१९

02 मत्त उन्मत्तो बद्धो ...{Loading}...

मत्त उन्मत्तो बद्धो ऽणिकः+++(=पुत्राच् छ्रुतग्राही)+++ प्रत्युपविष्टो+++(?)+++ यश्च प्रत्युपवेशयते तावन्तं कालम् १ …

02 क आश्यान्नः ...{Loading}...

क अश्यान्नः २

03 य ईप्सेद् इति ...{Loading}...

य ईप्सेद्+++(=प्रार्थ्यते [भोक्तव्यमिति, तस्यान्न])+++ इति कण्वः ३

04 पुण्य इति कौत्सः ...{Loading}...

पुण्य +++(अन्न)+++ इति कौत्सः ४

06 यः कश्चिद् दद्यादिति ...{Loading}...

यः कश्चिद् दद्यादिति वार्ष्यायणिः +++(आपस्तम्बेनायम् पक्षो निराकरिष्यते ऽग्रे)+++५

06 यदि हि रजः ...{Loading}...

यदि ह रजः +++(=पापम्)+++ स्थावरं - पुरुषे भोक्तव्यम्, अथ चेच् चलं - दानेन निर्दोषो भवति ६

07 शुद्धा भिक्षा भोक्तव्या ...{Loading}...

शुद्धा भिक्षा भोक्तव्या +++(इति)+++ एककुणिकौ काण्वकुत्सौ तथा पुष्करसादिः ७

08 सर्वतोपेतं वार्ष्यायणीयम् ८ ...{Loading}...

सर्वतोपेतं +++(=अप्रार्थ्य लब्धम् भोज्यमिति)+++ वार्ष्यायणीयम् +++(मतम् - आपस्तम्बो निराकरिष्यत्यग्रे)+++८

09 पुण्यस्येप्सतो ...{Loading}...

पुण्यस्येप्सतो +++(ऽन्नस्य)+++ भोक्तव्यम् +++(इत्यापस्तम्बनिश्चयः)+++ ९

10 पुण्यस्याप्य् अनीप्सतो न ...{Loading}...

पुण्यस्याप्य् +++(दातुम्)+++ अनीप्सतो न भोक्तव्यम् १०

11 यतः कुतश्चाभ्युद्यतम् भोक्तव्यम् ...{Loading}...

यतः कुतश्चाभ्युद्यतं भोक्तव्यम् ११

12 नाननियोगपूर्वमिति हारीतः ...{Loading}...

नाननियोगपूर्वमिति हारीतः १२

13 अथ पुराणे श्लोकावुदाहरन्ति ...{Loading}...

अथ पुराणे श्लोकावुदाहरन्ति । उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः । न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यत इति १३

14 चिकित्सकस्य मृगयोः शल्यकृन्तस्य ...{Loading}...

चिकित्सकस्य मृगयोः शल्यकृन्तस्य पाशिनः । कुलटायाः षण्ढकस्य च तेषामन्नमनाद्यम् १४

15 अथाप्युदाहरन्ति अन्नादे भ्रूणहा ...{Loading}...

अथाप्युदाहरन्ति । अन्नादे भ्रूणहा मार्ष्टि अनेना अभिशंसति । स्तेनः प्रमुक्तो राजनि याचन्ननृतसङ्कर इति १५

इति षष्ठः पटलः


    1. Manu IV, 207; Yājñ. I, 161, 162. Another commentator explains aṇika, translated above ‘he who learns the Veda from his son,’ by ‘a money-lender,’ and combines pratyupaviṣṭaḥ with this word, i.e. ‘a money-lender who sits with his debtor hindering him from fulfilling his duties.’ This manner of forcing a debtor to pay, which is also called Ācarita (see Manu VIII, 49), is, though illegal, resorted to sometimes even now.
     ↩︎
  1. अप्रकृतिं इति. ख. पु. ↩︎ ↩︎ ↩︎ ↩︎

  2. ‘The object of this Sūtra is to introduce the great variety of opinions quoted below.’–Haradatta. ↩︎

  3. प्रतिषिद्धवर्जम् , इति नास्ति क. पुस्तके । ↩︎ ↩︎ ↩︎ ↩︎

  4. ‘Holy’ means not only ‘following his lawful occupations,’ but particularly ‘practising austerities, reciting prayers, and offering burnt-oblations.’–Haradatta. ↩︎

  5. ‘आचार्यः’ इत्यधिक क. पुस्तके, ↩︎ ↩︎ ↩︎

  6. Another commentator explains this Sūtra thus: ‘He need not eat the food offered by a righteous man, if he himself does not wish to do so.’–Haradatta. ↩︎

  7. See Manu IV, 248 and 249, where these identical verses occur. ↩︎

  8. Manu IV, 211, 212. ↩︎

  9. पूर्वत्र तर्हि ग्रहणस्य वैयर्थ्यम् । ↩︎

  10. Regarding the liberation of the thief, see Āpastamba I, 9, 25, 4. A similar verse occurs Manu VIII, 317, which has caused the confusion observable in many MSS., as has been stated in the critical notes to the text. ↩︎