01 यदुच्छिष्टम् प्राश्नाति ...{Loading}...
यदुच्छिष्टं प्राश्नाति १
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (having done so) eat what is left.
हरदत्त-टीका
सूत्रम्
यदुच्छिष्टं प्राश्ञाति ॥ १॥
टिप्पनी
अनुवादेषु सर्वत्र विधिः कल्प्यते । तं भोजयेत् । भोजयित्वा तस्योच्छिष्टं प्राश्नीयात् प्राश्नाति । ञकारोऽपाठश्छन्दसो वा, ‘शादि’ति चुत्वप्रतिषेधात् ॥ ४५ ॥ १ ॥
02 हविरुच्छिष्टमेव तत् ...{Loading}...
हविरुच्छिष्टमेव तत् २
सर्वाष् टीकाः ...{Loading}...
Bühler
- For this (remnant of food) is certainly a remnant of sacrificial food.
हरदत्त-टीका
सूत्रम्
हविरुच्छिष्टमेव तत् ॥ २ ॥
टिप्पनी
इडाभक्षणादिस्थानीयमित्यर्थः ॥ २ ॥
03 यदन्यानि द्र व्याणि ...{Loading}...
यदन्यानि द्रव्याणि यथालाभमुपहरति दक्षिणा एव ताः ३
सर्वाष् टीकाः ...{Loading}...
Bühler
If he obtains other things (besides food, such as cattle or fuel, and gives them to his teacher) as he obtains them, then those (things hold the place of) rewards (given to priests for the performance of a sacrifice).
हरदत्त-टीका
सूत्रम्
यदन्यानि द्रव्याणि यथालाभमुपहरति दक्षिणा एव ताः॥ ३ ॥
टिप्पनी
यदन्यानि द्रव्याणि गवादीनि भिक्षाचरणे लब्धानि समिदादीनि च स्वयमाहृतानि यथालाभमुपहरति दक्षिणा एव ताः । दक्षिणासामानाधिकरण्यात्ता इत्युक्तम् ॥ ३॥
04 स एष ब्रह्मचारिणो ...{Loading}...
स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ४
सर्वाष् टीकाः ...{Loading}...
Bühler
- This is the sacrifice to be performed daily by a religious student.
हरदत्त-टीका
सूत्रम्
स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ॥ ४ ॥
टिप्पनी
स एष एवंभूतो यज्ञः ब्रह्मचारिणो नित्यं प्रतायते । एवं कुर्वता ब्रह्मचारिणा यज्ञ एव नित्यं क्रियत इत्यर्थः ॥४॥
05 न चास्मै श्रुतिविप्रतिषिद्धम् ...{Loading}...
न चास्मै श्रुति-विप्रतिषिद्धम् उच्छिष्टं दद्यात् ५
सर्वाष् टीकाः ...{Loading}...
Bühler
- And (the teacher) shall not give him anything that is forbidden by the revealed texts, (not even as) leavings,
हरदत्त-टीका
सूत्रम्
न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात् ॥ ५ ॥
टिप्पनी
अस्मै शिष्याय आचार्यः श्रुतिविप्रतिषिद्ध शास्त्रविप्रतिषिद्धमुच्छिष्टं न दद्यात् ॥५॥
06 यथा क्षारलवणमधुमांसानीति ...{Loading}...
यथा क्षार-लवण-मधु-मांसानीति ६
सर्वाष् टीकाः ...{Loading}...
Bühler
- Such as pungent condiments, salt, honey, or meat (and the like). 1
हरदत्त-टीका
सूत्रम्
यथा क्षारलवणमधुमांसानीति ॥ ६ ॥
प्रस्तावः
किं पुनस्तत्—
टिप्पनी
यथेतिवचना’च्छ्रुतिविप्रतिषिद्ध’मिति लक्षणतः प्रतिषेधाच्च क्षारादिग्रहणमेवंविधस्योपलक्षणम् ॥६॥
07 एतेनान्ये नियमा व्याख्याताः ...{Loading}...
एतेनान्ये नियमा व्याख्याताः ७
सर्वाष् टीकाः ...{Loading}...
Bühler
- By this (last Sūtra it is) explained (that) the other restrictions (imposed upon a student, such as abstinence from perfumes, ointments, &c., are likewise not to be broken). 2
हरदत्त-टीका
सूत्रम्
एतेनान्ये नियमा व्याख्याताः ॥ ७ ॥
टिप्पनी
अभ्यङ्गशेषो गन्धशेषो माल्यशेष इत्यादयो ब्रह्मचारिणः प्रतिषिद्धा आचार्येण न देया इत्युक्तं भवति ॥ ७॥
08 श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ...{Loading}...
श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ८
सर्वाष् टीकाः ...{Loading}...
Bühler
- For (explicit) revealed texts have greater force than custom from which (the existence of a permissive passage of the revelation) may be inferred. 3
हरदत्त-टीका
सूत्रम्
श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ॥ ८॥
प्रस्तावः
केचित्तु श्रुतिविप्रतिषिद्धमाचार्यशेषमुपयुञ्जाना दृश्यन्ते पूर्वः पूर्व आचारः प्रमाणमिति वदन्तः । तानिराकरोति—
टिप्पनी
अनुमानाय प्रभवतीत्यानुमानिकः । आचाराद्धि श्रुतिः स्मृतिर्वाऽनुमीयते । तस्मादानुमानिकादाचारात्प्रत्यक्षश्रुतिर्बलीयसी । तद्विरोधे तु नानुमातुं शक्यते,4 ‘अनुमानमबाधितम्’ इति न्यायात् । एवं च ब्रुवता ब्रह्मचारिणः क्षारलवणादिप्रतिषेधः प्रत्यक्षब्राह्मणमूल इति दर्शितं भवति । यद्यपि क्षारादिप्रतिषेधश्रुतेरुच्छिष्टव्यतिरिक्तो विषयः सम्भवति तथापि सङ्कोचोऽपि तस्या अविशेषप्रवृत्ताया आनुमानिकादाचारादयुक्तः॥ ८॥
09 दृश्यते चापि प्रवृत्तिकारणम् ...{Loading}...
दृश्यते चापि प्रवृत्तिकारणम् ९
सर्वाष् टीकाः ...{Loading}...
Bühler
- Besides (in this particular case) a (worldly) motive for the practice is apparent. 5
हरदत्त-टीका
सूत्रम्
दृश्यते चापि प्रवृत्तिकारणम् ॥९॥
प्रस्तावः
ननु परस्परविरुद्धा अपि श्रुतय उपलभ्यन्ते 6 ‘गृह्णाति, न गृह्णाती’ति । तत्किमाचारात् सङ्कोचिका श्रुतिर्नानुमीयते ? अत आह—
टिप्पनी
स्यादेव यद्ययमाचारोऽगृह्यमाणकारणः स्यात् । गृह्यते तु तत्र कारणम् ॥९॥
10 प्रीतिर्ह्य् उपलभ्यते ...{Loading}...
प्रीतिर्ह्य् उपलभ्यते १०
सर्वाष् टीकाः ...{Loading}...
Bühler
- For pleasure is obtained (by eating or using the forbidden substances). 7
हरदत्त-टीका
सूत्रम्
प्रीतिर्ह्युपलभ्यते ॥ १० ॥
प्रस्तावः
किं तत् ?
टिप्पनी
क्षारादिभोजने भुञ्जानस्य प्रीतिर्भवति। ततश्च यत्र प्रीत्युपलब्धितप्रवृत्तिर्न तत्र शास्त्रमस्ति। तदनुवर्तमाना नरकाय राध्यतीति न्यायान्न सङ्कोचिका श्रुतिरनुमीयते इति ॥ १०॥
11 पितुर् ज्येष्ठस्य च ...{Loading}...
पितुर् ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोक्तव्यम् ११
सर्वाष् टीकाः ...{Loading}...
Bühler
- A residue of food left by a father and an elder brother, may be eaten.
12 धर्मविप्रतिपत्ताव् अभोज्यम् ...{Loading}...
धर्म-विप्रतिपत्ताव् अभोज्यम् १२
सर्वाष् टीकाः ...{Loading}...
Bühler
- If they act contrary to the law, he must not eat (their leavings). 8
हरदत्त-टीका
सूत्रम्
धर्मविप्रतिपत्तावभोज्यम् ॥ १२ ॥
टिप्पनी
यदि तयोर्धर्माद्विप्रतिपत्तिरपायो भवति ततो न भोज्यम् । यद्वा भुञ्जानस्य ब्रह्मचारिणो धर्मविप्रतिषेधो भवति मधुमांसादिमिश्रत्वेन ततो न भोज्यमिति ॥१२॥
13 सायम् प्रातर् उदकुम्भम् ...{Loading}...
सायं प्रातर् उदकुम्भम् आहरेत् १३
सर्वाष् टीकाः ...{Loading}...
Bühler
- In the evening and in the morning he shall fetch water in a vessel (for the use of his teacher). 9
हरदत्त-टीका
सूत्रम्
सायं प्रातरुदकुम्भमाहरेत् ॥१३॥
टिप्पनी
आचार्यस्य स्नानपानार्थम् ॥ १३॥
14 सदारण्याद् एधान् आहृत्याधो ...{Loading}...
सदारण्याद् एधान् आहृत्याधो निदध्यात् १४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Daily he shall fetch fuel from the forest, and place it on the floor (in his teacher’s house). 10
हरदत्त-टीका
सूत्रम्
6सदाऽरण्यादेवानाहत्याऽधो निदध्यात् ॥१४॥
टिप्पनी
सदा प्रत्यहम् अरण्यात् न पित्रादि-गृहाद् एधान् काष्ठानि आचार्यगृहे पाकाद्यर्थम् आहरेत्, आहृत्य चाऽधो निदध्यात् अधोनिधानमाचार्यपुत्रादिषु बालेषु पतनशङ्कया।
अपर आह-
आत्मनस् समिदाधानार्थम्11 एधाहरणम् इति ।
उक्तं गृह्ये-12 एवम् अन्यस्मिन्न् अपि सदाऽरण्याद् एधानाहृत्य । इति। तद्-अनुवादेनाधोनिधानं विधीयते दृष्टार्थमदृष्टार्थं वेति ॥१४॥
15 नास्तम् इते समिद्धारो ...{Loading}...
नास्तम् इते समिद्धारो गच्छेत् १५
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not go to fetch firewood after sunset.
हरदत्त-टीका
सूत्रम्
नास्तमिते समिद्धारो गच्छेत् ॥ १५ ॥
टिप्पनी
अस्तमित आदित्ये समिध आहर्तुं न गच्छेत् ; चोरव्याघ्रादिसम्भवात् । ‘समिद्धार’ इति 13 ‘अण् कर्मणि चे’ति तुमर्थेऽण्प्रत्ययः ॥ १५ ॥
16 अग्निम् इद्ध्वा परिसमूह्य ...{Loading}...
अग्निम् इद्ध्वा परिसमूह्य समिध आदध्यात् सायं प्रातर् यथोपदेशम् १६
सर्वाष् टीकाः ...{Loading}...
Bühler
- After having kindled the fire, and having swept the ground around (the altar), he shall place 14 the sacred fuel on the fire every morning and evening, according to the prescription (of the Gṛhya-sūtra).
हरदत्त-टीका
सूत्रम्
अग्निमिध्वा परिसमूह्य समिध आदध्यात्सायंप्रातर्यथोपदेशम् ॥ १६ ॥
टिप्पनी
परिसमूहनं परितो मार्जनम् । विप्रकीर्णस्याग्ने15रेकीकरणमित्यन्ये । यथोपदेशं यथा गृह्य उक्तं तथा समिध आदध्यात् । गृह्ये विहितमपि समिदाधानं विधीयते सर्वाचरणार्थम् । सायं प्रातरित्यादिकान्विशेषाः न वक्ष्यामीति च ॥ १६ ॥
17 सायम् एवाग्निपूजेत्य् एके ...{Loading}...
सायम् एवाग्नि-पूजेत्य् एके १७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Some say that the fire is only to be worshipped in the evening.
हरदत्त-टीका
सूत्रम्
सायमेवाऽग्निपूजेत्येके ॥ १७ ॥
टिप्पनी
एके आचार्यास्सायमेवाग्निपूजा कार्या, न प्रातरिति मन्यन्ते ॥ १७ ॥
18 समिद्धम् अग्निम् पाणिना ...{Loading}...
समिद्धम् अग्निं पाणिना परिसमूहेन् - न समूहन्या १८
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall sweep the place around the fire after it has been made to burn (by the addition of fuel), with his hand, and not with the broom (of Kuśa grass). 16
हरदत्त-टीका
सूत्रम्
समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या ॥ १८ ॥
टिप्पनी
सामिदाधाने समिद्धमग्निं पाणिनैव परिसमूहेत्, न समूहन्या । समूहनी सम्मार्जनी दर्भनिर्मिता वेदाकृतिः, आचारात् ॥ १८ ॥
19 प्राक् तु याथाकामी ...{Loading}...
प्राक् तु याथाकामी १९
सर्वाष् टीकाः ...{Loading}...
Bühler
- But, before (adding the fuel, he is free to use the broom) at his pleasure
हरदत्त-टीका
सूत्रम्
प्राक्तु याथाकामी ॥ १९ ॥
टिप्पनी
प्राक्समिदाधानात् परिसमूहने याथाकामी भवति । यथाकामस्य भावो याथाकामी । ष्यञ्, षित्वादीकारः ॥ १९ ॥
20 नाग्न्य्उदकशेषेण वृथाकर्माणि कुर्वीताऽऽचामेद् ...{Loading}...
नाग्न्य्-उदक-शेषेण वृथा-कर्माणि कुर्वीताऽऽचामेद् वा २०
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not perform non-religious acts with the residue of the water employed for the fire-worship, nor sip it. 17
हरदत्त-टीका
सूत्रम्
नारन्युदकशेषेण वृथाकर्माणि कुर्वीताऽऽचामेद्वा ॥२०॥
टिप्पनी
अग्निपरिचर्यायां परिसमूहने परिषेचने च यदुपयुक्तमुदकं, तच्छषेण वृथाकर्माणि अदृष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत। नाऽप्याचामेत् । अवृथाकर्मवादस्य पुनःप्रतिषेधः ॥ २० ॥
21 पाणिसङ्क्षुब्धेनोदकेनैकपाण्याऽऽवर्जितेन च नाचामेत् ...{Loading}...
पाणि-संक्षुब्धेनोदकेनैक-पाण्याऽऽवर्जितेन च नाचामेत् २१
सर्वाष् टीकाः ...{Loading}...
Bühler
- He shall not sip water which has been stirred with the hand, nor such as has been received into one hand only.
हरदत्त-टीका
सूत्रम्
पाणिसंक्षुब्धेनोदकेनैकपाण्यावर्जितेन च नाऽऽचामेत् ॥ २१ ॥
टिप्पनी
पाणिसंक्षुब्धं 4पाणिना संक्षोभितं तेनोदकेन नाऽऽचामेत् । इदं तटाकादिषु स्वयमाचमने । यदा पर आचामयति, तदैकेन पाणिना यदावर्जितं तेन नाऽऽचामेत्। किं तु उभाभ्यां हस्ताभ्यां करकादि गृहीत्वा यदावर्जितमुदकं, तेनैवाऽऽचामेत् । एवं च स्वयं वामहस्तावर्जितेनापि नाचामेत् । ( अलाबुपात्रेण नालिकेरजेन वैणवेन चर्ममयेन ताम्रमयेन वा पात्रेण स्वयमाचमनमाचरन्ति शिष्टाः) ॥ २१ ॥
22 स्वप्नञ् च वर्जयेत् ...{Loading}...
स्वप्नं च वर्जयेत् २२
सर्वाष् टीकाः ...{Loading}...
Bühler
- And he shall avoid sleep (whilst his teacher is awake).
हरदत्त-टीका
सूत्रम्
स्वप्नं च वर्जयेत् ॥ २२ ॥
टिप्पनी
पूर्व’मदिवास्वापी’(१. २. २८)त्यनेन 6दिवास्वापः प्रतिषिद्धः। अनेन रात्रावपि यावदाचार्यों न स्वपिति, तावन्तं कालं स्वापः प्रतिषिध्यते। स्वप्नकथनं वर्जयेदित्येके ॥ २२ ॥
23 अथाहरहराचार्यङ् गोपायेद् धर्मार्थयुक्तैः ...{Loading}...
अथाहरहराचार्यं गोपायेद् धर्मार्थयुक्तैः कर्मभिः २३
सर्वाष् टीकाः ...{Loading}...
Bühler
- Then (after having risen) he shall assist his teacher daily by acts tending to the acquisition of spiritual merit and of wealth. 18
हरदत्त-टीका
सूत्रम्
अथाऽहरहराचार्यं गोपायेद्धार्थयुक्तः कर्मभिः ॥ २३ ॥
टिप्पनी
अथ स्वप्नस्य प्रकृतत्वात् स्वप्नानन्तरं ब्राह्मे मुहूर्त उत्थायेत्यर्थः । अहरहः नित्यमाचार्यं गोपायेत् रक्षेत् । किं दण्डादि गृहीत्वा ? नेत्याह— धर्मार्थयुक्तैः कर्मभिः । धर्मयुक्तानि कर्माणि समित्कुशपुष्पाहरणादीनि, अर्थयुक्तानि 4युग्यघासाहरणादीनि ॥ २३ ॥
24 स गुप्त्वा संविशन्ब्रूयाद्धर्मगोपायमाजूगुपमहमिति ...{Loading}...
स गुप्त्वा संविशन्ब्रूयाद्धर्मगोपायमाजूगुपमहमिति २४
सर्वाष् टीकाः ...{Loading}...
Bühler
- Having served (his teacher during the day in this manner, he shall say when going to bed): I have protected the protector of the law (my teacher). 19
हरदत्त-टीका
सूत्रम्
6 स गुप्त्वा संविशन् ब्रूया’द्धर्म गोपाय माजूगुपमह’मिति ॥ २४ ॥
टिप्पनी
स11ब्रह्मचारी धर्मार्थयुक्तैः कर्मभिर्यावदुत्थानात् यावदस्य संवेशनात् एवमाचार्यं गुप्त्वा सविशन् शयनं भजन् 12 ‘धर्मगोपायमाजूगुपमह’मितीमं मन्त्रं ब्रूयात् । धर्मं गोपायतीति धर्मगोपाय । आचार्यः तमहमाजूगुपमाभिमूख्येन रक्षितवानस्मि, इदानीं तु संविशामीति मन्त्रार्थः ।
अपर आह- हे धर्म मा मां गोपाय रक्ष यस्मादहं आजूगुपमहमाचार्यमेतावन्तं कालमिति ॥ २४॥
25 प्रमादादाचार्यस्य बुद्धिपूर्वं वा ...{Loading}...
प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि बोधयेत् २५
सर्वाष् टीकाः ...{Loading}...
Bühler
- If the teacher transgresses the law through carelessness or knowingly, he shall point it out to him privately.
हरदत्त-टीका
सूत्रम्
प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि बोधयेत् ॥ २५ ॥
टिप्पनी
प्रमादोऽनवधानम् । प्रमादात् बुद्धिपूर्वं यो आचार्यस्य वा नियमातिक्रमस्त रहसि बोधयेत् । इत्थमयं नियमः पूज्यपादैरतिक्रम्यते इति ॥ २५ ॥
26 अनिवृत्तौ स्वयङ् कर्माण्यारभेत ...{Loading}...
अनिवृत्तौ स्वयं कर्माण्यारभेत २६
सर्वाष् टीकाः ...{Loading}...
Bühler
- If (the teacher) does not cease (to transgress), he himself shall perform the religious acts (which ought to be performed by the former); 20
हरदत्त-टीका
सूत्रम्
अनिवृत्तौ स्वयं कर्माण्यारभेत ॥ २६ ॥
टिप्पनी
यदि बोधितोऽप्याचार्यस्ततो न निवर्तते, ततः स्वयमेव तस्य कर्तव्यानि ब्रह्मयज्ञादीनि कर्माण्यारभते कुर्यात् ॥ २६ ॥
27 निवर्तयेद्वा ...{Loading}...
निवर्तयेद्वा २७
सर्वाष् टीकाः ...{Loading}...
Bühler
- Or he may return home.
हरदत्त-टीका
सूत्रम्
निवर्तयेद्वा ॥ २७ ॥
टिप्पनी
प्रसह्य वा स्वयं निवर्तयेत् । पित्रादिभिर्वा निवर्तयेत् ॥ २७ ॥
28 अथ यः पूर्वोत्थायी ...{Loading}...
अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति २८
सर्वाष् टीकाः ...{Loading}...
Bühler
- Now of him who rises before (his teacher) and goes to rest after (him), they say that he does not sleep.
हरदत्त-टीका
सूत्रम्
अथ यः पृर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति ॥ २८ ॥
टिप्पनी
या पूर्वमाचार्यादुत्तिष्ठति प्रतिबुध्यते । जघन्यशब्दः पश्चादर्थे । जघन्यश्च संविशति, तं ब्रह्मचारिणं न स्वपितीति धर्मज्ञा आहु । प्रयोजनमुपनयने ‘मा सुषुप्था’ इति संशासनस्यायमर्थः, न स्वापस्यात्यन्ताभाव इति । अथशब्दश्च वाक्योपक्रमे ॥ २८॥
29 स य एवम् ...{Loading}...
स य एवं प्रणिहितात्मा ब्रह्मचार्यत्रैवास्य सर्वाणि कर्माणि फलवन्त्यवाप्तानि भवन्ति यान्यपि गृहमेधे २९
सर्वाष् टीकाः ...{Loading}...
Bühler
- The student who thus entirely fixes his mind there (in the teacher’s family), has thereby performed all acts which yield rewards (such as the Jyotiṣṭoma), and also those which must be performed by a householder. 21
हरदत्त-टीका
सूत्रम्
स य एवं प्रणिहितात्मा ब्रह्मचार्यत्रैवास्थ सर्वाणि कर्माणि फलवन्त्यवाप्तानि भवन्ति यान्यपि गृहमेधे ॥२९॥
टिप्पनी
‘आचार्याधीनः स्या’दित्यारभ्य यस्य नियमा उक्ताः, स ब्रह्मचारी, एवमुक्तेन प्रकारेण, प्रणिहितात्मा प्रकर्षेण निहित आचार्यकुले स्थापित आत्मा येन स तथोक्तः । प्रकर्षश्च4आत्मनस्तत्रैव शरीरन्यासः । वक्ष्यति 6आचार्यकुले शरीरन्यासः” इति । अस्यैवंविधस्य ब्रह्म चारिणः अत्रैव ब्रह्मचर्याश्रमे सर्वाणि फलवन्ति ज्योतिष्टोमादीनि कर्माण्यवाप्तानि भवन्ति । तत्फलावाप्तिरेव तदवाप्तिः । यान्यपि कर्माणि गृहमेधे गृह्यशास्त्रे विवाहाद्यष्टकान्तानि, तान्यवाप्तानि भवन्ति । तदेवं नैष्ठिकब्रह्मचारिविषयमिदं सूत्रम् ॥ २९ ॥
इत्यापस्तम्बीये धर्मसूत्रे चतुर्थी कण्डिका ॥४॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ11 हरदत्तविरचितायामुज्वलायां प्रथमप्रश्ने प्रथमः पटलः ॥ १ ॥
इति प्रथमः पटलः
-
- See above, I, 1, 2, 23.
-
See above, I, 1, 2, 24 seq.:–According to Haradatta, teachers were in the habit of giving ointments and the like forbidden substances to their pupils, and Āpastamba gives this rule in order to show his dissent from the practice. ↩︎
-
‘Ānumānika’ means “proper to be inferred from.” For the existence of a text of the revelation or tradition (Smṛti) is inferred from custom. A visible text of the revelation is (however) of greater weight than a custom from which the existence of a text may be inferred. It is impossible to infer (the existence of a text) which is opposed to such (a visible text), on account of the maxim “an inference (can be made only, if it is) not opposed (by ocular proof).” (Āpastamba), by speaking thus, (“For revealed texts,” &c.,) shows that the rule forbidding a student to eat pungent condiments, salt &c. is based on the existing text of a Brāhmaṇa.’ –Haradatta. ↩︎
-
‘Though the text forbidding the use of pungent condiments salt, and the like refers to such substances if they are not leavings, still it is improper to assert, on the ground of the custom from which a permissive text may be inferred, that it (the existing text), which is general, must be restricted (to those cases only) where the forbidden substances are not leavings given by the teacher. (If an opponent should answer that) certainly there are also texts which contradict each other, such as “he takes” and “he does not take,” and that therefore there is no reason why a text restricted (to the case in which forbidden substances are leavings of the teacher) should not be inferred. In order to answer (that plea), he (Āpastamba) says (Sūtra 9), “True, that would be right if no motive whatever could be discovered for that custom (to eat forbidden food which is given by the teacher). But a reason for this course of action exists.”’–Haradatta. ↩︎
-
अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति, इति श्रुतिभ्यामेकस्मिन्नेवातिरात्रसंस्थाके ज्योतिष्टोमे षोडशिसंज्ञस्य प्रहस्य ग्रहणाग्रहणयोः परस्परविरुद्धयोर्विधानात् तयोरपि श्रुत्योः परस्परं विरोधादिति भावः । उलूखलाकार उपर्यासेचनवान् पात्रविशेषो ग्रहः । खदिरवृक्षनिर्मितो ग्रहविशेषष्षोडशी। तस्य सोमरसेन पूरणं ग्रहणम् । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
‘What is that (reason)? [Sūtra 10] For to eat pungent condiments, salt, &c. gives pleasure to the eater, and therefore according to the maxim, I, 4, 12, 11, “That in case a custom has pleasure for its motive, there is no text of the holy law to authorise it,” no text restricting (the prohibition of forbidden substances to the case in which a Brahmacārin does not receive them as leavings from his teacher) can be inferred (from the practice of eating such leavings).’–Haradatta. ↩︎
-
Another explanation of this Sūtra is given by Haradatta: ‘If by eating their leavings he should commit a sin (because the food contains salt &c.), he shall not do it.’ ↩︎
-
Manu II, 182. ↩︎
-
The reason for placing the fuel on the ground is, according to Haradatta, the fear lest, if placed on some shelf or the like, it should tumble down and injure the teacher’s children. Others however, are of opinion that the wood which the pupil fetches daily, is not to be used by the teacher for cooking, but for the performance of the pupil’s daily fire-offering. The reason for this interpretation is, that in the Gṛhya-sūtra, II, 24, the daily offering of fuel is enjoined with the same words. See Weber, Ind. Stud. X, 123; Manu II, 186. ↩︎
-
पा० सू० ३. ३. १२. ↩︎
-
Some explain, instead of ‘after having swept the ground around the altar,’ &c., ‘after having raked the scattered brands into a heap.’–Haradatta. ↩︎
-
राशीकरणमित्यन्ये इति ख० ग० पु. ↩︎
-
Āp. Gṛ. Sū. II, 22. ↩︎
-
During the fire-worship water is wanted for sprinkling the altar in various ways. ↩︎
-
Acts tending to the acquisition of merit are here–collecting sacred fuel, Kuśa grass, and flowers for sacrifices. Acts tending to the acquisition of wealth are–gathering fuel for cooking, &c. Manu II, 182; Weber, Ind. Stud. X, 123 and 124. ↩︎
-
Another explanation of the words spoken by the student is, ‘O law, I have protected him; protect thou me.’ See also Gopatha-brāhmaṇa, 1, 2, 4. ↩︎
-
Compare above, I, 1, 1, 13. ↩︎
-
The Sūtra refers to a naiṣṭhika brahmacārin or professed student, who never leaves his teacher’s family, and never enters any other order; and it declares his merit to be equal to that of one who becomes a householder. Manu II, 243, 244; Yājñ. I, 49, 50. ↩︎