01 {अनध्ययनम्} काण्डोपाकरणे चामातृकस्य ...{Loading}...
{अनध्ययनम्} काण्डोपाकरणे चामातृकस्य १
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The recitation of the Veda shall be interrupted for a day and evening if he has eaten), on beginning a fresh Kāṇḍa (of his Veda), food given by a motherless person, 1
हरदत्त-टीका
सूत्रम्
काण्डोपाकरणे चाऽऽमातृकस्य ॥१॥
टिप्पनी
काण्डोपाकरणं काण्डव्रतादेशनम् । तस्मिन्नहनि अमातृकस्यान्नं भुक्त्वा सप्रदोषमहरनध्यायः। अपर आह-भुक्त्वेति नाऽनुवर्तते । यथाचोत्तरत्र भुक्त्वा ग्रहणम् । काण्डोपाकरणे अमातृकस्य माणवकस्य सप्रदोषमहरनध्यायः। एतेनोत्तरं व्याख्यातम् ॥ १॥
02 काण्डसमापने चापितृकस्य ...{Loading}...
काण्डसमापने चापितृकस्य २
सर्वाष् टीकाः ...{Loading}...
Bühler
- And also if he has eaten, on the day of the completion of a Kāṇḍa, food given by a fatherless person.
हरदत्त-टीका
सूत्रम्
काण्डसमापने चाऽपितृकत्य ॥२॥
टिप्पनी
काण्डसमापनं व्रतविसर्गः ॥२॥
03 मनुष्यप्रकृतीनाञ् च देवानां ...{Loading}...
मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some declare, that (the recitation shall be interrupted for the same space of time), if he has eaten at a sacrifice offered in honour of gods who were formerly men. 2
हरदत्त-टीका
सूत्रम्
मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वत्येके ॥३॥
टिप्पनी
ये मनुष्या भूत्वा प्रकृष्टेन तपसा देवास्सम्पन्नास्ते मनुष्यप्रकृतयो 3नन्दिकुबेरादयः । तेषां यज्ञः तत्प्रीत्यर्थं ब्राह्मणभोजनम्, तत्र भुक्त्वा सप्रदोषमहरनध्याय इत्येके मन्यन्ते । मनुभ्यमुखेन देवेष्विज्यमानेष्वित्यन्ये ॥३॥
04 पर्युषितैस्तण्डुलैराममांसेन च नानध्यायाः ...{Loading}...
पर्युषितैस्तण्डुलैराममांसेन च नानध्यायाः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor is the recitation interrupted, if he has eaten rice received the day before, or raw meat (though these things may have been offered in honour of the dead), 4
हरदत्त-टीका
सूत्रम्
पर्युषितैस्तण्डुलैराममांसेन च नाऽनध्यायः ॥ ४ ॥
टिप्पनी
‘प्रेतसंक्लृप्तं चाऽन्न’(१०.२८)मित्यस्यापवादः। पर्युषिता रात्र्यन्तरिताः ह्यः प्रतिगृहीताः, तेषु तण्डुलेष्वद्य पक्त्वा भुज्यमानेषु नानध्यायः। तथा आममांसेन तदहर्भक्षितेनापि नानध्यायः। पर्युषितेनेत्येके । ‘पर्युषितै’रिति वचनात्तदहर्भक्षितैः सप्रदोषमहरनध्यायः ॥ ४॥
05 तथौषधिवनस्पतिमूलफलैः ...{Loading}...
तथौषधिवनस्पतिमूलफलैः ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (if he has eaten at a funeral dinner) roots or fruits of herbs and trees.
हरदत्त-टीका
सूत्रम्
तथौषधिवनस्पतिमूलफलैः॥५॥
टिप्पनी
ओषधिग्रहणेन वीरुधोऽपि गृह्यन्ते । वनस्पतिग्रहणेन वृक्षमात्रम् । तेषां मूलैः सूरणकन्दादिभिः फलैश्चाऽम्रादिभिः पक्वैरपक्वैश्च तदहक्षितैरपि नाऽनध्यायः॥५॥
06 यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यङ् ...{Loading}...
यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- When he performs the ceremony for beginning of a Kāṇḍa, or when he studies the index of the Anuvākas 5 of a (Kāṇḍa), he shall not study that (Kāṇḍa) on that day (nor in that night).
हरदत्त-टीका
सूत्रम्
यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ॥६॥
टिप्पनी
यस्मिन्नहनि यत्काण्डमुपाकृतं न तत्तदहरधीयीत । तथा श्रावण्यां पौर्णमास्यामुपाकृत्य प्रशस्तेऽहरन्तरे यस्य काण्डस्यानुवाक्यमध्येतुमारम्भं कुर्वीत न तत्तदहरधीयीत । अहरित्यहोरात्रोपलक्षणम् ॥६॥
07 उपाकरणसमापनयोश्च पारायणस्य तां ...{Loading}...
उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- And if he performs the ceremonies prescribed on beginning or ending the recitation of one entire Veda, he shall not study that Veda (during that day). 6
हरदत्त-टीका
सूत्रम्
उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ॥ ७॥
टिप्पनी
अनेकवेदाध्यायी यद्येकस्य वेदस्य पारायणं कुरुते तदा तस्य पारायणस्य 7ये उपाकरणोत्सर्जने, तयोः कृतयोस्तां विद्यां तदहर्नाऽधीयीत । एतदेव ज्ञापकं पारायणस्याऽप्युपाकरणोत्सर्जने भवत इति । ‘तां विद्यामि’ति वचनाद्विद्यान्तराध्ययने न दोषः ॥ ७॥
08 वायुर्घोषवान्भूमौ वा तृण ...{Loading}...
वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धाराः प्रवहेत् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the wind roars, or if it whirls up the grass on the ground, or if it drives the rain-drops forward during a rain-shower, (then the recitation shall be interrupted for so long a time as the storm lasts). 8
हरदत्त-टीका
सूत्रम्
वायुर्घोषवान् भूमौ तृणसंवाहो वर्षति वा यत्र धाराः प्रवहेत् ॥ ८॥
टिप्पनी
घोषवान् कर्णश्रवः । भूमाववस्थितानि तृणानि संवाहयति उत्क्षिप्य गमयतीति तृणसंवाहः । वर्षति वा 3मेघे धाराः प्रवहेत् विक्षिपेत् । यत्र देशे एवंविधो वायुस्तत्र तावन्तं कालं नाऽधीयीत । अत्र मनुः —
9“कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने” ॥ इति ॥ ८॥
09 ग्रामारण्ययोश्च सन्धौ ...{Loading}...
ग्रामारण्ययोश्च सन्धौ ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Nor shall he study) on the boundary between a village and forest,
हरदत्त-टीका
सूत्रम्
7ग्रामारण्ययोश्च सन्धौ महापथे च विप्रोष्य च समध्ययनं तदहः ॥९॥
प्रस्तावः
उत्तरे द्वे सूत्रे निगदसिद्धे—
टिप्पनी
यदा3 सहाऽधीयानाः कारणवशाद्विप्रवसेयुः । केचिच्चाचार्येण वा सङ्गतास्तदा समध्ययनं सहाऽधीयमानं प्रदेश तदहर्नाधीयीत । विप्रोषितानां यदहः पुनर्मेलनं तदहर्नाधीयीतेत्यन्ये ॥ ९ ॥
10 महापथे च ...{Loading}...
महापथे च १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor on a highway.
हरदत्त-टीका
सूत्रम्
महापथे च ॥
टिप्पनी
+++(पूर्वसूत्रे व्याख्यातम् ।)+++
11 विप्रोष्य च समध्ययनन् ...{Loading}...
विप्रोष्य च समध्ययनं तदहः ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (some of his) fellow-students are on a journey, he shall not study during that day, (the passage) which they learn together. 10
हरदत्त-टीका
सूत्रम्
विप्रोष्य च समध्ययनं तदहः ॥
टिप्पनी
+++(पूर्वसूत्रे व्याख्यातम् ।)+++
12 स्वैरिकर्मसु च ...{Loading}...
स्वैरिकर्मसु च १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- And whilst performing acts for his pleasure,
हरदत्त-टीका
सूत्रम्
स्वैरिकर्मसु च ॥१०॥
टिप्पनी
नाधीयीतेत्येव ॥१०॥
13 यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति ...{Loading}...
यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Such as washing his feet, shampooing or anointing himself,
हरदत्त-टीका
सूत्रम्
यथाहस्तप्रक्षालनोत्सादनानुलेखणानाति ॥ ११ ॥
प्रस्तावः
अत्रोदाहरणम्—
टिप्पनी
णत्वमाकस्मिकम् , अपपाठो वा ॥ ११ ॥
14 तावन्तङ् कालन् नाधीयीताध्यापयेद्वा ...{Loading}...
तावन्तं कालं नाधीयीताध्यापयेद्वा १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall neither study nor teach, as long as he is thus occupied.
हरदत्त-टीका
सूत्रम्
तावन्तं कालं नाऽधीयीताऽध्यापयेद्वा ॥ १२ ॥
टिप्पनी
तेषु स्वैरिकर्मसु तावन्त कालमध्ययनमध्यापनञ्च वर्जयेत् ॥ १२ ॥
15 सन्ध्योः ...{Loading}...
सन्ध्योः १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- (He shall not study or teach) in the twilight, 11
हरदत्त-टीका
सूत्रम्
सन्ध्योः ॥ १३ ॥
टिप्पनी
सज्योतिषोऽज्योतिषोऽदर्शनात् उभे सन्ध्ये। तयोस्तावन्तं कालं नाधीयीताध्यापयेद्वा । एवमुत्तरत्राप्यनुवृत्तिः ॥ १३ ॥
16 तथा वृक्षमारूढः ...{Loading}...
तथा वृक्षमारूढः १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor whilst sitting on a tree, 12
हरदत्त-टीका
सूत्रम्
तथा वृक्षमारूढोऽप्सु चावगाढो नक्तं चापावृते ॥ १४ ॥
प्रस्तावः
उत्तरे द्वे सूत्रे निगदसिद्धे—
टिप्पनी
विवृतद्वारमपावृतम् । तत्र नक्तं नाधीयीत ॥ १४ ॥
17 अप्सु चावगाढः ...{Loading}...
अप्सु चावगाढः १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor whilst immersed in water,
हरदत्त-टीका
सूत्रम्
प्सु चावगाढः ॥
टिप्पनी
+++(पूर्वसूत्रे व्याख्यातम् ।)+++
18 नक्तञ् चापावृते ...{Loading}...
नक्तं चापावृते १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor at night with open doors,
हरदत्त-टीका
सूत्रम्
नक्तं चापावृते ॥
टिप्पनी
+++(पूर्वसूत्रे व्याख्यातम् ।)+++
19 दिवा चापिहिते ...{Loading}...
दिवा चापिहिते १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor in the day-time with shut doors.
हरदत्त-टीका
सूत्रम्
दिवा च पिहिते ॥ १५ ॥
टिप्पनी
संवृतद्वारं पिहितम् । तत्र दिवा नाधीयीत ॥ १५ ॥
20 अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः ...{Loading}...
अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः +++(=वसन्तोत्सवः)+++ २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- During the spring festival and the festival (of Indra), in the month of Āṣāḍha (June-July), the study of an Anuvāka is forbidden. 13
हरदत्त-टीका
सूत्रम्
अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः ॥१६॥
टिप्पनी
वासन्तिको वसन्तोत्सवः । स च चैत्रमासि शुक्लत्रयोदश्यां भवति । आषाढशब्देनापि तस्मिन्मासे क्रियमाणस्तादृशः कश्चिदिन्द्रोत्सवादिर्विवक्षितः। तयोस्तदहरनुवाकाध्ययनमविहितम् । अनुवाकग्रहणान्न्यूने न दोषः।
अपर आह- अनुवाकग्रहणान्मन्त्रब्राह्मणयोरेव प्रतिषेधः, नाङ्गानामिति ॥ १६ ॥
21 नित्यप्रश्नस्य चाविधिना ...{Loading}...
नित्यप्रश्नस्य चाविधिना २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- (The recitation) of the daily portion of the Veda (at the Brahmayajña is likewise forbidden if done) in a manner differing from the rule (of the Veda). 14
हरदत्त-टीका
सूत्रम्
नित्यप्रश्नस्य चाऽविधिना ॥ १७ ॥
टिप्पनी
नित्यं प्रश्नाध्ययनं यत्र स नित्यप्रश्नो ब्रह्मयज्ञः। तस्य चाविधिना वक्ष्यमाणेन प्रकारेण विनाऽनुवाकाध्ययनमविहितम् । यद्यपि नित्यं ब्रह्म यज्ञाध्ययनं तथापि केनचिदप्यङ्गेन विना न कर्तव्यम् । तेन विस्मृत्य प्रातराशे कृते प्रायश्चित्तमेव न ब्रह्मयज्ञः। मनुः—
‘स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् । इति ॥ १७ ॥
22 तस्य विधिः ...{Loading}...
तस्य विधिः २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- (Now follows) the rule (for the daily recitation) of that (Brahmayajña).
हरदत्त-टीका
सूत्रम्
तस्य विधिः ॥ १८॥
टिप्पनी
तस्य नित्यप्रश्नस्य विधिर्वक्ष्यते ॥ १८ ॥
23 अकृतप्रातराश उदकान्तङ् गत्वा ...{Loading}...
अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशेऽधीयीत यथाध्यायम् उत्सृजन् वाचा २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Before taking his morning-meal, he shall go to the water-side, and having purified himself, he shall recite aloud (a portion of the Veda) in a pure 15 place, leaving out according to (the order of the) texts (what he has read the day before).
हरदत्त-टीका
सूत्रम्
अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशेऽधीयीत यथाध्यायमुत्सृजन्वाचा ॥ २९ ॥
टिप्पनी
अकृतदिवाभोजन उदकसमीपं गत्वा प्रयतः स्नानमार्जनादिशुद्धः शुचौ देशे प्राच्यामुदीच्यां वा दिश्यच्छदिर्दर्शेऽधीयीत । यथाध्यायं यथा पामनुषङ्गरहितमुत्सृजन् आदित आरभ्य प्रथमादिष्वहस्सु7 अधीयीत द्वितीयादिषूत्सृज्य ततः परमधीयीत । वाचा उच्चैरित्यर्थः ॥ १९ ॥
24 मनसा चानध्याये ...{Loading}...
मनसा चानध्याये २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a stoppage of study is enjoined (for the day, he shall recite the daily portion) mentally.
हरदत्त-टीका
सूत्रम्
मनसा चाऽनध्याये ॥२०॥
टिप्पनी
अनध्याये च मनसाऽधीयीत नित्यस्वाध्यायम् ॥ २० ॥
25 विद्युति चाभ्यग्रायां स्तनयित्नाव् ...{Loading}...
विद्युति चाभ्यग्रायां स्तनयित्नाव् अप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- If lightning flashes without interruption, or, thunder rolls continually, if a man has neglected to purify himself, if he has partaken of a meal in honour of a dead person, or if hoarfrost lies on the ground, (in these cases) they forbid the mental recitation (of the daily portion of the Veda). 16
हरदत्त-टीका
सूत्रम्
विद्युति चाऽभ्यग्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहीरे च मानसं परिचक्षते ॥ २१ ॥
टिप्पनी
विद्युति अभ्यग्रायामविरतायाम् । स्तनयित्नौ चाऽभ्यग्रे । अप्रायत्ये आत्मनोऽशुचिभावे । प्रेतान्ने च भुक्ते । नीहारे च नीहारो हिमानी तस्मिंश्च वर्तमाने । मानसमनन्तरोक्तमध्ययनं परिचक्षते वर्जयन्ति ॥ २१ ॥
26 श्राद्धभोजन एवैके ...{Loading}...
श्राद्धभोजन एवैके २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some forbid it only in case one has eaten a funeral dinner. 17
हरदत्त-टीका
सूत्रम्
श्राद्धभोजन एवैके ॥ २२ ॥
टिप्पनी
एके त्वाचार्याः श्राद्धभोजन एव मानसं परिचक्षते, न विद्युदादिषु ॥२२॥
27 विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र सन्निपतेयुस्तस्त्र्यहमनध्यायः ...{Loading}...
विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयुस्तस्त्र्यहमनध्यायः २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Where lightning, thunder, and rain happen together out of season, the recitation shall be interrupted for three days. 18
हरदत्त-टीका
सूत्रम्
विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ3 यत्र सन्निपतेयुस्त्र्यहमनध्यायः ॥ २३ ॥
टिप्पनी
अपर्तौ यस्मिन् देशे यो वर्षाकालः ततोऽन्यस्तत्रापर्तुः । तत्र यदि विद्युदादयस्सन्निपतेयुः समुदितास्स्युः तदा त्र्यहमनध्यायः ॥ २३ ॥
28 यावद्भूमिर्व्युदकेत्येके ...{Loading}...
यावद्भूमिर्व्युदकेत्येके २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some (declare, that the recitation shall stop) until the ground is dry.
हरदत्त-टीका
सूत्रम्
यावद्भूमिर्व्युदकेत्येके ॥ २४ ॥
टिप्पनी
यावता कालेन भूमिः विगतोदका भवति तावन्तं कालमनध्याय इत्येके मन्यन्ते ॥२४॥
29 एकेन द्वाभ्यां वैतेषामाकालम् ...{Loading}...
एकेन द्वाभ्यां वैतेषामाकालम् २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- If one or two (of the phenomena mentioned in Sūtra 27 appear, the recitation shall be interrupted) from that hour until the same hour next day.
हरदत्त-टीका
सूत्रम्
एकेन द्वाभ्यां वैतेषामाकालम् ॥ २५ ॥
टिप्पनी
एतेषां विद्युदादीनां मध्ये एकेन द्वाभ्यां वा योगे आकालमनध्यायः । अपरेद्युरा तस्य कालस्य प्राप्तरित्यर्थः ॥ २५ ॥
30 सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते ...{Loading}...
सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ३०
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the case of an eclipse of the sun or of the moon, of an earthquake, of a whirlwind, of the fall of a meteor, or of a fire (in the village), at whatever time these events happen, the recitation of all the sacred sciences (Vedas and Aṅgas) must be interrupted from that hour until the same hour next day. 19
हरदत्त-टीका
सूत्रम्
सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ॥२६॥
टिप्पनी
‘सुर्याचन्द्रमसो’रिति वचनं बृहस्पत्यादिनिवृत्त्यर्थम् । भूमिचले भूकम्पे । अपस्वाने निर्घाते । उल्कायामुल्कापाते । अग्न्युत्पाते7 ग्रामादिदाहे । एतेषु निमित्तेषु3 सर्वेषु सर्वासां विद्यानाम्—
9अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ इत्युक्तानाम् ।
सार्वकालिकमृतौ चापर्तौ चाऽऽकालमनध्यायः। अत्र ‘सर्वासामि’ति वचनादन्यत्र वेदानामेव प्रतिषेधः । अङ्गानामपीत्यन्ये ॥ २६ ॥
31 अभ्रञ् चापर्तौ सूर्याचन्द्र ...{Loading}...
अभ्रं चापर्तौ सूर्याचन्द्र मसोः परिवेष इन्द्र धनुः प्रतिसूर्यमत्स्यश्च वाते पूतीगन्धे नीहारे च सर्वेष्वेतेषु तावन्तं कालम् ३१
सर्वाष् टीकाः ...{Loading}...
Bühler
- If a cloud appears out of season, if the sun or the moon is surrounded by a halo, if a rainbow, a parhelion or a comet appears, if a (high) wind (blows), 20 a foul smell (is observed), or hoarfrost (lies on the ground, at all these occasions (the recitation of all the sacred sciences must be interrupted) during the duration (of these phenomena).
हरदत्त-टीका
सूत्रम्
अभ्रं चापर्तौ सूर्याचन्द्रमसोः परिवेष इन्द्रधनुः प्रतिसूर्यमत्स्यश्च वाते पूतिगन्धे नीहारे च सर्वष्वेतेषु तावत्कालम् ॥२७॥
टिप्पनी
अपर्तावभ्रं दृश्यमानं यावत् दृश्यते तावत्कालमनध्यायः । एवं परिवेषादिवपि योज्यम् । बृहस्पत्यादिपरिवषे न दोषः । इन्द्रधनुः प्रसिद्धम् । सूर्यसमीपे तदाकृतिः प्रतिसूर्यः । मत्स्यः पुच्छवन्नवाम् । समाहारद्वन्द्वे छान्दसो लिङ्गव्यत्ययः । सर्वेष्वेतेषु वातादिषु च त्रिषु तावत्कालमनध्यायः । वाते घोषवति । पूतिगन्धे दुर्गन्धे । नीहारे हिमान्याम् । वातादिग्रहणं पूर्वोक्तानां श्वगर्दभादीनामुपलक्षणार्थम् । पुनरिह वचनं तावत्कालमिति विधातुम् । अत्रैव श्वगर्दभादिग्रहणे कर्तव्ये पूर्वत्र पाठस्य चिन्त्यं प्रयोजनम् ॥ २७ ॥
32 मुहूर्तं विरते वाते ...{Loading}...
मुहूर्तं विरते वाते ३२
सर्वाष् टीकाः ...{Loading}...
Bühler
- After the wind has ceased, (the interruption of the recitation continues) for one muhūrta. 21
हरदत्त-टीका
सूत्रम्
मुहर्तं विरते वाते ॥ २८ ॥
टिप्पनी
वाते घोषवति विरतेऽपि मुहुर्तमात्रमनध्यायः। द्वे नाडिके मुहूर्तम् ॥ २८ ॥
33 सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् ...{Loading}...
सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् ३३
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (the howl of) a wolf or of a solitary jackal (has been heard, he shall stop the reading) until he has slept.
हरदत्त-टीका
सूत्रम्
सलावृक्यामेकसृक इति स्वप्नपर्यन्तम् ॥ २९ ॥
टिप्पनी
7 तावत्काल’मित्यस्याऽपवादोऽयम् । सलावृक्येकसृकशब्दौ व्याख्यातौ ॥ २९॥
34 नक्तञ् चारण्येऽनग्नावहिरण्ये वा ...{Loading}...
नक्तं चारण्येऽनग्नावहिरण्ये वा ३४
सर्वाष् टीकाः ...{Loading}...
Bühler
- At night (he shall not study) in a wood, where there is no fire nor gold.
हरदत्त-टीका
सूत्रम्
नक्तं चारण्येऽनग्नावहिरण्ये वा ॥३०॥
टिप्पनी
रात्रावग्निवर्जिते हिरण्यवर्जिते वारण्ये नाधीयीत ॥ ३० ॥
35 अननूक्तञ् चापर्तौ छन्दसो ...{Loading}...
अननूक्तं चापर्तौ छन्दसो नाधीयीत ३५
सर्वाष् टीकाः ...{Loading}...
Bühler
- Out of term he shall not study any part of the Veda which he has not learnt before.
हरदत्त-टीका
सूत्रम्
अननूक्तं चाऽपर्त्तौ छन्दसो नाधीयीत ॥ ३१ ॥
टिप्पनी
उत्सर्जनादूर्ध्वमुपाकरणादर्वागपर्तुः । तत्र छन्दसोऽननूक्तमंशमपूर्वं नाऽधीयीत । ग्रहणाध्ययनमपतौं न कर्तव्यम् । यद्यपि3तैष्यां पौर्णमास्यां रोहिण्यां वा विरमे’दित्युक्तम, तथापि कियन्तं कालं तद्विररमणम् ? कस्माद्वाऽध्ययनम् ? इत्यपेक्षायामिदमुच्यते-एतावन्तं कालं ग्रहणाध्ययनं न कर्तव्यमिति । धारणाध्ययने न दोषः। तथा ‘छन्दस’ इति वचनादङ्गानां ग्रहणाध्ययने न दोषः ॥ ३१॥
36 {अननूक्तं} प्रदोषे च ...{Loading}...
{अननूक्तं} प्रदोषे च ३६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor (shall he study during term some new part of the Veda) in the evening. 22
हरदत्त-टीका
सूत्रम्
प्रदोषे च ॥३२॥
टिप्पनी
प्रदोषे चाऽननूक्तमृतामपि नाधीयीत । 9 मासं प्रदोषे नाधीयीते’त्येतत्तु धारणाध्ययनस्यापि प्रतिषेधार्थम् । अपर आह-यस्यां रात्रौ द्वादशी त्रयोदशी च मिश्रीभवतः, तस्यां प्रदोषे नाधीयातानूक्तमनूक्तं च, ऋतावपर्तौ च । एष आचार इति ॥ ३२ ॥
37 सार्वकालिकमाम्नातम् {अध्येतव्यम्} ...{Loading}...
सार्वकालिकमाम्नातम् +++(=अधीतम्)+++ {अध्येतव्यम्} ३७
सर्वाष् टीकाः ...{Loading}...
Bühler
- That which has been studied before, must never be studied (during the vacation or in the evening). 23
हरदत्त-टीका
सूत्रम्
सार्वकालिकमाम्नातम् ॥ ३३ ॥
टिप्पनी
आम्नातमधीतं तत्सार्वकालिकमपौ प्रदोषे च सर्वस्मिन्कालेऽध्येतव्यम् ॥ ३३ ॥
38 यथोक्तमन्यदतः परिषत्सु ...{Loading}...
यथोक्तमन्यदतः परिषत्सु ३८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Further particulars (regarding the interruption 24 of the Veda-study may be learnt) from the (teaching and works of other) Vedic schools.
हरदत्त-टीका
सूत्रम्
यथोक्तमन्यदतः परिषत्सु ॥ ३४ ॥
टिप्पनी
अत एतस्मादनध्यायप्रकरणोक्तादन्यदनध्यायनिमित्तम् । परिषत्सु मानवादिधर्मशास्त्रेषु यथोक्तं 7तथा द्रष्टव्यम् । तत्र वासेष्ठः 3 दिग्दाहपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिक’मिति ।
यमः —
9 श्लेष्मातकस्य शल्मल्या मधूकस्य तथाप्यधः ।
कदाचिदपि नाध्येयं कोविदारकपित्थयोः॥ सङ्ग्रामोद्यानदेवतासमीपेषु नाधीयीतेति ॥ ३४ ॥
व. स्मृ. १३ ८. दिग्नादपर्वतनादकम्पप्रपातेषु, इति मुद्रितपुस्तकपाठः । निमित्तप्रादुर्भावादारभ्याऽन्येद्युर्यावत् स एव कालः स आकालः । तत्र भवमाकालिकम् ।
॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्वलायामेकादशी कण्डिका ॥
इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने तृतीयः पटलः ॥ ३ ॥
इति तृतीयः पटलः
-
- The Black Yajur-veda, to which Āpastamba belongs, is divided throughout into books called Kāṇḍas.
-
Haradatta names as such gods, Nandīsvara and Kubera. Other commentators, however, explain Manuṣyaprakriti by Manuṣyamukha, ‘possessing human faces.’ A similar rule occurs Gautama XVI, 34, Where a Manuṣyayagña is mentioned as a cause for discontinuing the recitation of the Veda. In his Commentary on Gautama, also, Haradatta is in doubt. He first refers the term to the sacraments like the Sīmantonnayana, and then adds, that some explain it to mean ‘a sacrifice to gods who formerly were men.’ ↩︎
-
‘नन्दीश्वरशरकुमारादयः’ इति पाठान्तरम् । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
This Sūtra is an exception to I, 3, 10, 28. ↩︎
-
Haradatta’s commentary on this Sūtra is very meagre, and he leaves the word anuvākyam unexplained. I am not ccrtain that my explanation is correct. But it is countenanced by the statements of the Gṛhya-sutras regarding the order of studying. Weber, Ind. Stud. X, 132. ↩︎
-
Yājñ. I, 145. This Sūtra is a Jñāpaka or ‘such a one which indicates the existence of a rule not expressly mentioned! Above (I, 3, 9, 1) the yearly -performance of the Upākarma and Utsarga ceremonies for the beginning and end of the Brahmanic term has been prescribed. In this Sūtra the performance of the Upakarma and Utsarga at the beginning and completion of the Pārāyana or the vow to go through a whole Veda is incidentally mentioned. Thence it may be inferred that these ceremonies must. be likewise performed on the latter occasions, though no absolute rule to this effect has been given. Such Jñāpakas are of frequent occurrence in all Sūtras, and constitute one of the chief difficulties of their interpretation. ↩︎
-
Yājñ. I, 149; Manu IV, 102, 122. ↩︎
-
Others explain the Sūtra thus: ‘If he meets fellow-students, after they have come home from a journey, he shall not study with them on that day.’ ↩︎
-
Yājñ. I, 145; Manu IV, 113. ↩︎
-
Yājñ. I, 51; Manu IV, 120. ↩︎
-
According to Haradatta, Āpastamba uses the word Anuvāka in order to indicate that smaller portions of the Veda may be studied. Others think, that by Anuvāka, the Saṃhitā and the Brāhmaṇa are meant, and that the study of the Aṅgas is permitted. The Vasantotsava, or spring festival, which, according to the Dramas, was, in olden times, kept all over India, falls, according to Haradatta, on the thirteenth of the first half of Caitra, about the beginning of April. ↩︎
-
‘Hence, if one has forgotten it and eaten one’s breakfast, a penance, not the Brahmayajña, must be performed’–Haradatta. ↩︎
-
See Taittirīya Āraṇyaka II, 11, 1 and 11; Āśv. Gṛ. Sū. III, 2, 1-2. In our days this rule is usually not observed. Brāhmaṇas mostly recite at the daily Brahmayajña, ‘Veda-offering,’ one particular formula, which symbolically comprises the whole Veda. A few learned Brāhmaṇa friends, however, have assured me, that they still recite the whole of their Śākhā every year according to this rule of Āpastamba. ↩︎
-
Yājñ. I, 149; Manu IV, 106, 120, 127; Taitt. Ār. II, 15, 1. ↩︎
-
Manu IV, 109, 116. ↩︎
-
Manu IV, 103 and 104. ↩︎
-
Yājñ. I, 145; Manu IV, 105, 118. ↩︎
-
Manu IV, 104, and see above. ↩︎
-
One muhūrta = 48 minutes. ↩︎
-
Other commentators interpret the Sūtra in a different sense. They take it to mean: ‘And (luring the night (from the twelfth to the thirteenth of each half of the month, he shall not study at all, be it in or out of term).’ ↩︎
-
‘What has been studied before, must not be studied (again) at any time in the vacation nor in the evening.’– Haradatta. ↩︎
-
Haradatta thinks that by ‘Pariṣad,’ Manu’s and other Dharma-śāstras are meant. This explanation is, however, not exact. Pariṣad, ‘assemblage,’ means, in the language of the Śāstras, either a Pañc, an assemblage of learned Brahmans called together to decide some knotty point of law, or a Brahminical school, which studies a particular redaction of the Veda (see the Petersburg Dict. s. v.) The latter meaning is that applicable to this Sūtra. By ‘Pariṣadaḥ’ are here intended the Vedic schools, and their writings and teaching. Gautama also says, XVI, 40. Prātividyaṃ yān smarantismaranti, ‘(he shall observe the stoppages of the Veda-study) which they teach in (the writings belonging to) each of the Vedas.’ ↩︎