१७

मूलम् (संयुक्तम्)

य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषय्ँ॒यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतय्ँ॒यस्य॑ मृ॒त्युᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै॑ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ ॥ [43]

विश्वास-प्रस्तुतिः

य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषय्ँ॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतय्ँ॒ यस्य॑ मृ॒त्युᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ् गृह्णामि॒ ,
तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम् ,
अ॒ग्निस् ते॒ तेज॒स् , तस्मै॑ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ ॥ [43]

मूलम्

भट्टभास्कर-टीका

1द्वितीयं महिमानं गृह्णाति - आत्मदा इति त्रिष्टुभा उपरिष्टादुपयामया ॥ इयमपि तत्रैव व्याख्याता । य आत्मदाः सर्वस्मै बलदाश्च यस्य प्रशिषं प्रकष्टामाशिषं विश्वेऽप्युपासते देवा अपि यस्य प्रशिषमुपासते अमृतं मृत्युश्च यस्य छायेव विधेया । कस्मा इत्यादि । गतम् । तस्य ते पृथिवी महिमा पृथिवीव महांस्त्वमोषधयो वनस्पतयः तव रूपम् । अग्निस्तव तेज इति गृहीत्वा जुहोति । तस्मा इत्यादि । गतम् ॥

इति सप्तमे पञ्चमे सप्तदशोनुवाकः ॥