२१

01 मुञ्जबल्बजैर्मूलफलैः ...{Loading}...

मुञ्जबल्बजैर्मूलफलैः १

02 तृणकाष्ठैरविकृतैः ...{Loading}...

तृणकाष्ठैरविकृतैः २

03 नात्यन्तमन्ववस्येत् ...{Loading}...

नात्यन्तमन्ववस्येत् ३

04 वृत्तिम् प्राप्य विरमेत् ...{Loading}...

वृत्तिं प्राप्य विरमेत् ४

05 न पतितैः संव्यवहारो ...{Loading}...

न पतितैः संव्यवहारो विद्यते ५

06 तथापपात्रैः ...{Loading}...

तथापपात्रैः ६

07 अथ पतनीयानि ...{Loading}...

अथ पतनीयानि+++(←द्विजातिकर्मभ्यो हानिः पतनम्)+++ ७

08 स्तेयम्, आभिशस्त्यं , ...{Loading}...

स्तेयम्, आभिशस्त्यं +++(←ब्रह्महत्यादिभिर् वक्ष्यमाणैः)+++,
पुरुष-वधो, ब्रह्मोज्झं+++(=वेद-त्यागः)+++,
गर्भ-शातनम्,
मातुः पितुर् इति योनि-संबन्धे सहापत्ये स्त्री-गमनं,
सुरा-पानम्, असंयोग-संयोगः ८

09 गुर्वीसखिङ् गुरुसखिञ् च ...{Loading}...

गुर्वी-सखिं गुरु-सखिं च गत्वा
ऽन्यांश् च पर-तल्पान् ९

10 नागुरुतल्पे पततीत्येके ...{Loading}...

नागुरुतल्पे पततीत्येके १०

11 अधर्माणान् तु सततम् ...{Loading}...

अधर्माणां तु सततम् आचारः ११

12 अथाशुचिकराणि ...{Loading}...

अथाशुचिकराणि १२

13 शूद्रगमनमार्यस्त्रीणाम् ...{Loading}...

शूद्र-गमनम् आर्य-स्त्रीणाम् १३

14 प्रतिषिद्धानाम् मांसभक्षणम् ...{Loading}...

प्रतिषिद्धानां मांस-भक्षणम् १४

15 शुनो मनुष्यस्य च ...{Loading}...

+++(यथा -)+++ शुनो मनुष्यस्य च
कुक्कुट-सूकराणां ग्राम्याणां, क्रव्यादसाम् १५

16 मनुष्याणाम् मूत्रपुरीषप्राशनम् ...{Loading}...

मनुष्याणां मूत्र-पुरीष-प्राशनम् १६

17 शूद्रोच्छिष्टमपपात्रागमनञ् चार्याणाम् ...{Loading}...

शूद्रोच्छिष्टम्,
+++(प्रतिलोमाद्य्-)+++अपपात्रा-गमनं चार्याणाम् १७

18 एतान्यपि पतनीयानीत्येके ...{Loading}...

एतान्यपि पतनीयानीत्य् एके १८

19 अतोऽन्यानि दोषवन्त्यशुचिकराणि भवन्ति ...{Loading}...

अतोऽन्यानि दोषवन्त्य् अशुचिकराणि भवन्ति १९

20 दोषम् बुद्ध्वा न ...{Loading}...

दोषं बुद्ध्वा
न पूर्वः परेभ्यः पतितस्य समाख्याने स्याद्,
वर्जयेत् त्व् एनं धर्मेषु २०

इति सप्तमः पटलः


    1. ‘Since it is known that Muñja and Balbaja are kinds of grass, it may be inferred from their being especially mentioned (in Sūtra 1) that objects made of them (may be also sold).’–Haradatta.
     ↩︎
  1. गौ० ध० ७. २२, २३ ↩︎

  2. म० स्मृ० १०-१०४ ↩︎

  3. Yājñ. III, 35. ↩︎

  4. Manu XI, 180. ↩︎

  5. म० स्मृ० ११.१८० ↩︎

  6. Regarding the definition of the word Apapātra, see above, I, 5, 16, 29. ↩︎

  7. The crimes by which a person becomes Abhiśasta are enumerated below, I, 9, 24, 6 seq., where an explanation of the term will be given. ↩︎

  8. म० स्मृ० ११ ९४. ↩︎

  9. Regarding the ‘male Gurus’ see above. By ‘female Gurus’ their wives are meant. ↩︎

  10. I.e. he need not perform so heavy a penance. ↩︎

  11. ‘That is to say, he is not to invite the sinner to dinners, given at the occasion of religious ceremonies.’–Haradatta. ↩︎