मूलम् (संयुक्तम्)
यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ शीर्ष॒ण्वान्मेध्यो॑ भवत्यु॒षा वा अश्व॑स्य॒ मेध्य॑स्य॒ शिर॒स्सूर्य॒श्चक्षु॒र्वातᳶ॑ प्रा॒णश्च॒न्द्रमा॒श्श्रोत्र॒न्दिश॒ᳶ पादा॑ अवान्तरदि॒शाᳶ पर्श॑वोऽहोरा॒त्रे नि॑मे॒षो॑ऽर्धमा॒साᳶ पर्वा॑णि॒ मासाः॑ स॒न्धाना॑न्यृ॒तवोऽङ्गा॑नि सव्ँवत्स॒र आ॒त्मा र॒श्मय॒ᳵ केशा॒ नक्ष॑त्राणि रू॒पन्तार॑का अ॒स्थानि॒ नभो॑ माँ॒सान्योष॑धयो॒ लोमा॑नि॒ वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुखव्ँ॑ वैश्वान॒रो व्यात्त॑म् [53]
स॒मु॒द्र उ॒दर॑म॒न्तरि॑क्षम्पा॒युर्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेप॒स्सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तत्स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑र्षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता॑ज्जायते॒ रात्रि॑रेनम्महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒वश्व॑म॒भित॒स्सम्ब॑भूवतु॒र्हयो॑ दे॒वान॑वह॒दर्वासु॑रान्वा॒जी ग॑न्ध॒र्वानश्वो॑ मनु॒ष्या॑न्त्समु॒द्रो वा अश्व॑स्य॒ योनि॑स्समु॒द्रो बन्धुः॑ ॥ [54]
विश्वास-प्रस्तुतिः
यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ , शीर्ष॒ण्वान् मेध्यो॑ भवति ।
उ॒षा वा अश्व॑स्य॒ मेध्य॑स्य॒ शिर॒स् , सूर्य॒श् चक्षु॒र् , वातᳶ॑ प्रा॒णश् , च॒न्द्रमा॒श् श्रोत्र॒न् , दिश॒ᳶ पादा॑ ,
अवान्तरदि॒शाᳶ पर्श॑वो , ऽहोरा॒त्रे नि॑मे॒षो॑ , ऽर्धमा॒साᳶ पर्वा॑णि॒ , मासाः॑
स॒न्धाना॑न्य् , ऋ॒तवोऽङ्गा॑नि , सव्ँवत्स॒र आ॒त्मा , र॒श्मय॒ᳵ केशा॒ , नक्ष॑त्राणि रू॒पन् , तार॑का अ॒स्थानि॒ ,
नभो॑ माँ॒सान्य् ओष॑धयो॒ लोमा॑नि॒ , वन॒स्पत॑यो॒ वाला॑ , अ॒ग्निर्मुखव्ँ॑ , वैश्वान॒रो व्यात्त॑म् ।[53]
स॒मु॒द्र उ॒दर॑म् , अ॒न्तरि॑क्षम् पा॒युर् , द्यावा॑पृथि॒वी आ॒ण्डौ , ग्रावा॒ शेप॒स् , सोमो॒ रेतो॒ , यज् ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ ,
यद् वि॑धूनु॒ते तत्स्त॑नयति॒ , यन् मेह॑ति॒ तद्व॑र्षति॒ , वागे॒वास्य॒ वाग् ,
अह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता॑ज् जायते ,
रात्रि॑र् एनम् महि॒मा प॒श्चादनु॑ जायते ।
ए॒तौ वै म॑हि॒माना॒व् अश्व॑म् अ॒भित॒स् सम्ब॑भूवतुः ।
हयो॑ दे॒वान॑वह॒दर्वासु॑रान् वा॒जी ग॑न्ध॒र्वान् , अश्वो॑ मनु॒ष्या॑न्त् ,
समु॒द्रो वा अश्व॑स्य॒ योनि॑स् , समु॒द्रो बन्धुः॑ ॥ [54]
मूलम्

भट्टभास्कर-टीका
(SB) 1अथान्तिमे अनुवाके सर्वजगदात्मकत्वेनाश्वः स्तयूते । अथवा विराड्रूपेण अश्वोपासनप्रतिपादकोऽयमनुवाकः । प्रकरणादुत्कृष्योपनिषदादौ आमनन्ति । य इति ॥ यः पुमान् मेध्यस्य यागयोग्यस्य अश्वस्य शिरो वेद शिरःप्रभृतीनवयवात् विराडवयवंभूतोषःकालादिरूपेणोपास्ते सोऽयं शीर्षण्वान् उषःकालादिरूपैः शिरःप्रभृतिभिः विराडवयवैर्युक्तो मेध्यः यागफलयोग्यो भवति । क्रत्वनुष्ठानस्य चोपासनस्य च समानं फलम् । तथा च पञ्चमकाण्डे समाम्नातं ‘सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योश्वमेधेन यजते य उचैनमेवं वेद’ इति । तत्र कस्मिन्नश्वावयवे को विराडवयवो ध्यातव्य इति तत्सर्वमुच्यते । मेध्यस्याश्वस्य यच्छिरः तत् उषाः उषःकालरूपम् । यदश्वस्य चक्षुः तत्सूर्यः । यः तदीयः प्राणः सोऽयं बाह्यो वायुः । यत्तदीयं श्रोत्रं सोयं चन्द्रमाः । ये तदीयाः पादाः ताः प्राच्यादिदिशः । ये पर्शवः पार्श्वास्थिविशेषाः ता इमा आग्नेय्याद्यवान्तरदिशाः । यस्तदीयो निमेष उन्मेषसहितः ते उभे अहोरात्रे । यानि तदीयहस्तपादगतपर्वाणि ते शुक्लकृष्णपक्षरूपा अर्धमासाः । यानि च पर्वणां सन्धानानि ते चैत्राद्या मासाः । यानि चानुक्तविशेषाणि खुराद्यङ्गानि ते वसन्ताद्यृतवः । यः आत्मा मध्यदेहः स संवत्सरकालः । ये तदीयाः केशाः ते सूर्यरश्मयः । यदश्वस्य भास्वरं रूपं तानि कृत्तिकादिनक्षत्राणि । यान्युक्तान्यस्थीनि तानि बृहस्पतिशुक्रध्रुवाद्याः प्रौढतारकाः । यानि तत्रतत्र स्थितानि मांसखण्डानि तदेतन्नभः । यानि क्षुद्रलोमानि ता ओषधयः । ये वालाः पुच्छगता दीर्घकेशाः ते वनस्पतयः । यदेतन्मुखं सम्पद्यते अयं लोकप्रसिद्धोऽग्निः । यत् व्यात्तं मुखविदारणं सोयं वैश्वानरनामको देवताविशेषः । यदुदरं सोयं समुद्रः । यः पायुः तदन्तरिक्षम् । यदाण्डौ ते द्यावापृथिव्यौ । यत् शेपः सोयमभिषवार्थो ग्रावा । यद्रेतः स सोमरसः । यत् जञ्जभ्यते गात्राणि विनामयति सेयं विद्युत् । यत् विधूनुते सशब्दं शरीरं कम्पयति तदेतद्गर्जनम् । यदेतन्मेहनं सेयं वृष्टिः । अस्य हेषाशब्दरूपा या वाक् सेयं वेदरूपा वागेव । जायमानम्य क्रतौ प्रयुज्यमानस्याश्वस्य यः संज्ञपनात् पुरस्तान्महिमाख्यो राजतग्रहः तदिदमहरेव । एनं पश्चात् एतस्याश्वस्य संज्ञपनादूर्ध्वं यो महिमाख्यः सौवर्णग्रहः सेयं रात्रिः । एतौ एवोभौ महिमानौ ग्रहौ अश्वमभितः सम्बभूवतुः अश्वस्य संज्ञपनात् पूर्वं पश्चाच्च व्यवस्थितौ । हयार्ववाज्यश्वाः अवान्तरजातिविशेषाः तत्तद्रूपेण देवादीन् वहन्ति । एवंविधस्य विराड्रूपस्याश्वस्य समुद्र एव योनिः कारणम् । सम्यगुद्रवत्युत्पद्यते जगदस्मादिति समुद्रः परमात्मा; न ह्यन्यस्मादयं विराडुत्पत्तुमर्हति । स एवास्य बन्धुः स्तम्भः स्थितिहेतुरित्यर्थः । एवमुपासिता पापक्षयद्वारा विराड्रूपं प्राप्नोति, ‘तं यथायथोपाप्तते तथैव भवति’ इति श्रुत्यन्तरात् । विराट्प्राप्तिश्च क्रममुक्तिहेतुः तत्र ज्ञानोत्पत्तौ सत्यां तेन विराजा सह मुच्यमानत्वात् । तथा च स्मृतिः - ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥
इति । एतच्च भगवान् व्यासः - ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्’ इत्यस्मिन्नधिकरणे महता प्रबन्धेन प्रतिपादयामास इत्यशेषमतिमङ्गलम् ॥
इति माधवीये सप्तमे पञ्चमे पञ्चविंशोनुवाकः ॥ समाप्तं च सप्तमं काण्डम् ॥