01 नेमं लौकिकमर्थम् पुरस्कृत्य ...{Loading}...
नेमं लौकिकम्-अर्थं पुरस्कृत्य
धर्मांश् चरेत् १
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not fulfil his sacred duties
merely in order to acquire these worldly objects (as fame, gain, and honour).
हरदत्त-टीका
सूत्रम्
नेमं लौकिकमर्थं पुरस्कृत्य धमांश्चरेत् ॥१॥
टिप्पनी
इमं लौकिकं लोके विदितं ख्यातिलाभपूजात्मकम् , अर्थं प्रयोजनम् । पुरस्कृत्य अभिसन्धाय । धर्मान्न चरेत् ॥ १॥
02 निष्फला ह्यभ्युदये भवन्ति ...{Loading}...
निष्फला ह्य् अभ्युदये भवन्ति २
सर्वाष् टीकाः ...{Loading}...
Bühler
- For when they ought to bring rewards, (duties thus fulfilled) become fruitless.
03 तद्यथाम्रे फलार्थे निर्मिते ...{Loading}...
तद् यथा ऽऽम्रे फलार्थे निर्मिते
छाया गन्ध इत्य् अनूत्पद्येते,
एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Worldly benefits) are produced as accessories (to the fulfilment of the law), just as in the case of a mango tree, which is planted in order to obtain fruit, shade and fragrance (are accessory advantages).
हरदत्त-टीका
सूत्रम्
तद्यथाऽऽम्रे फलार्थे3निमित्ते छाया गन्ध इत्यनूत्पद्येते, एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते ॥३॥
प्रस्तावः
किमत्रेदानीं दृष्टं फलं त्याज्यमेव ? नेत्याह—
टिप्पनी
तदिति वाक्योपन्यासे । फलार्थं ह्याम्रवृक्षो निर्मीयते आरोप्यते । तस्मिन् फलार्थे4निमित्ते छाया गन्धश्चाऽनूत्पद्येते। एवं धर्मं चर्यमाणमर्थाः ख्यात्यादयोऽनूत्पद्यन्ते अनुनिष्पद्यन्ते । तथैव स्वीकार्या-5। न चोद्देश्यतया।
तथा चाह—
‘यथेक्षुहेतोः सलिलं प्रसेचयंस्तृणानि वल्लीरपि च प्रसिञ्चति ।
तथा नरो धर्मपथेन वर्तयन् यशश्च कामांश्च वसूनि चाऽश्नुते ॥ इति ॥३॥
04 नो चेदनूत्पद्यन्ते न ...{Loading}...
नो चेद् अनूत्पद्यन्ते,
न धर्म-हानिर् भवति ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- But if (worldly advantages) are not produced, (then at least) the sacred duties have been fulfilled.
हरदत्त-टीका
सूत्रम्
नो चेदनूत्पद्यन्ते न धर्महानिर्भवति ॥ ४ ॥
टिप्पनी
यद्यपि दैवादर्था नाऽनूत्पद्यन्ते तथापि धर्मस्तावद्भवति । स च स्वतन्त्रः पुरुषार्थः । किमन्यैरर्थैरिति ॥ ४ ॥
05 अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु ...{Loading}...
अन्-असूयुर्, दुष्-प्रलम्भः स्यात्
कुहक-शठ-नास्तिक-बाल-वादेषु ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him not become irritated at, nor be deceived by the speeches of hypocrites, of rogues, of infidels, and of fools.
हरदत्त-टीका
सूत्रम्
अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु ॥५॥
टिप्पनी
कुहकः प्रकाशे शुचिर्
एकान्ते यथेष्टचारी ।
शठः वक्रचित्तः ।
नास्तिकः 1प्रेत्यभावापवादी ।
बालः श्रुतरहितः।
एतेषां वादेषु अनसूयुः स्यात् ।
असूयया द्वेषो लक्ष्यते ।
द्वेष्टा न स्यात् ।
तान् विषयीकृत्य
द्वेषम् अपि न कुर्यात् ।
तथा दुष्प्रलम्भश्च स्यात् ।
प्रलम्भनं विलवादनं मिथ्या-फलाख्यानम् । 2
गृधिवञ्च्योः प्रलम्भन इति दर्शनात् । दुष्प्रलम्भो विसंवादयितुं
मिथ्याफलाख्यानेन प्रवर्तयितुम् अशक्यः । कुहकादिवादेषु वञ्चितो न स्यात् । तदशो न स्यादित्यर्थः ॥ ५॥
06 न धर्माधर्मौ चरत ...{Loading}...
न धर्माधर्मौ चरत
“आवं स्व” इति ।
न देव-गन्धर्वा, न पितर +++(पुर आगत्य)+++ इत्य् आचक्षते
“ऽयं धर्मो ऽयम् अधर्म” इति ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- For Virtue and Sin do not go about and say, ‘Here we are;’ nor do gods, Gandharvas, or Manes say (to men), ‘This is virtue, that is sin.’
हरदत्त-टीका
सूत्रम्
न धर्माधर्मौ चरत’आवं स्व’ इति, न देवगन्धर्वा न पितर इत्याचक्षते’ऽयं धर्मोऽयमधर्म, इति ॥ ६ ॥
प्रस्तावः
वञ्चनस्य सम्भवमाह—
टिप्पनी
आवमिति छान्दसं रूपम् । भाषायां तु3 प्रथमायाश्च द्विवचने भाषाया’मित्यात्वं प्राप्नोति । यदि हि धर्माधर्मौ विग्रहवन्तौ गोव्याघ्रवच्चरेतामावां स्व इति वाणी, यदि वा देवादयः प्रकृष्टज्ञाना ब्रूयुरिमौ धर्माधर्माविति ततः कुहकादिवादेषु न स्याद्व्यञ्चना । तदभावात्तु वञ्चनासम्भव इति । इदं चात्र द्रष्टव्यम्-प्रत्यक्षादेर्न गोचरौ धर्माधर्मौ। किंतु नित्यनिर्दोषवेदगम्यौ । तदभावे तन्मूलधर्मशास्त्रगम्याविति ॥ ६ ॥
07 यत्त्वार्याः क्रियमाणम् प्रशंसन्ति ...{Loading}...
यत् त्व् आर्याः
क्रियमाणं प्रशंसन्ति
स धर्मो,
यद् गर्हन्ते
सोऽधर्मः ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- But that is virtue, the practice of which wise men of the three twice-born castes praise; what they blame, is sin. 6
हरदत्त-टीका
सूत्रम्
यं त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मो, यं गर्हन्ते सोऽधर्मः ॥७॥
प्रस्तावः
यत्र तु प्रायश्चित्तादौ विषयव्यवस्था दुष्करा तत्र निर्णयमाह—
टिप्पनी
आर्याः शिष्टास्त्रैवर्णिकाः । बहुवचनाच्चत्वारस्त्रयो वा । यथाऽऽह याज्ञवल्क्यः—
4 चत्वारो वेदधर्मज्ञाः पर्षत्रैविद्यमेव वा ।
सा ब्रूते यं स धर्मस्स्यादेको वाऽध्यात्मवित्तमः ॥’ इति ॥७॥
08 सर्व-जन-पदेष्व् एकान्त-समाहितम् ...{Loading}...
सर्व-जन-पदेष्व् एकान्त-समाहितम्
आर्याणाम् वृत्तं
सम्यग् विनीतानां वृद्धानाम्
आत्मवताम्, अलोलुपानाम्, अदाम्भिकानां वृत्त-सादृश्यं भजेत ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall regulate his course of action according to the conduct which in all countries is unanimously approved by men of the three twice-born castes, who have been properly obedient (to their teachers), who are aged, of subdued senses, neither given to avarice, nor hypocrites. 7
हरदत्त-टीका
सूत्रम्
सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्यग्विनीतानां वृद्धानामात्मवत्तामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत ॥८॥
प्रस्तावः
इदानीं श्रुतिस्मृत्योः प्रत्यक्षयोरदर्शने शिष्टाचारादप्यवगम्य धर्मः कार्य इत्याह—
टिप्पनी
सम्यग्विनीताः । आचार्याधीनः स्या’(२.१९)दित्यादिना विनयनसम्पन्नाः । वृद्धाः परिणतवयसः। यौवने विषयवश्यताऽपि स्यादितीदमुक्तम् । आत्मवन्तो जितेन्द्रियाः। अलोलुपा अकृपणाः । अदाम्भिका अधर्मध्वजा, एकान्तप्रकाशयोरेकवृत्ताः । एवंभूतानामार्याणां सर्वजनपदेषु यदेकान्तेनाऽव्यभिचारेण समाहितमनुमतं वृत्तमनुष्ठानम् , न मातुलसुतापरिणयनवत्कतिपयविषयम्, तद्वृत्तसादृश्यं भजेत । तदनुरूपं चेष्टेत । न तेषामनुष्ठानं निर्मूलम् । सम्भवति च वैदिकानामुत्सन्नपाठब्राह्मणानुभव इति ॥ ८ ॥
09 एवम् उभौ लोकाव् ...{Loading}...
एवम् उभौ लोकाव् अभिजयति ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Acting thus he will gain both worlds.
हरदत्त-टीका
सूत्रम्
एवमुभौ लोकावभिजयति ॥९॥
टिप्पनी
एवं श्रुतिस्मृतिसदाचारमूलमनुष्ठानं कुर्वन् उभौ लोकावभिजयति इमं चाऽमुं च ॥ ९ ॥
10 अविहिता ब्राह्मणस्य वणिज्या ...{Loading}...
अविहिता ब्राह्मणस्य वणिज्या १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Trade is not lawful for a Brāhmaṇa.
हरदत्त-टीका
सूत्रम्
अविहिता ब्राह्मणस्य वणिज्या ॥ १० ॥
टिप्पनी
क्रयविक्रयव्यवहारो वणिज्या । सा स्वयं कृता ब्राह्मणस्य वृत्तिर्न विहिता प्राप्तानुवादोऽ1यमपवादविधानार्थः ॥१०॥
11 आपदि व्यवहरेत पण्यानामपण्यानि ...{Loading}...
आपदि व्यवहरेत पण्यानाम्
अपण्यानि व्युदस्यन् +++(=वर्जयन् [वक्ष्यमाणानि] …)+++ ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- In times of distress he may trade in lawful merchandise, avoiding the following (kinds), that are forbidden: 8
हरदत्त-टीका
सूत्रम्
आपदि व्यवहरेत पण्यानामपण्यानि व्युदस्यन् ॥ ११ ॥
टिप्पनी
ब्राह्मणवृत्तेरभाव आपत् । तस्यां सत्याम् । पण्यानाम् । 2व्यवहृपणो समर्थयो’रिति कर्मणि षष्ठी । व्यवहरेत । क्रयश्च विक्रयश्च व्यवहारः, पण्यानि क्रीणीयात् विक्रीणीत चेत्यर्थः । अपण्यानि वक्ष्यमाणानि व्युदस्यन् वर्जयन् । कृत्स्नाया वैश्यवृत्तेरुपलक्षणमिदम् । क्षत्रियवृत्तिश्च 3दण्डापूपिकया सिद्धा । तथा च गौतमः-4 तदलाभे क्षत्रियवृत्तिस्तदलाभे वैश्यवृत्ति’रिति ॥ ११॥
12 यान्रसान्रागान्गन्धानन्नञ् चर्म गवां ...{Loading}...
… मनुष्यान्,
रसान्, रागान्, गन्धान्,
अन्नं,
चर्म, गवां वशां+++(=वन्ध्य-गाम्)+++
श्लेष्म+++(=glue)++++उदके,
तोक्म+++(=अङ्कुराणि)+++-किण्वे+++(=सुरादि)+++
पिप्पलि+++(=रक्त-मरीच)+++-मरीचे
धान्यं, मांसम्,
आयुधं, सुकृताशां च १२+++(5)+++
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Particularly) men, condiments and liquids, colours, perfumes, food, skins, heifers, substances 9 used for glueing (such as lac), water, young cornstalks, substances from which spirituous liquor may be extracted, red and black pepper, corn, flesh, arms, and the hope of rewards for meritorious deeds.
हरदत्त-टीका
सूत्रम्
मनुष्यान् रसान् रागान् गन्धानन्नं चर्म गवां वशां श्लेमोदके तोक्मकिण्वे पिप्पलीमरीचे धान्यं मांसमायुधं सुकृताशां च ॥१२॥
प्रस्तावः
अपण्यान्याह—
टिप्पनी
मनुष्या दारदासादयः । रसा गुडलवणादयः, क्षीरादयो वा । रागाः कुसुम्भादयः रज्यन्तेऽनेनेति । रज्यन्त इति वा रागा वस्त्रादयः। गन्धाश्चन्दनादयः। गवां मध्ये वशा वन्ध्या गौः । श्लेष्म जतुवज्रादिः, येन विश्लिष्टं चर्मादि सन्धीयते। ‘यथा1 श्लेष्मणा चर्मण्यं वाऽन्यद्वा विश्लिष्टं सश्लेषये’दिति बहवृचब्राह्मणे दर्शनात् । उदकं कुम्भजलम् । तोक्मं ईषदङ्कुरितानि व्रीह्यादीनि । किण्वं सुराप्रकृतिद्रव्यम् । सुकृत पुण्यं तस्य फलं सुकृताशा । शिष्टानि प्रसिद्धानि । 2
एतान्यपण्यानि वर्जयित्वा अन्येषां पण्यानां व्यवहरेत । मनुष्यादीन्वर्जयित्वेत्येव सिद्धे ‘अपण्यानीति वचनमन्येषामप्यपण्यानां व्युदासार्थम् । तत्र मनुः—
3सर्वान् रसानपोहेत कृतान्नं च तिलैस्सह ।
अश्मनो लवणं चैव पशवो ये च मानुषाः ॥
सर्वं च तान्तवं रक्तं शाणझौमाविकानि च।
अपि चेत्स्युररक्तानि फलमूले तथौषधीः ॥
अपः शस्त्रं विषं मांसं सोम गन्धांश्च सर्वशः।
क्षीरं क्षौद्रं दधि घृतं तैलं मधुं गुडं कुशान् ॥ आरण्यांश्च पशून सर्वान् दंष्ट्रिणश्च वयांसि च ।
मद्यं नीलीं च लाक्षां च सर्वाश्चैकशफान पशुन् ।’ इति ॥ १२ ॥
13 तिलतण्डुलांस्त्वेव धान्यस्य ...{Loading}...
तिल-तण्डुलांस् त्व् एव धान्यस्य
विशेषेण न विक्रीणीयात् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Among (the various kinds of) grain he shall especially not sell sesamum or rice (except he have grown them himself). 10
हरदत्त-टीका
सूत्रम्
तिलतण्डुलांस्त्वेवं धान्यस्य विशेषेण न विक्रीणीयात् ॥१३॥
टिप्पनी
धान्यानां मध्ये तिलतण्डुलानेव विशेषतोऽतिशयेन न विक्रीणीयात् न विक्रीणीत । अन्येषां विकल्पः । स्वयमुत्पादितेषु नाऽयं प्रतिषेधः । मानवे हि श्रुतम् 4— ‘काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः। विक्रीणीत तिलाच्छुद्धान् धर्मार्थमचिरस्थितान् ॥ इति ॥१३॥
14 अविहितश्चैतेषाम् मिथो विनिमयः ...{Loading}...
अविहितश् चैतेषां मिथो विनिमयः १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- The exchange of the one of these (abovementioned goods) for the other is likewise unlawful.
हरदत्त-टीका
सूत्रम्
अविहितश्चैतेषां मिथो विनिमयः ॥ १४ ॥
टिप्पनी
विनिमयः परिवर्तनम् । येषां विक्रयः प्रतिषिद्धः तेषां परस्परेण विनिमयोऽप्यविहितः प्रतिषिद्धः, न कर्तव्य इत्यर्थः ॥१४॥
15 अन्नेन चान्नस्य मनुष्याणाञ् ...{Loading}...
अन्नेन चान्नस्य,
मनुष्याणां च मनुष्यैः,
रसानां च रसैर्,
गन्धानां च गन्धैर्,
विद्यया च विद्यानाम् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- But food (may be exchanged) for food, and slaves for slaves, and condiments for condiments, and perfumes for perfumes, and learning for learning. 11
हरदत्त-टीका
सूत्रम्
अनेन चाऽन्नस्य मनुष्याणां च मनुष्यैः रसानां च रसैर्गन्धानां च गन्धैर्विद्यया च विद्यानाम् ॥१५॥
प्रस्तावः
तेष्वेव केषांचिद्विनिमयोऽनुज्ञायते—
टिप्पनी
अन्नादीनां विद्यान्तानां विनिमयो भवत्येवेत्यर्थः । तथा च वसिष्ठः1-रसा रसैस्समतो हीनतो वा … ..तिलतण्डुलपक्वान्नं विद्यामनुष्याश्च विहिताः परिवर्तनेन’ इति । मानवे तु विशेषः—
2रसा रसैर्निर्मातव्या न त्वेव लवणं रसैः।
कृतान्नं चाऽकृतान्नेन तिला धान्येन तत्समाः ॥ इति ।
गौतमीये तु-3विनिमयस्तु । रसानां रसैः । पशूनां च । न लवणं कृतान्नयोः । तिलानां च । समेनाऽऽमेन तु पक्वस्य सम्प्रत्यर्थ’ इति । तस्मादत्र प्रतिषेधानुवृत्तिर्न शङ्कनीया । पूर्वत्र चोक्तं ‘ब्रह्मणि मिथो विनियोगे न गतिर्विद्यत’ (१३.१७) इति । 4विनिमयाभ्यनुज्ञानादेव विद्यादीनां विक्रयोऽपि प्रतिषिद्धो वेदितव्यः ॥ १५ ॥
16 अक्रीतपण्यैर्व्यवहरेत ...{Loading}...
अ-क्रीतपण्यैर् व्यवहरेत १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Let him traffic with lawful merchandise which he has not bought,
हरदत्त-टीका
सूत्रम्
अक्रीतपण्यैर्व्यवहरेत ॥ १६ ॥
टिप्पनी
अक्रीतानि स्वयमुत्पादितानि अरण्यादाहृतानि वा यानि पण्यानि तैर्व्यवहरेत मुञ्जादिभिः ॥ १६ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ विंशतितमी कण्डिका ॥ २० ॥
- ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
तै० सं० १.६. ८. यो श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टाय श्रद्धधते, इति श्रुतिः । अस्या अयमर्थः— ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
न चोद्देश्यतया इति नास्ति क. ↩︎
-
- The Sūtra is intended to show how the law should be ascertained in difficult cases. Haradatta quotes here the passage of Yājñ. I, 9, on Pariṣads, and states that the plural āryāḥ shows that three or four must be employed to arrive at a decision. See also Manu XII, 108 seq.
-
Manu I, 6. ↩︎
-
This Sūtra, which specifies only one part of a Vaiśya’s occupations as permissible for Brāhmaṇas in distress, implies, according to Haradatta, that his other occupations also, as well as those of a Kṣatriya, are permissible. Manu IV, 6; X, 82; Yājñ. III, 35. ↩︎
-
Manu X, 86-89; Yājñ. III, 36-39. ↩︎
-
The exception stated above, is given by Haradatta on the authority of Manu X, 90; Yājñ. III, 39. ↩︎
-
From the permission to exchange learning for learning, it may be known that it is not lawful to sell it.’–Haradatta. Manu X, 94. ↩︎