मूलम् (संयुक्तम्)
आक्रा॑न्वा॒जी पृ॑थि॒वीम॒ग्निय्ँयुज॑मकृत वा॒ज्यर्वाक्रा॑न्वा॒ज्य॑न्तरि॑क्षव्ँवा॒युय्ँयुज॑मकृत वा॒ज्यर्वा॒ द्याव्ँवा॒ज्याऽक्रँ॑स्त॒ सूर्यय्ँ॒युज॑मकृत वा॒ज्यर्वा॒ग्निस्ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय वा॒युस्ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् [45]
पा॒र॒यादि॒त्यस्ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय प्राण॒धृग॑सि प्रा॒णम्मे॑ दृँह व्यान॒धृग॑सि व्या॒नम्मे॑ दृँहापान॒धृग॑स्यपा॒नम्मे॑ दृँह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्र॒म्मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ॥ [46]
विश्वास-प्रस्तुतिः
आऽक्रा॑न्वा॒जी पृ॑थि॒वीम् , अ॒ग्निय्ँ युज॑म् अकृत वा॒ज्यर्वा॑ ।
आक्रा॑न् वा॒ज्य् अ॑न्तरि॑क्षव्ँ वा॒युय्ँ युज॑म् अकृत वा॒ज्यर्वा॑ ।
द्याव्ँ वा॒ज्याऽक्रँ॑स्त॒ , सूर्यय्ँ॒ युज॑म् अकृत वा॒ज्यर्वा॑ ।
अ॒ग्निस् ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे , स्व॒स्ति मा॒ सम्पा॑रय ।
वा॒युस् ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे , स्व॒स्ति मा॒ सम्पा॑रय ।[45]
आ॒दि॒त्यस् ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय ।
प्रा॒ण॒धृग् अ॑सि प्रा॒णम् मे॑ दृँह , व्यान॒धृग॑सि व्या॒नम्मे॑ दृँह , अपान॒धृग् अ॑स्य् अपा॒नम् मे॑ दृँह॒ , चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ ,
श्रोत्र॑म् असि॒ श्रोत्र॒म् मयि॑ धे॒ह्य् , आयु॑र॒स्य् आयु॒र्मयि॑ धेहि ॥ [46]
मूलम्

भट्टभास्कर-टीका
(SB) 1अथाश्वानुमन्त्रणम् । तथा च ब्राह्मणम् - ‘आऽक्रान् वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्टं पृथिवी सधस्थमित्यश्वमनुमन्त्रयते’ इति । एतेषु त्रिषु मन्त्रेषु प्रथमम् मन्त्रं पठति - आऽक्रान् वाजीति ॥ वाजी वेगवानयमश्वः पृथिवीं आक्रान् आक्रान्तवान् । सोऽर्वा तस्यां पृथिव्यां अग्निं युजं योजयितारं व्यवहारनिर्वाहकं अकृत । एवमुत्तरत्रापि योज्यम् । हे वाजिन् अग्निः ते युङ् तव योजयिता सहायभूतः तस्मात् त्वां अन्वारभे । त्वं च स्वस्ति विनाशराहित्येन मां सम्पारय सम्यक् कर्मसमाप्तिं प्रापय । एवमुत्तरत्रापि योज्यम् । प्राणं दृंहति दृढीकरोतीति प्राणधृक् । हे अश्व त्वं तादृशोऽसि अतो मे प्राणं दृढीकुरु । एवमुत्तरत्रापि । हे अश्व त्वं चक्षुरसि अतो मयि चक्षुः स्थापय । एवमुत्तरत्रापि ॥
इति माधवीये सप्तमे पञ्चमे एकोनविंशोनुवाकः ॥