२२

मूलम् (संयुक्तम्)

अ॒ग्नयेऽँ॑हो॒मुचे॒ऽष्टाक॑पालस्सौ॒र्यम्पयो॑ वाय॒व्य॑ आज्य॑भागः ॥ [48]

विश्वास-प्रस्तुतिः

अ॒ग्नये ऽँ॑हो॒मुचे॒ ऽष्टाक॑पालः । सौ॒र्यम्पयः॑ । वा॒य॒व्य॑ आज्य॑भागः ॥ [48]

मूलम्

अ॒ग्नये ऽँ॑हो॒मुचे॒ ऽष्टाक॑पालः । सौ॒र्यम्पयः॑ । वा॒य॒व्य॑ आज्य॑भागः ॥ [48]

भट्टभास्कर-टीका

(SB) 1यदुक्तं सूत्रकारेण ‘अग्नयेंहोमुचेऽष्टाकपाल इति दशहविषं मृगारेष्टिमनु निर्वपति’ इति तदेतद्विधत्ते - अंहसो मोचयतीति अंहोमुक् । आगसो मेचयत इति आगोमुचौ वायुश्च सविता च वायोसावित्रः वायुसवितृभ्यामित्यर्थः । धानाः भ्रष्टयवाः । एनसो मोचयन्तीति एनोमुचः ॥

इति माधवीये सप्तमे पञ्चमे द्वाविंशोनुवाकः ॥