२०

मूलम् (संयुक्तम्)

जज्ञि॒ बीजव्ँ॒वर्ष्टा॑ प॒र्जन्य॒ᳶ पक्ता॑ स॒स्यँ सु॑पिप्प॒ला ओष॑धयस्स्वधिचर॒णेयँ सू॑पसद॒नो॑ऽग्निस्स्व॑ध्य॒क्षम॒न्तरि॑क्षँ सुपा॒वᳶ पव॑मानस्सूपस्था॒ना द्यौश्शि॒वम॒सौ तप॑न्यथापू॒र्वम॑होरा॒त्रे प॑ञ्चद॒शिनो॑ऽर्धमा॒सास्त्रिँ॒शिनो॒ मासाः॑ कॢ॒प्ता ऋ॒तव॑श्शा॒न्तस्सव्ँ॑वत्स॒रः ॥ [47]

विश्वास-प्रस्तुतिः

जज्ञि॒ बीजव्ँ॒ , वर्ष्टा॑ प॒र्जन्य॒ᳶ, पक्ता॑ स॒स्यँ , सु॑पिप्प॒ला ओष॑धयस् , स्वधिचर॒णेयँ ,
सू॑पसद॒नो॑ऽग्निस् , स्व॑ध्य॒क्षम॒न्तरि॑क्षँ , सुपा॒वᳶ पव॑मानस् , सूपस्था॒ना द्यौश् ,
शि॒वम॒सौ तप॑न् , यथापू॒र्वम् अ॑होरा॒त्रे , प॑ञ्चद॒शिनो॑ऽर्धमा॒सास् , त्रिँ॒शिनो॒ मासाः॑ ,
कॢ॒प्ता ऋ॒तव॑श् , शा॒न्तस् सव्ँ॑वत्स॒रः +++( अस्तु)+++॥ [47]

मूलम्

भट्टभास्कर-टीका

(SB) 1अथान्ये अन्नहोममन्त्रा उच्यन्ते । तथा च ब्राह्मणम् - ‘जज्ञि बीजमिति जुहोत्यनन्तरित्यै’ इति । जज्ञीति ॥ यदेतत् व्रीह्यादिबीजं तत् जज्ञि जननस्वभावमस्तु । अस्त्विति सर्वत्राध्याहारः । पर्जन्यो वर्ष्टा वृष्टिकारोस्तु । सस्यं पक्ता पाकशीलम् । ओषधयश्च सुपिप्पलाः शोभनफलाः । इयं पृथिवी स्वधिचरणा सुखेनाधिष्ठाय चरितुं शक्या । अग्निः सूपसदनः सुखेनोपसत्तुं परिचरितुं शक्यः । अन्तरिक्षं स्वध्यक्षं सुखेनाध्यक्षितव्यं धूमकेत्वाद्युत्पातरहितमित्यर्थः । पवमानः वायुः सुपावः अनुपद्रवकारी सञ्चारयुक्तः । द्यौः सूपस्थाना सुखेनावस्थातुं शक्या दैविकोपद्रवरहितेत्यर्थः । असो आदित्यः शिवं उपद्रवराहित्यं यथा भवति तथा तपन् वर्तताम् । अहोरात्रे यथापूर्वं कल्पादेवारभ्य येन क्रमेण प्रवृत्ते तथैवाद्यापि प्रवर्तेताम् । अर्धमासाः न्यूनाधिकराहित्येन पञ्चदशदिनयुक्ताः । तथा मासाः त्रिंशद्दिनयुक्ताः । ऋतवः कॢप्ताः तत्तल्लक्षणोपेताः । संवत्सरः शान्तः प्रजापीडरहितः । एतैः पञ्चदशभिर्मन्त्रैः अन्नहोमाः कर्तव्याः ॥

इति माधवीये सप्तमे पञ्चमे विंशोनुवाकः ॥