मूलम् (संयुक्तम्)
यो वा अ॒ग्नाव॒ग्निᳶ प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यय्ँयद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यत्सञ्चि॑ते॒ऽग्नावे॒तानि॑ ह॒वीँषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशा॑न्त उपो॒त्थाय॑ प्र॒जाम्प॒शून्यज॑मानस्या॒भि म॑न्येत॒ यत्सञ्चि॑ते॒ऽग्नावे॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनँ॑ शमयति॒ नास्य॑ रु॒द्रोऽशा॑न्तः [39]
उ॒पो॒त्थाय॑ प्र॒जाम्प॒शून॒भि म॑न्यते॒
विश्वास-प्रस्तुतिः
यो वा अ॒ग्नाव् अ॒ग्निᳶ प्र॑ह्रि॒यते॒ , यश्च॒ सोमो॒ राजा॒ , तयो॑रे॒ष आ॑ति॒थ्यय्ँ यद॑ग्नीषो॒मीयः॑ ।
ऽथै॒ष रु॒द्रो यश्ची॒यते॑ ।
यत्सञ्चि॑ते॒ऽग्नाव् ए॒तानि॑ ह॒वीँषि॒ न नि॒र्वपे॑त् ।
ए॒ष ए॒व रु॒द्रोऽशा॑न्त उपो॒त्थाय॑ प्र॒जाम् प॒शून् यज॑मानस्या॒भि म॑न्येत ।
यत्सञ्चि॑ते॒ऽग्नाव् ए॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑ति भाग॒धेये॑न ए॒वैनँ॑ शमयति॒ नास्य॑ रु॒द्रोऽशा॑न्तः ।[39]
उ॒पो॒त्थाय॑ प्र॒जाम् प॒शून् अ॒भि म॑न्यते ।
मूलम्

भट्टभास्कर-टीका
1अथैषां ब्राह्मणं - यो वा इत्यादि ॥ योऽयमग्नावग्निं मथित्वा प्रणीयते यश्च सोमो राजा तयोरेष आतिथ्यं योऽग्नीषोमीयपशुः । अथैष इत्यादि । एतानि हवींषि ‘अग्नये गायत्राय’ इत्यादीनि । अशान्तः क्रुद्धः अभिमन्येत नाशयेत् ॥
मूलम् (संयुक्तम्)
दश॑ ह॒वीँषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्य्…
विश्वास-प्रस्तुतिः
दश॑ ह॒वीँषि॑ भवन्ति ।
नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी ।
प्रा॒णान् ए॒व यज॑माने दधा॒ति ।
अथो॒ दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् । वि॒राज्य् ए॒वान्नाद् ये॒ प्रति॑ तिष्ठति ।
मूलम्
दश॑ ह॒वीँषि॑ भवन्ति ।
नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी ।
प्रा॒णान् ए॒व यज॑माने दधा॒ति ।
अथो॒ दशा॑क्षरा वि॒राट् ।
अन्नव्ँ॑ वि॒राट् । वि॒राज्य् ए॒वान्नाद् ये॒ प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
2दश हवींषीत्यादि ॥ गतम् ॥ +++(टिप्पनी - विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++।
मूलम् (संयुक्तम्)
ऋ॒तुभि॒र्वा ए॒ष छन्दो॑भि॒स्स्तोमैः॑ पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैन॒ञ्छन्दो॑भि॒स्स्तोमैः॑ पृ॒ष्ठैश्चि॑नुते॒ दिश॑स्सुषुवा॒णेन॑ [40]
अ॒भि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या
विश्वास-प्रस्तुतिः
ऋ॒तुभि॒र् वा ए॒ष छन्दो॑भि॒स् स्तोमैः॑ पृ॒ष्ठैश् चे॑त॒व्य॑ इत्या॑हु॒र् - “यद् ए॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑त्य् ऋ॒तुभि॑र् ए॒वैन॒ञ् छन्दो॑भि॒स् स्तोमैः॑ पृ॒ष्ठैश् चि॑नुते”। +++( इति )+++।
दिश॑स् सुषुवा॒णेन अ॑भि॒जित्या॒ [40] इत्या॑हु॒र् - “यदे॒तानि॑ ह॒वीँषि॑ नि॒र्वप॑ति दि॒शाम् अ॒भिजि॑त्यै” +++(इति)+++।

3ऋतुभिर्वा इत्यादि ॥ एषां हविषां निर्वापेन ऋत्वादिभिः एष चितो भवतीति । दिश इत्यादि । सुषुवाणेन सोमं सुतवता, ऐश्वर्यप्राप्तेन वा । अभिजित्या इत्यादि । अभिजेतव्याः । छान्दसः क्यप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । अभिजित्यै, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
ए॒तया॒ वा इन्द्र॑न्दे॒वा अ॑याजय॒न्तस्मा॑दिन्द्रस॒व ए॒तया॒ मनु॑म्मनु॒ष्या॑स्तस्मा॑न्मनुस॒वो यथेन्द्रो॑ दे॒वानाय्ँ॒यथा॒ मनु॑र्मनु॒ष्या॑णामे॒वम्भ॑वति॒ य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीᳶ पुरोनुवा॒क्या॑ भवन्ति॒ सर्वा॑सान्दि॒शाम॒भिजि॑त्यै ॥ [41]
विश्वास-प्रस्तुतिः
ए॒तया॒ वा इन्द्र॑न्दे॒वा अ॑याजय॒न् , तस्मा॑द् इन्द्रस॒वः ।
ए॒तया॒ मनु॑म् मनु॒ष्या॑स् तस्मा॑न् मनुस॒वः ।
यथेन्द्रो॑ दे॒वानाय्ँ॒ , यथा॒ मनु॑र् मनु॒ष्या॑णाम् , ए॒वम् भ॑वति॒ य ए॒वव्ँ वि॒द्वान् ए॒तयेष्ट्या॒ यज॑ते ।
दिग्व॑तीᳶ पुरोऽनुवा॒क्या॑ भवन्ति ,
सर्वा॑सान् दि॒शाम् अ॒भिजि॑त्यै ॥ [41]

4एतया वा इत्यादि ॥ गतम् । मनुष्याः अयाजयन्नित्येव । दिग्वतीः दिक्शब्दवत्यः ‘समिद्दिशामाशया नः’ इत्याद्याः ॥
इति सप्तमे पञ्चमे पञ्चदशोनुवाकः ॥