२३

मूलम् (संयुक्तम्)

अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पाल॒ इन्द्रा॑याँहो॒मुच॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्यामागो॒मुग्भ्या॑म्पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्या॑ञ्च॒रुर॒श्विभ्या॑मागो॒मुग्भ्या॑न्धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्य॑स्स॒प्तक॑पालो॒ विश्वे॑भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॑मँहो॒मुग्भ्या॑न्द्विकपा॒लः ॥ [49]
अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै सम॑नम॒द्यथा॒ग्निᳶ पृ॑थि॒व्या स॒मन॑मदे॒वम्मह्य॑म्भ॒द्रास्सन्न॑तय॒स्सन्न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑क्षाय॒ सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑क्षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒ सूर्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नक्ष॑त्रेभ्य॒स्सम॑नम॒द्यथा॑ च॒न्द्रमा॒ नक्ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्यस्सम॑नम॒द्यथा॑ [50]
वरु॑णो॒ऽद्भिस्साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नमत्क्ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ क्ष॒त्रेण॒ राज्ञे॒ सम॑नमद्वि॒शे सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑य॒ सम॑नम॒दश्वे॑भ्य॒स्सम॑नम॒द्यथा॒ रथोऽश्वैः॑ प्र॒जाप॑तये॒ सम॑नमद्भू॒तेभ्य॒स्सम॑नम॒द्यथा॑ प्र॒जाप॑तिर्भू॒तैस्स॒मन॑मदे॒वम्मह्य॑म्भ॒द्रास्सन्न॑तय॒स्सन्न॑मन्तु ॥ [51]

विश्वास-प्रस्तुतिः

अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पालः । इन्द्रा॑याँहो॒मुच॒ एका॑दशकपालः । मि॒त्रावरु॑णाभ्यामागो॒मुग्भ्या॑म् प॒यस्या॑ ।
वा॒यो॒सा॒वि॒त्र आ॑गो॒मुग्भ्या॑ञ्च॒रुः । अ॒श्विभ्या॑म् आगो॒मुग्भ्या॑न् धा॒नाः ।
म॒रुद्भ्य॑ एनो॒मुग्भ्य॑स् स॒प्तक॑पालः । विश्वे॑भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लः । अनु॑मत्यै च॒रुः ।
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालः । द्यावा॑पृथि॒वीभ्या॑मँहो॒मुग्भ्या॑न् द्विकपा॒लः ॥ [49]

अ॒ग्नये॒ सम॑नमत् पृथि॒व्यै सम॑नमत् । यथा॒ग्निᳶ पृ॑थि॒व्या स॒मन॑मद् ए॒वम् मह्य॑म् भ॒द्रास् सन्न॑तय॒स् सन्न॑मन्तु ।
वा॒यवे॒ सम॑नमद् , अ॒न्तरि॑क्षाय॒ सम॑नमत् । यथा॑ वा॒युर॒न्तरि॑क्षेण॒ सूर्या॑य॒ सम॑नमद् , दि॒वे सम॑नमत् ।
यथा॒ सूर्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नमत् । नक्ष॑त्रेभ्य॒स् सम॑नमत् । यथा॑ च॒न्द्रमा॒ नक्ष॑त्रै॒र् वरु॑णाय॒ सम॑नमत् ।
अ॒द्भ्यस् सम॑नमत् । यथा॒ वरु॑णो॒ऽद्भिस् साम्ने॒ सम॑नमद् , ऋ॒चे सम॑नमत् । [50]
यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नमत् क्ष॒त्राय॒ सम॑नमत् ।
यथा॒ ब्रह्म॑ क्ष॒त्रेण॒ राज्ञे॒ सम॑नमद् , वि॒शे सम॑नमत् ।
यथा॒ राजा॑ वि॒शा रथा॑य॒ सम॑नम॒द् अश्वे॑भ्य॒स् सम॑नमत् ।
यथा॒ रथोऽश्वैः॑ प्र॒जाप॑तये॒ सम॑नमद् भू॒तेभ्य॒स् सम॑नमत् ।
यथा॑ प्र॒जाप॑तिर्भू॒तैस् स॒मन॑मद् , ए॒वम् मह्य॑म् भ॒द्रास् सन्न॑तय॒स् सन्न॑मन्तु ॥ [51]

मूलम्

भट्टभास्कर-टीका

(SB) 1अथ सन्नतिहोमा उच्यन्ते । तथा च ब्राह्मणम् - ‘अग्नये समनमत्पृथिव्यै समनमदिति सन्नतिहोमान् जुहोति’ इति । अग्नय डति ॥ सर्वोऽपि यजमानः अग्नये समनमत् सन्नतिं परिचर्यामकरोत् । तथा पृथिव्यै समनमत् परिचर्यामकरोत् । स च पृथिव्या सहितोऽग्निः यथा समनमत् येन प्रकारेण तस्मै यजमानाय सन्नतिं उपकारमकरोत् एवं अनेन प्रकारेण मह्यं मदर्थं भद्राः सन्नतयः कल्याणा उपकाराः देवकृताः संनमन्तु प्राप्नुवन्तु । एवमुत्तरेष्वपि मन्त्रेषु योजनीयम् । ‘समनमदेवं मह्यं’ इत्यादिकं सर्वत्रानुषज्यते । तदर्थमेवान्ते पुनः पाठः । एतैर्दशभिर्मन्त्रैः अन्नहोमेषु सन्नतिहोमाः कर्तव्याः ॥

इति माधवीये सप्तमे पञ्चमे त्रयोविंशोनुवाकः ॥