मूलम् (संयुक्तम्)
यᳶ प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒ᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम । उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै॑ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ ॥ [42]
विश्वास-प्रस्तुतिः
यᳶ प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श् चतु॑ष्पद॒ᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
उ॒प॒या॒मगृ॑हीतोऽसि , प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ् गृह्णामि॒ ,
तस्य॑ ते॒ द्यौर्म॑हि॒मा , नक्ष॑त्राणि रू॒पम् , आ॑दि॒त्यस्ते॒ तेज॒स् ,
तस्मै॑ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ ॥ [42]
मूलम्

भट्टभास्कर-टीका
1अथ वर्णेन महिमानं गृह्णाति - यः प्राणत इति त्रिष्टुभा उपरिष्टादुपयामया ॥ इयं च व्याख्याता ‘ऊर्ध्वा अस्य समिधः’ इत्यत्र । यः प्राणतो निमिषतश्च जगतो निजमाहात्म्येन य एक एव राजा बभूव, यश्चेष्टे अस्य द्विपदः चतुष्पदः कस्मै अज्ञातव्रतस्वभावाय देवाय हविषा परिचरेम । उपयामः पृथिवी । तथैव गृहीतोसि । प्रजापतये जुष्टं प्रियं च गृह्णामि । तस्य ते द्यौर्महिमा द्यौरिव महांस्त्वमसि । नक्षत्राणि तव रूपं तव बिभ्रति । एतावन्ति वा तव रूपाणि । आदित्यस्ते तेजः आदित्योपि त्वया तेजस्वी भवति । एवं गृहीत्वा जुहोति । तस्मै तादृशाय महिमवते प्रजापतये त्वा जुहोमीति स्वाहुतं करोमीति ॥
इति सप्तमे पञ्चमे षोडशोनुवाकः ॥