भास्करोक्त-विनियोगः
1अथ ब्रह्मवर्चसं उपजुहोति - आ ब्रह्मन्नित्यादि ॥
मूलम् (संयुक्तम्)
आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒माऽस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यता॒न्दोग्ध्री॑ धे॒नुर्वोढा॑ऽन॒ड्वाना॒शुस्सप्ति॒ᳶ पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठास्स॒भेयो॒ युवाऽस्य यज॑मानस्य वी॒रो जा॑यतान्निका॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्षतु फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ताय्ँ योगक्षे॒मो न॑ᳵ कल्पताम् ॥ [44]
विश्वास-प्रस्तुतिः
आ ब्रह्म॑न् +++(जातौ)+++ ब्राह्म॒णो ब्र॑ह्म-वर्च॒सी जा॑यताम् ।
आऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श् शूरो॑ महार॒थो जा॑यताम् ।
दोग्ध्री॑ धे॒नुर् , वोढा॑ऽन॒ड्वान् , आ॒शुस् सप्ति॒ᳶ ,
पुर॑न्धि॒र् योषा॑ , जि॒ष्णू र॑थे॒ष्ठास् ,
स॒भेयो॒ युवा , अस्य यज॑मानस्य वी॒रो जा॑यताम् ।
नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्षतु ।
मूलम्
आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यताम् ।
आऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श् शूरो॑ महार॒थो जा॑यताम् ।
भट्टभास्कर-टीका
ब्रह्मन् ब्रह्मणि ब्राह्मणजातौ अस्य यजमानस्य सम्बन्धी सर्वो ब्राह्मणो ब्रह्मवर्चसी आजायताम् । अस्मिन्राष्ट्रे यजमानस्य सम्बन्धी राजन्यः सर्वोपि क्षत्रः इषव्यः इष्वादिषु साधुः शूरः महावीरः महारथः रथचर्यायां प्रकृष्टश्च आजायताम् । ‘राजश्वशुराद्यत्’ ‘राज्ञोपत्ये जातिग्रहणम्’ ।
विश्वास-प्रस्तुतिः
दोग्ध्री॑ धे॒नुर् , वोढा॑ऽन॒ड्वान् , आ॒शुस् सप्ति॒ᳶ ,
+++(सुन्दर-)+++पुर॑न्+++(=कायं)+++-धि॒र् योषा॑ , जि॒ष्णू र॑थे॒ष्ठास् ,
स॒भेयो॒ युवा , अस्य यज॑मानस्य वी॒रो जा॑यताम् ।
मूलम्
दोग्ध्री॑ धे॒नुर् , वोढा॑ऽन॒ड्वान् , आ॒शुस् सप्ति॒ᳶ ,
पुर॑न्धि॒र्योषा॑ , जि॒ष्णू र॑थे॒ष्ठास् ,
स॒भेयो॒ युवा , अस्य यज॑मानस्य वी॒रो जा॑यताम् ।
भट्टभास्कर-टीका
दोग्ध्री बहुक्षीरा सुदोहा च धेनुराजायतां अस्य यजमानस्य । साधुकारिणि तृन् । वोढा साधुवाही अनड्वानाजायताम् । आशुश्शीघ्रगतिः सप्तिराजायताम् । पुरन्धिः रूपवती पुरं शरीरं धीयतेऽस्यामिति । ‘कर्मण्यधिकरणे च’ इति किः । पूर्वपदस्याम्भावश्छान्दसः । दासीभारादिः । पुरुभिर्वा ध्यातव्या पुरन्धिः । पृषोदरादिः । ईदृशी योषा योषित् अस्य यजमानस्य आजायताम् । जिष्णुः जयशीलः रथेष्ठाः रथे स्थातुं शक्तः । रथे तिष्ठति सङ्ग्रामेष्विति ‘सुपि स्थः’ इति कः, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक्, वचनव्यत्ययः । सभेयः सभायां साधुः रूपवत्तया, ‘डश्छन्दासि; इति डः । युवा तरुणः । वीरः विक्रान्तः । एवं जिष्ण्वित्यादिगुणयुकः पुरुषोस्य यजमानस्य आजायताम् ।
विश्वास-प्रस्तुतिः
नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्षतु ।
मूलम्
नि॒का॒मेनि॑कामे नᳶ प॒र्जन्यो॑ वर्षतु ।
भट्टभास्कर-टीका
निकामेनिकामे इच्छायां नः अस्माकं पर्जन्यो वर्षतु ।
विश्वास-प्रस्तुतिः
फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ताम् ।
मूलम्
फ॒लिन्यो॑ न॒ ओष॑धयᳶ पच्यन्ताम् ।
भट्टभास्कर-टीका
फलिन्यः बहुफला ओषधयः अस्माकं राष्ट्रे पच्यन्ताम् । कर्मकर्तरि यत् ।
विश्वास-प्रस्तुतिः
यो॒ग॒क्षे॒मो न॑ᳵ कल्पताम् ॥ [44]
मूलम्
यो॒ग॒क्षे॒मो न॑ᳵ कल्पताम् ॥ [44]
भट्टभास्कर-टीका
योगसहितः क्षेमः योगक्षेमः । शाकपार्थिवादित्वादुत्तरपदलोपी समासः । इतरेतरयोगद्वन्द्वे वा वचनव्यत्ययः । समाहारद्वन्द्वे वा लिङ्गव्यत्ययः ।
योगश्च क्षेमश्चास्मिन् राष्ट्रे प्रजानां कल्पतां सम्पद्यताम् । अलब्धलाभो योगः । लब्धस्य परिपालनं क्षेमः ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये सप्तमे काण्डे पञ्चमे प्रश्ने अष्टादशोनुवाकः ॥