01 उत्तिष्ठेत् तूष्णीं वा ...{Loading}...
उत्तिष्ठेत् तूष्णीं वा १
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may rise silently.
हरदत्त-टीका
सूत्रम्
उत्तिष्ठेतूष्णीं वा ॥१॥
टिप्पनी
उत्तिष्ठेत् तूष्णीं वा। विकल्पः । आमन्त्र्येति लिङ्गात् 1 उत्थायाप्याचामन्नाचार्यसकाश एवाऽऽचामेत् ॥ १॥
02 नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयात् ...{Loading}...
नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयात् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he (in going away) move around his teacher with his left hand turned towards him; he shall go away after having walked around him with his right side turned towards him.
हरदत्त-टीका
सूत्रम्
नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्याऽपेयात् ॥ २॥
टिप्पनी
उत्थाय कार्यवत्तया गन्तुमिच्छन् गुरोरप अपसव्यं न पर्यावर्तेत । किं तु प्रदक्षिणीकृत्याऽपेयात् ॥ २॥
03 न प्रेक्षेत नग्नां ...{Loading}...
न प्रेक्षेत नग्नां स्त्रियम् ३
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not look at a naked woman. 2
हरदत्त-टीका
सूत्रम्
न प्रेक्षेत नग्नां स्त्रियम् ॥ ३॥
टिप्पनी
यां प्रेक्षमाणस्य मनसो विकारो भवति तां नग्नां स्त्रियं नेक्षेत ॥३॥
04 ओषधिवनस्पतीनाम् आच्छिद्य नोपजिघ्रेत् ...{Loading}...
ओषधि-वनस्पतीनाम् आच्छिद्य नोपजिघ्रेत् ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not cut the (leaves or flowers) of herbs or trees, in order to smell at them. 3
05 उपानहौ छत्रं यानम् ...{Loading}...
उपानहौ छत्रं यानम् इति च वर्जयेत् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid (the use of) shoes, of an umbrella a chariot, and the like (luxuries). 6
हरदत्त-टीका
सूत्रम्
उपानहौ छत्रं यानमिति वर्जयेत् ॥ ५ ॥
टिप्पनी
यानं शकटादि । इतिशब्द एवंप्रकाराणामुपलक्षणार्थः । तत्र गौतमः— 7वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्रकाम-क्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्तगीतपरिवादभयानीति ॥ ५ ॥
06 न स्मयेत ...{Loading}...
न स्मयेत ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not smile.
हरदत्त-टीका
सूत्रम्
न स्मयेत ॥६॥
टिप्पनी
स्मितं न कुर्यात् ॥ ६॥
07 यदि स्मयेतापिगृह्य स्मयेतेति ...{Loading}...
यदि स्मयेतापिगृह्य स्मयेतेति हि ब्राह्मणम् ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- If he smiles, he shall smile covering (the mouth with his hand); thus says a Brāhmaṇa.
हरदत्त-टीका
सूत्रम्
यदि स्मयेताऽपिगृह्य स्मयेतेति हि ब्राह्मणम् ॥७॥
टिप्पनी
यदि हर्षातिरेकं धारयितुं न शक्यते अपिगृह्य हस्तेन मुखं पिधाय स्मयेत इति ब्राह्मणं ‘न स्मयेते’त्यारभ्य ॥ ७ ॥
08 नोपजिघ्रेत् स्त्रियम् मुखेन ...{Loading}...
नोपजिघ्रेत् स्त्रियं मुखेन ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not touch a woman with his face, in order to inhale the fragrance of her body.
हरदत्त-टीका
सूत्रम्
1नोपजितघ्रेत् स्त्रियं मुखेन ॥ ८॥
टिप्पनी
स्नाता4मनुलिप्तां वा स्त्रियं बालामपि मुखेन नोपजिघ्रेत् । ‘मुखेने’ति वचनाद्यादृच्छिके गन्धाघ्राणे न दोषः ॥ ८॥
- १. पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते द्वौ पृथग्घस्तयोर्मुखे हृदये उपस्थ एव पञ्चमः । स यद्दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकमवरुन्धे, यत्सव्येन तेन प्रव्राजिनाम् , यन्मुखेन, तेनाग्निप्रस्कन्दिनां, यद्धृदयेन तेन शूराणां, यदुपस्थेन तेन गृहमेधिनां, तैश्चेत् स्त्रियं पराहरत्यनग्निरिव शिष्यते ॥ इति गो० ब्रा० १.२. ४.
09 न हृदयेन प्रार्थयेत् ...{Loading}...
न हृदयेन प्रार्थयेत् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he desire her in his heart.
हरदत्त-टीका
सूत्रम्
न हृदयेन प्रार्थयेत् ॥ ९ ॥
टिप्पनी
हृदयेन मनसा स्त्रियं न प्रार्थयेत्—अपीयं मम स्यादिति ॥ ९ ॥
10 नाकारणाद् उपस्पृशेत् ...{Loading}...
नाकारणाद् उपस्पृशेत् १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- Nor shall he touch (a woman at all) without a particular reason. 8
हरदत्त-टीका
सूत्रम्
नाकारणादुपस्पृशेत् ॥ १० ॥
टिप्पनी
कारणेन विना स्त्रियं नोपस्पृशेत् । कारणं योक्त्रसन्नहनविमोचनविषम-पतनधारणादि ॥१०॥
11 रजस्वलो रक्तदन् सत्यवादी ...{Loading}...
रजस्वलो रक्तदन् सत्यवादी स्याद् इति हि ब्राह्मणम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- A Brāhmaṇa declares, ‘He shall be dusty, be shall have dirty teeth, and speak the truth.’ 9
हरदत्त-टीका
सूत्रम्
रजस्वलो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम् ॥११॥
टिप्पनी
रजस्वलो मलिनगात्रः । रक्ता दन्ता यस्य स रकदन् । छान्दसो दन्नादेशः । पङ्किलदन्त इत्यर्थः । एतदुभय’मुत्सन्नश्लाघ’(१-१-२७) इत्यनेन गतमपि पुनरुच्यते5श्रौतप्रायश्चित्तप्राप्त्यर्थम् । अनृतं वोक्त्वे(२-१-२७)ति प्रायश्चित्तं वक्ष्यति । सत्यवादी स्यादिति ब्राह्मणम् ॥ ११ ॥
12 यां विद्याङ् कुरुते ...{Loading}...
यां विद्यां कुरुते गुरौ तेऽप्यस्याचार्या ये तस्यां गुरोर्वंश्याः १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- Those teachers, who instructed his teacher in that science which he (the pupil) studies with him, (are to be considered as) spiritual teachers (by the pupil). 10
हरदत्त-टीका
सूत्रम्
यां विद्यां कुरुते गुरौ तेऽप्यस्याऽऽचार्या ये तस्यां गुरोर्वंश्याः ॥ १२ ॥
टिप्पनी
आत्मीये गुरौ यां विद्यां कुरुते अधीते तस्यां विद्यायां गुरोर्वंश्या आचार्यास्तेऽप्यस्य माणवकस्याचार्याः । यद्यपि साक्षात्तेभ्यो न गृह्यते विद्या तथापि आचार्यवदुपचरितव्याः। ‘तस्या’मिति वचनाद्विद्यान्तरे ये वंश्यास्तेषु नायं विधिः ॥ १२ ॥
13 यानन्यान्पश्यतोऽस्योपसङ्गृह्णीयात् तदा त्वेत ...{Loading}...
यानन्यान्पश्यतोऽस्योपसंगृह्णीयात् तदा त्वेत उपसंग्राह्याः १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- But if (a teacher), before the eyes of his (pupil), embraces the feet of any other persons, then he (the pupil also) must embrace their feet, (as long as he remains) in that (state of studentship). 11
हरदत्त-टीका
सूत्रम्
यानन्यान् पश्यतोऽस्योपसङ्ग्रहीयात्तदात्वे त उपसङ्ग्राह्याः ॥ १३ ॥
टिप्पनी
अस्य माणवकस्य पश्यत अस्मिन् माणवके पश्यति यानन्यानाचार्य उपसङ्गृहीयात्ते माणवकस्याऽप्युपसङ्ग्राह्याः । किं सदा ? नेत्याह-तदात्वे तस्यां दशायाम् । अपर आह—तदा प्रभृति त उपसङ्ग्राह्याः । तुशब्दात् समावृत्तेनापि ॥ १३ ॥
14 गुरुसमवाये भिक्षयामुत्पन्नायां यमनुबद्धस्तदधीना ...{Loading}...
गुरुसमवाये भिक्षयामुत्पन्नायां यमनुबद्धस्तदधीना भिक्षा १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (a pupil) has more than one teacher, the alms (collected by him) are at the disposal of him to whom he is (just then) bound. 12
हरदत्त-टीका
सूत्रम्
गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबद्धस्तदधीना भिक्षा ॥ १४ ॥
टिप्पनी
यदा द्वितीयं तृतीयं वा वेदमधीयानस्य माणवकस्य गुरुसमवायो भवति गुरवः समवेता भवन्ति, तदा भिक्षायामुत्पन्नायां य गुरुमिदानीमनुबद्धो माणवकः यतोऽधीते तदघीना भिक्षा, यच्च यावञ्च लब्धं तत्तस्मै निवेदनीयम् । 1तदुक्तश्च विनियोगः ॥ १४ ॥
15 समावृत्तो मात्रे दद्यात् ...{Loading}...
समावृत्तो मात्रे दद्यात् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- When (a student) has returned home (from his teacher), he shall give (whatever he may obtain by begging or otherwise) to his mother.
हरदत्त-टीका
सूत्रम्
समावृत्तो मात्रे दद्यात् ॥ १५ ॥
टिप्पनी
कृतसमावर्तनो विवाहात्प्रागर्जितं मात्रे दद्यात् ॥ १५ ॥
16 माता भर्तारङ् गमयेत् ...{Loading}...
माता भर्तारं गमयेत् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- The mother shall give it to her husband;
हरदत्त-टीका
सूत्रम्
माता भर्तारं गमयेत् ॥ १६ ॥
टिप्पनी
माता पतिं प्रापयेत् ॥ १६ ॥
17 भर्ता गुरुम् ...{Loading}...
भर्ता गुरुम् १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- (And) the husband to the (student’s) teacher.
हरदत्त-टीका
सूत्रम्
मतो गुरुम् ॥ १७॥
टिप्पनी
4 प्रापयेत् । माणवकस्य गुरुम् , माणवकार्जितं द्रव्यं तद्गामि युक्तम् ॥ १७॥
18 धर्मकृत्येषु वोपयोजयेत् ...{Loading}...
धर्मकृत्येषु वोपयोजयेत् १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may use it for religious ceremonies. 13
हरदत्त-टीका
सूत्रम्
धर्मकृत्येषु वोपयोजयेत् ॥ १८ ॥
टिप्पनी
धर्मकृत्यानि विवाहादीनि । तेषु वोपयोजयेत् । गुरोरभावे भर्ता, तदभावे माता, सर्वेषामभावे समावृत्तस्स्वयमेव वा ॥ १८ ॥
19 कृत्वा विद्यां यावतीं ...{Loading}...
कृत्वा विद्यां यावतीं शक्नुयाद्वेददक्षिणामाहरेद्धर्मतो यथाशक्ति १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- After having studied as many (branches of) sacred learning as he can, he shall procure in a righteous manner the fee for (the teaching of) the Veda (to be given to his teacher), according to his power. 14
हरदत्त-टीका
सूत्रम्
कृत्वा विद्यां यावतीं शक्नुयात् वेददक्षिणामाहरेद्धर्मतो यथाशक्ति ॥ १९ ॥
टिप्पनी
यावतीं विद्यां कर्तुं शक्नुयात् वेदं वेदौ वेदान्वा तावतीं कृत्वा अधीत्य गुरवे दक्षिणामाहरेत् दद्यात् । यथाशक्ति धर्मत उपलब्धां न्यायार्जिताम् ॥१९॥
20 विषमगते त्वाचार्य उग्रतः ...{Loading}...
विषमगते त्वाचार्य उग्रतः शूद्र तो वाहरेत् २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- But, if the teacher has fallen into distress, he may take (the fee) from an Ugra or from a Śūdra. 15
हरदत्त-टीका
सूत्रम्
विषमगते त्वाचार्य उग्रतः शुद्रतो वाऽऽहरेत् ॥२०॥
प्रस्तावः
धर्मत इत्यस्यापवादः-
टिप्पनी
यदा त्वाचार्यो विषमगतः आपद्गतः तदा उग्रतः शूद्रतो वाऽपि प्रतिगृह्य दक्षिणामाहरेत् । वैश्याच्छूद्रायां जात उग्रः, उग्रकर्मा वा द्विजातिः ॥२०॥
21 सर्वदा शूद्रत उग्रतो ...{Loading}...
सर्वदा शूद्रत उग्रतो वाचार्यार्थस्याहरणं धार्म्यमित्येके २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- But some declare, that it is lawful at any time to take the money for the teacher from an Ugra or from a Śūdra.
हरदत्त-टीका
सूत्रम्
सर्वदा शूद्रत उग्रतो वाऽऽचार्यार्थस्याहरणं धर्म्यमित्येके ॥२१॥
टिप्पनी
सर्वदा आपद्यनापदि च, आचार्यार्थस्याचार्याय यो देयोऽर्थः तस्य, उग्रतः शूद्रतो वाऽऽहरणं धर्म्यं धर्मादनपेतमित्येके मन्यन्ते । ‘धार्म्य’मिति पाठे स्वार्थे ष्यञ् ॥२१॥
22 दत्वा च नानुकथयेत् ...{Loading}...
दत्वा च नानुकथयेत् २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- And having paid (the fee), he shall not boast of having done so.
हरदत्त-टीका
सूत्रम्
दत्वा च नाऽनुकथयेत् ॥ २२ ॥
टिप्पनी
आचार्याय एवमाहृत्य दत्वा न कीर्तयेत्,-एतन्मया दत्तमिति ॥ २२ ॥
23 कृत्वा च नानुस्मरेत् ...{Loading}...
कृत्वा च नानुस्मरेत् २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall not remember what he may have done (for his teacher).
हरदत्त-टीका
सूत्रम्
कृत्वा च नाऽनुस्मरेत् ॥२३॥
टिप्पनी
गुरवे प्राणसंशयादौ महान्तमप्युपकारं कृत्वा नानुस्मरेत् नाऽनुचिन्तयेत्- अहो मयैतत्कृतमिति ॥ २३ ॥
24 आत्मप्रशंसाम् परगर्हामिति च ...{Loading}...
आत्मप्रशंसां परगर्हामिति च वर्जयेत् २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall avoid self-praise, blaming others, and the like. 16
हरदत्त-टीका
सूत्रम्
आत्मप्रशंसा परगर्हामिति च वर्जयेत् ॥ २४ ॥
टिप्पनी
इतिकरणादेवंप्रकाराणामात्मनिन्दादीनामपि प्रतिषेधः ॥ २४ ॥
25 प्रेषितस्तदेव प्रतिपद्येत ...{Loading}...
प्रेषितस्तदेव प्रतिपद्येत २५
26 शास्तुश्चानागमाद्वृत्तिरन्यत्र ...{Loading}...
शास्तुश्चानागमाद्वृत्तिरन्यत्र २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- On account of the incompetence of his teacher, (he may go) to another (and) study (there). 17
हरदत्त-टीका
सूत्रम्
शास्तुश्चाऽनागमाद्वृत्तिरन्यत्र ॥ २६ ॥
टिप्पनी
तस्मिंश्च ‘विद्याकर्मान्त’मित्यस्यापवादः । यद्यधिगन्तुमिष्टा विद्या शास्तुः शाशितुराचार्यस्य सम्यङ्नाऽगच्छति तदा तस्यानागमात् अन्यत्र पुरुषान्तरे वृत्तिर्भवत्येव यस्य सम्यगागच्छति । 5येषामाचार्यविधिप्रयुक्तमध्ययनं तेषामेतन्नोपपद्यत’ इत्यवोचाम ॥ २६॥
27 अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः ...{Loading}...
अन्यत्रोपसंग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall behave towards his teacher’s wife as towards the teacher himself, but he shall not embrace her feet, nor eat the residue of her food. 18
हरदत्त-टीका
सूत्रम्
अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्चाऽऽचार्यवदाचार्यदारे वृत्तिः ॥२७॥
टिप्पनी
अन्यत्रेत्युभयोश्शेषः । आचार्यवदाचार्यदारे वृत्तिः कर्तव्या । किमविशेण ? अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्च, पादोपसङ्ग्रहणमुच्छिष्टाशनं च इत्येतदुभयं वर्जयित्वा । अत्र मनुः— 1‘गुरुवद्गुरुपत्नीषु युवतीर्नाभिवादयेत् ।’ इति । गौतमस्तु, 4 ‘तद्भार्यापुत्रेषु चैवं नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि’ इति । ‘दार’ इत्येकवचनं छान्दसम् ॥२७॥
28 तथा समादिष्टेऽध्यापयति ...{Loading}...
तथा समादिष्टेऽध्यापयति २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- So also (shall he behave) towards him who teaches him at (the teacher’s) command, 19
हरदत्त-टीका
सूत्रम्
तथा समादिष्टेऽध्यापयति ।। २८ ॥
टिप्पनी
य आचार्येण समादिष्टो नियुक्तोऽध्यापयति तस्मिन्नाचार्यदारवद्वृत्तिः । ‘अध्यापयतीति वर्तमाननिर्देशा5द्यावदध्यापनमेवायमतिदेशः ॥ २८ ॥
29 वृद्धतरे च सब्रह्मचारिणि ...{Loading}...
वृद्धतरे च सब्रह्मचारिणि २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- And also to a fellow-student who is superior (in learning and years). 20
हरदत्त-टीका
सूत्रम्
वृद्धतरे च सब्रह्मचारिणि ॥ २९ ॥
टिप्पनी
अध्यापयतीति नाऽनुवर्तते । तरनिर्देशात् ज्ञानवयोभ्यामुभाभ्यां वृद्धो गृह्यते । सब्रह्मचारी सहाध्यायी, समाने ब्रह्मणि व्रत चरतीति । तस्मिन्नप्याचार्यदारवद्वृत्तिः।
‘आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया।
पादं सब्रह्मचारिभ्यः पादः कालेन पच्यते ॥’ इत्यध्ययने उपयोगसम्भवात् ॥ २९॥
30 उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ...{Loading}...
उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ३०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall behave to his teacher’s son (who is superior to himself in learning or years) as to his teacher, but not eat the residue of his food. 21
हरदत्त-टीका
सूत्रम्
उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ॥ ३० ॥
टिप्पनी
‘उच्छिष्टाशनवर्जमिति वचनादुपसङ्ग्रहणं भवति । एतच्च ज्ञानवयोभ्यामुभाभ्यां वृद्धे । तदर्थं वृद्धतर इत्यनुवर्तते । गौतमीयस्तूपसङ्ग्रहणप्रतिषेधो वृद्धतरादन्यविषयः ॥ ३० ॥
31 समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ...{Loading}...
समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ३१
सर्वाष् टीकाः ...{Loading}...
Bühler
- Though he may have returned home, the behaviour towards his (teacher and the rest) which is prescribed by the rule of conduct settled by the agreement (of those who know the law, must be observed by him to the end),
हरदत्त-टीका
सूत्रम्
समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ॥ ३१॥
टिप्पनी
कृतसमावर्तनस्याप्येतदेवानन्तरोक्तम् । एतेष्वाचार्यादिषु पुत्रान्तेषु सामयाचारिकं समयाचारप्राप्तं वृत्तमान्तात् । समादिष्टे त्वध्यापयीतेति4 विशेष उक्तः ॥ ३१॥
॥ इत्यापस्तम्बीयधर्मसूत्रवृत्तावुज्वलायां सप्तमी कण्डिका ॥
-
उत्थायाप्याचमनं न कुर्यात् , आचार्यसमीप एवाचामेत् । इति. ख. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
- Manu IV, 5 3: Yājñ. I, 13 5.
-
Gopatha-brāhmaṇa I, 2, 2. ↩︎
-
“अथैतत् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपाजिघ्रेत् तेन तं पुण्यं गन्धमवरुन्धे” इति गोपथब्राह्मणम् । (गो० ब्रा० १. २.२) ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
Manu II, 178. ↩︎
-
गौ०ध० २.१३. ↩︎
-
Manu II, 179. ↩︎
-
Though both (these first two precepts) have been given in Sūtra I, 1, 2, 27, still they are repeated, in order to show that a Śrauta penance for the breach of them, is enjoined by a revealed text.’–Haradatta. ↩︎
-
The term vaṃsya, ‘ancestor,’ for the teacher’s teacher is explained by the circumstance, that Hindus consider a ‘school,’ consisting of a succession of teachers and pupils, as a spiritual family, and call it a vidyāvaṃsa, vidyāparamparā. Manu II, 205. ↩︎
-
‘Another (commentator) says, “He, the pupil, must embrace their feet (at every meeting) from that time (when he first saw his teacher do it).” Because the word “but” is used in the Sūtra, he must do so even after he has returned home (on completion of his studies).’–Haradatta. ↩︎
-
‘More than one teacher,’ i.e. several, who have taught him the several Vedas. Each Brahman generally knowing one Veda only. ↩︎
-
‘Religious, ceremonies, i.e. the wedding and the like. For them he may use it optionally. He, i.e. on failure of the teacher; the father, on failure of the father; the mother, on failure of all (the pupil) himself.’–Haradatta. ↩︎
-
Manu II, 245 and 246; Yājñ. I, 51; Weber, Ind. Stud, X, 125. ↩︎
-
‘The word Ugra denotes either the offspring of a Vaiśya, and of a Śūdra woman, or a twice-born man, who perpetrates dreadful deeds.’–Haradatta. ↩︎
-
Manu II, 119. ↩︎
-
See above, I, 1, 1, 13, and note. Here also Haradatta states that the permission to. leave the teacher is to be restricted to those who have not solemnly bound themselves to their teacher by allowing him to perform the ceremony of initiation. ↩︎
-
Manu II, 208-212. ↩︎
-
‘The use of the present “adhyāpayati,” shows that this rule holds good only for the time during which he is taught by such a man.’–Haradatta. ↩︎
-
‘Because (an older fellow-student) is of use to him, according to the verse: One-fourth (of his learning) a pupil receives from his teacher, one-fourth he acquires by his own intelligence, one-fourth from his fellow students, one-fourth he is taught by time.’– Haradatta. ↩︎
-
Manu II, 2, 207-209. ↩︎