२४

मूलम् (संयुक्तम्)

ये ते॒ पन्था॑नस्सवितᳶ पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभि॑स्सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ।

विश्वास-प्रस्तुतिः

ये ते॒ पन्था॑नस् सवितᳶ पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभि॑स् सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ।

मूलम्

ये ते॒ पन्था॑नस् सवितᳶ पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभि॑स् सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ।

भट्टभास्कर-टीका

(SB) 1ये इत्यादि ॥ हे सवितर्देव ते तव सम्बन्धिनः पूर्व्यासः पूर्वसिद्धाः अन्तरिक्षे वितताः विस्तृताः अरेणवः धूलिरहिताः ये मार्गाः सन्ति सुगेभिः सुष्ठु गन्तुं शक्यैः तेभिः तैर्मार्गैरागत्य अद्य अस्मिन्कर्मणि नः अस्मान् रक्ष । तथा नः अस्मान् अधिब्रूहि च अधिकोऽयं यजमान इति देवानामग्रे कथय च ॥

मूलम् (संयुक्तम्)

नमो॒ऽग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवे॑ऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नम॒स्सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि ॥ [52]

विश्वास-प्रस्तुतिः

नमो॒ऽग्नये॑ पृथिवि॒क्षिते॑ , लोक॒स्पृते॑ , लो॒कम॒स्मै यज॑मानाय देहि ।
नमो॑ वा॒यवे॑ऽन्तरिक्ष॒क्षिते॑ , लोक॒स्पृते॑ , लो॒कम् अ॒स्मै यज॑मानाय देहि ।
नम॒स् सूर्या॑य दिवि॒क्षिते॑ , लोक॒स्पृते॑ , लो॒कम॒स्मै यज॑मानाय देहि ॥ [52]

2नम इति ॥ पृथिविक्षिते भूनिवासिने लोकस्पृते लोकस्य प्रीणयित्रे अग्नये नमः अस्तु । अस्मै यजमानाय लोकं उत्तमस्थानं देहि । एवमुत्तरयोरपि योज्यम् ॥

इति माधवीये सप्तमे पञ्चमे चतुर्विंशोनुवाकः ॥