२१

मूलम् (संयुक्तम्)

आ॒ग्ने॒यो॑ऽष्टाक॑पालस्सौ॒म्यश्च॒रुस्सा॑वि॒त्रो॑ऽष्टाक॑पालᳶ पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नागच्छे॑द्…

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यो॑ऽष्टाक॑पालस् , सौ॒म्यश्च॒रुः ।
सा॒वि॒त्रो॑ऽष्टक॑पालᳶ , पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुः ।
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नागच्छे॑त् ।

मूलम्

आ॒ग्ने॒यो॑ऽष्टाक॑पालस् , सौ॒म्यश्च॒रुः ।
सा॒वि॒त्रो॑ऽष्टक॑पालᳶ , पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुः ।
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नागच्छे॑त् ।

भट्टभास्कर-टीका

(SB) 1अथाश्वस्य रोगादिनिमित्ते प्राप्ते प्रायश्चित्तेष्टय उच्यन्ते । तथा च ब्राह्मणम् - ‘यद्यश्वमुपतपद्विन्देत् । आग्नेयमष्टाकपालं निर्वपेत्’ इत्यादि । आग्नेय इति ॥ मृगाखरे - अश्वनिवासस्थाने यदि नागच्छेत् तत्रानागमनमेकं निमित्तं, निमित्तान्तराणि तु ब्राह्मणे द्रष्टव्यानि । तान्येतानि नव हवींषि प्रायश्चित्तरूपाणि ॥

इति माधवीये सप्तमे पञ्चमे एकविंशोनुवाकः ॥