१४

मूलम् (संयुक्तम्)

अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराय वास॒न्ताया॒ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यस्सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकविँ॒शाभ्याव्ँ॑ वैरा॒जाभ्याँ॑ शार॒दाभ्या॑म् पय॒स्या॑

विश्वास-प्रस्तुतिः

अ॒ग्नये॑ , गाय॒त्राय॑ , त्रि॒वृते॒ , राथ॑न्तराय , वास॒न्ताय अ॒ष्टाक॑पालः ।
इन्द्रा॑य॒ , त्रैष्टु॑भाय , पञ्चद॒शाय॒ , बार्ह॑ताय॒ , ग्रैष्मा॒य एका॑दशकपालः ।
विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यस् सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालः ।
मि॒त्रावरु॑णाभ्या॒म् आनु॑ष्टुभाभ्याम् एकविँ॒शाभ्याव्ँ॑ वैरा॒जाभ्याँ॑ शार॒दाभ्या॑म् पय॒स्या॑ ।

मूलम्

अ॒ग्नये॑ , गाय॒त्राय॑ , त्रि॒वृते॒ , राथ॑न्तराय , वास॒न्ताय अ॒ष्टाक॑पालः ।
इन्द्रा॑य॒ , त्रैष्टु॑भाय , पञ्चद॒शाय॒ , बार्ह॑ताय॒ , ग्रैष्मा॒य एका॑दशकपालः ।
विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यस् सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालः ।
मि॒त्रावरु॑णाभ्या॒म् आनु॑ष्टुभाभ्याम् एकविँ॒शाभ्याव्ँ॑ वैरा॒जाभ्याँ॑ शार॒दाभ्या॑म् पय॒स्या॑ ।

भट्टभास्कर-टीका

1अथ तत्रैव दशहविषमिष्टिं विदधाति - अग्नये गायत्रायेति ॥ देवतया छन्दसा स्तोमेन साम्ना ऋतुना विशेष्यते । सहोत्पत्त्यादिकृतः सम्बन्धविशेषः सर्वत्राग्न्यादीनां; गायत्र्यादीनां च क्वचित्प्राथम्यादिकृतश्च । सर्वत्राद्युदात्ता उत्साद्यञन्ता द्रष्टव्याः । अन्ये एताः पञ्चदशादयः ‘स्तोमे डविधिः’ इति डान्ताः । ऋतृभ्यः ऋत्वण् । वसन्तात्तु ‘सर्वत्राण्च’ इति चकारात् । अष्टाकपालादयः तद्धितार्थे द्विगवः । ‘अध्यर्धपूर्वाद्द्विगोः’ इति प्रत्ययस्य लुकि ‘इगन्तकाल’ इति पूर्वपदप्रकृतिस्वरत्वम् । वार्षिकेभ्यः । ‘छन्दसि ठञ् ’ इति ठक् ॥

मूलम् (संयुक्तम्)

बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रुस्स॑वि॒त्र आ॑तिच्छन्द॒साय॑ त्रयस्त्रिँ॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लोऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुᳵ का॒य एक॑कपालः ॥ [38]

मन्त्र

बृह॒स्पत॑ये॒ , पाङ्क्ता॑य , त्रिण॒वाय॑ , शाक्व॒राय॒ , हैम॑न्तिकाय च॒रुः ।
स॑वि॒त्र , आ॑तिच्छन्द॒साय॑ , त्रयस्त्रिँ॒शाय॑ , रैव॒ताय॑ , शैशि॒राय॒ द्वाद॑शकपा॒लः ।
अदि॑त्यै॒ , विष्णु॑पत्न्यै च॒रुः । अ॒ग्नये॑ , वैश्वान॒राय॒ , द्वाद॑शकपा॒लः ।
अनु॑मत्यै च॒रुः । का॒य एक॑कपालः ॥ [38]

भट्टभास्कर-टीका

2पयस्या पयसि आमिक्षा । बृहस्पतिः । पारस्करादिः । हैमन्तिकाय ‘हेमन्ताच्च’ इति ठञ् । सवित्रे, ‘उदात्तयणः’ इति चतुर्थ्या उदात्तत्वम् । विष्णुपत्न्यै, ‘विभाषा सपूर्वस्य’ इति बहुव्रीहौ ङीब्नकारौ । कायः, ‘कस्येत्’ ॥

इति सप्तमे पञ्चमे चतुर्दशोनुवाकः ॥