कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञस्यर्द्ध्यै॒ मह्यँ॒ सन्न॑त्या अ॒मुष्मै॒ कामा॒यायु॑षे त्वा प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य त्वाराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा ॥ [37]
विश्वास-प्रस्तुतिः
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु ।
विष्णु॑स्त्वा युनक्तु ।
अ॒स्य य॒ज्ञस्यर्द्ध्यै॒ मह्यँ॒ सन्न॑त्यै ।
अ॒मुष्मै॒ कामा॒य ।
आयु॑षे त्वा , प्रा॒णाय॑ त्वा , ऽपा॒नाय॑ त्वा , व्या॒नाय॑ त्वा॒ , व्यु॑ष्ट्यै त्वा , र॒य्यै त्वा॒ , राध॑से त्वा॒ , घोषा॑य त्वा॒ , पोषा॑य त्वा , ऽऽराद्घो॒षाय॑ त्वा॒ , प्रच्यु॑त्यै त्वा ॥ [37] +++(युनक्तु)+++।
मूलम्

भट्टभास्कर-टीका
1अथ परिधिमन्त्रः - कस्त्वेति ॥ तत्रामुष्मै कामायेत्यन्ताः षट् मध्ये । ‘आयुषे त्वा’ इत्यारभ्य ‘रय्यै त्वा’ इत्यन्ताः दक्षिणे षट् । शेषाः पञ्च राधसेत्याद्या उत्तरे । कः प्रजापतिरेव त्वा युनक्ति योक्तुमर्हति । तस्मात् स एव त्वा युनक्तु यस्तस्यापि योक्ता अस्य यज्ञस्य समृद्ध्यै मम च सन्तत्यै सर्वो मां प्रति सन्नमेदिति अमुष्मै कामाय प्रजायै वा । अमुष्मा इत्यत्राभीष्टः कामो निर्देष्टव्यः । राधोऽन्नम् । घोषः कीर्तिः । पोष पश्वादेः । आरात्घोषः आरात् शब्दग्राहित्वम् । प्रच्युतिः सर्वदुःखनिवृत्तिः; प्रकृष्टा वा च्युतिर्गतिः स्वर्गाख्या ॥
इति सप्तमे पञ्चमे त्रयोदशोनुवाकः ॥