानामप्रतिषेधः । अदनमदः, भावेऽसुन्प्रत्ययः । क्रव्यविषयमदनं येषां ते क्रव्यादसः केवलं मांसवृत्तयो गृध्रादयः ॥ १५ ॥
16 मनुष्याणाम् मूत्रपुरीषप्राशनम् ...{Loading}...
मनुष्याणां मूत्र-पुरीष-प्राशनम् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Eating the excrements of men,
हरदत्त-टीका
सूत्रम्
मनुष्याणां मूत्रपुरीषप्राशनम् ॥ १६ ॥
टिप्पनी
मूत्रपुरीषग्रहणं तादृशस्य रेतसोऽप्युपलक्षणम् ॥ १६ ॥
17 शूद्रोच्छिष्टमपपात्रागमनञ् चार्याणाम् ...{Loading}...
शूद्रोच्छिष्टम्,
+++(प्रतिलोमाद्य्-)+++अपपात्रा-गमनं चार्याणाम् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Eating what is left by a Śūdra, the cohabitation of Aryans with Apapātra women.
हरदत्त-टीका
सूत्रम्
शद्रोच्छिष्टमपपात्रगमनं चाऽऽर्याणाम् ॥ १७ ॥
टिप्पनी
शूद्रोच्छिष्टं भुक्तमार्याणां त्रैवर्णिकानामशुचिकरम् । अपपात्राः प्रतिलोमस्त्रियः तासां च गमनम् ॥ १७॥
18 एतान्यपि पतनीयानीत्येके ...{Loading}...
एतान्यपि पतनीयानीत्य् एके १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that these acts also cause a man to lose his caste.
हरदत्त-टीका
सूत्रम्
एतान्यपि पतनीयानीत्येके ॥ १८ ॥
टिप्पनी
यान्येतान्यशुचिकरत्वेनाऽनुक्रान्तानि एतान्यपि पतनीयान्येवेत्येके मन्यन्ते ॥१८॥
19 अतोऽन्यानि दोषवन्त्यशुचिकराणि भवन्ति ...{Loading}...
अतोऽन्यानि दोषवन्त्य् अशुचिकराणि भवन्ति १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Other acts besides those (enumerated) are causes of impurity.
हरदत्त-टीका
सूत्रम्
अतोऽन्यानि दोषवन्त्यशुचिकराणि भवन्ति ॥१९॥
टिप्पनी
उक्तव्यतिरिक्तानि दोषवन्ति कर्माणि दुष्प्रतिग्रहहिंसादीनि तान्यशुचिकराणि भवन्ति ॥ १९ ॥
20 दोषम् बुद्ध्वा न ...{Loading}...
दोषं बुद्ध्वा
न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्,
वर्जयेत् त्व् एनं धर्मेषु २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He who learns (that a man has) committed a sin, shall not be the first to make it known to others; but he shall avoid the (sinner), when performing religious ceremonies. 12
हरदत्त-टीका
सूत्रम्
दोषं बुध्वा न पूर्वः परेभ्यः पतितस्य समाख्याने स्थाद्वर्जयेत्त्वेनं धर्मेषु ॥ २० ॥
टिप्पनी
पतितस्य दोषं परैरविदितं बुध्वा परस्य समाख्याने पूर्वो न स्यात् । परैरविदितं स्वयं विद्वानपि न परेभ्यः पूर्वमाचक्षीत । किं तु स्वयं धर्मकृत्येष्वेनं वर्जयेत् , यथा परे न जानन्ति । अन्यथा दोषवान् स्यात् ॥२०॥
इत्यापस्तम्बधर्मसूत्रवृत्तावेकविंशी कण्डिका ॥ २१ ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां प्रथमप्रश्ने सप्तमः पटल; ॥ ७ ॥
इति सप्तमः पटलः
-
- ‘Since it is known that Muñja and Balbaja are kinds of grass, it may be inferred from their being especially mentioned (in Sūtra 1) that objects made of them (may be also sold).’–Haradatta.
-
गौ० ध० ७. २२, २३ ↩︎
-
म० स्मृ० १०-१०४ ↩︎
-
Yājñ. III, 35. ↩︎
-
Manu XI, 180. ↩︎
-
म० स्मृ० ११.१८० ↩︎
-
Regarding the definition of the word Apapātra, see above, I, 5, 16, 29. ↩︎
-
The crimes by which a person becomes Abhiśasta are enumerated below, I, 9, 24, 6 seq., where an explanation of the term will be given. ↩︎
-
म० स्मृ० ११ ९४. ↩︎
-
Regarding the ‘male Gurus’ see above. By ‘female Gurus’ their wives are meant. ↩︎
-
I.e. he need not perform so heavy a penance. ↩︎
-
‘That is to say, he is not to invite the sinner to dinners, given at the occasion of religious ceremonies.’–Haradatta. ↩︎