मूलम् (संयुक्तम्)
पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ सम्प्लोष्य॒ते स्वाहा॑ स॒म्प्लव॑मानाय॒ स्वाहा॒ सम्प्लु॑ताय॒ स्वाहा॑ मेघायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा॑ प्रास॒चाय॒ स्वाहा॑ प्रच॒लाका॑यै॒ स्वाहा॑ विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ सव्ँवि॒द्योत॑मानाय॒ स्वाहा॑ स्तनयिष्य॒ते स्वाहा॑ स्त॒नय॑ते॒ स्वाहो॒ग्रँ स्त॒नय॑ते॒ स्वाहा॑ वर्षिष्य॒ते स्वाहा॒ वर्ष॑ते॒ स्वाहा॑भि॒वर्ष॑ते॒ स्वाहा॑ परि॒वर्ष॑ते॒ स्वाहा॑ सव्ँ॒वर्ष॑ते [33]
स्वाहा॑नु॒वर्ष॑ते॒ स्वाहा॑
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यै स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा ।
दि॒वे स्वाहा॑ । स॒म्प्लो॒ष्य॒ते स्वाहा॑ ।
स॒म्प्लव॑मानाय॒ स्वाहा॑ । सम्प्लु॑ताय॒ स्वाहा॑ ।
मे॒घा॒यि॒ष्य॒ते स्वाहा॑ । मे॒घा॒य॒ते स्वाहा॑ ।
मे॒घि॒ताय॒ स्वाहा॑ । मे॒घाय॒ स्वाहा॑ ।
नी॒हा॒राय॒ स्वाहा॑ । नि॒हाका॑यै॒ स्वाहा॑ ।
प्रा॒स॒चाय॒ स्वाहा॑ । प्र॒च॒लाका॑यै॒ स्वाहा॑ ।
वि॒द्यो॒ति॒ष्य॒ते स्वाहा॑ । वि॒द्योत॑मानाय॒ स्वाहा॑ ।
सव्ँ॒वि॒द्योत॑मानाय॒ स्वाहा॑ । स्त॒न॒यि॒ष्य॒ते स्वाहा॑ ।
स्त॒नय॑ते॒ स्वाहा॑ । उ॒ग्रँ स्त॒नय॑ते॒ स्वाहा॑ ।
व॒र्षि॒ष्य॒ते स्वाहा॑ । वर्ष॑ते॒ स्वाहा॑ ।
अ॒भि॒वर्ष॑ते॒ स्वाहा॑ । प॒रि॒वर्ष॑ते॒ स्वाहा॑ ।
सव्ँ॒वर्ष॑ते॒ स्वाहा॑ [33]। अ॒नु॒वर्ष॑ते॒ स्वाहा॑ ।
मूलम्

भट्टभास्कर-टीका
1अथाश्वमेधे नक्तंहोमाः - पृथिव्यै स्वाहेत्यादयः निगदसिद्धाः ॥ संप्लवनं वर्षार्थमुपक्रमः; त्रैकाल्येन प्रवृत्तिरुच्यते । लृट् व्यत्ययेन । मेघायिष्यते मेघान् करिष्यते । ‘शब्दवैर’ इति क्यङ्, व्यत्ययेन परस्मैपदम् । मेघायते मेघमात्मन इच्छते । ‘नच्छन्दस्यपुत्रस्य’ इतीत्वाभावः । मेधिताय सञ्जातमेघाय । इतच्प्रत्ययः ‘तदस्य सञ्जातम्’ इति । मेघाय वर्षहेतवे । निहाका नीहारस्य परा काष्ठा यत्र निहततरं कोष्ठं इति प्रयुञ्जते शीतेनार्ताः । तमोभिभूताय प्रासचाय नीहारेण संकुचते यत्र जन्तवः शीतेन संकुचिता भवन्ति’ तमसा वा निश्चेष्टाः । सर्वत्र पृषोदरादित्वादिष्टरूपसिद्धिः । प्रचलाका हेमन्तसमाप्तिकालः यत्रेतश्चेतश्च प्रचलन्ति जन्तवः । यद्वा - प्रकर्षेण चलन्ति । विशीर्य शिष्यन्त इति विद्योतनं विरळद्योतनम् । स्तननं शब्दनम् । उग्रं उद्रूर्णं श्रवणकटुकम् । वर्षणं धारापातनम् । अभिवर्षणं उपर्युपरि वर्षणम् । परिवर्षणं सर्वतो वर्षणम् । संवर्षणं सङ्गतपटलवर्षणम् । अनुवर्षणं स्थित्वास्थित्वा वर्षणम् ॥
मूलम् (संयुक्तम्)
शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा॑ प्रोषिष्य॒ते स्वाहा॑ प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहो॑द्ग्रहीष्य॒ते स्वाहो॑द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑तप्स्य॒ते स्वाहा॒तप॑ते॒ स्वाहो॒ग्रमा॒तप॑ते॒ स्वाह॒र्ग्भ्यस्स्वाहा॒ यजु॑र्भ्य॒स्स्वाहा॒ साम॑भ्य॒स्स्वाहाऽङ्गि॑रोभ्य॒स्स्वाहा॒ वेदे॑भ्य॒स्स्वाहा॒ गाथा॑भ्य॒स्स्वाहा॑ नाराशँ॒सीभ्य॒स्स्वाहा॒ रैभी॑भ्य॒स्स्वाहा॒ सर्व॑स्मै॒ स्वाहा॑ ॥ [34]
विश्वास-प्रस्तुतिः
शी॒का॒यि॒ष्य॒ते स्वाहा॑ । शी॒का॒य॒ते स्वाहा॑ । शी॒कि॒ताय॒ स्वाहा॑ ।
प्रो॒षि॒ष्य॒ते स्वाहा॑ । प्रु॒ष्णु॒ते स्वाहा॑ । प॒रि॒प्रु॒ष्ण॒ते स्वाहा॑ ।
उ॒द्ग्र॒ही॒ष्य॒ते स्वाहा॑ । उ॒द्गृ॒ह्ण॒ते स्वाहा॑ । उद्गृ॑हीताय॒ स्वाहा॑ ।
वि॒प्लो॒ष्य॒ते स्वाहा॑ । वि॒प्लव॑मानाय॒ स्वाहा॑ । विप्लु॑ताय॒ स्वाहा॑ ।
आ॒त॒प्स्य॒ते स्वाहा॑ । आ॒तप॑ते॒ स्वाहा॑ । उ॒ग्रमा॒तप॑ते॒ स्वाहा॑ ।
ऋ॒ग्भ्यस् स्वाहा॑ । यजु॑र्भ्य॒स् स्वाहा॑ । साम॑भ्य॒स् स्वाहा॑ ।
अङ्गि॑रोभ्य॒स् स्वाहा॑ । वेदे॑भ्य॒स् स्वाहा॑ । गाथा॑भ्य॒स्स्वाहा॑ ।
ना॒रा॒शँ॒सीभ्य॒स् स्वाहा॑ । रेभी॑भ्य॒स् स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [34]

2शीकायिष्यते शीकां करिष्यते वृष्ट्युत्तरकालं सिमसिमसिमाकरणं शीकाकरणम् । अन्य आह - वर्षहेतुकं शैत्यं शीकीकरणमिति । शीकायते शीकमिच्छते । शीकिताय सञ्जातशीकाय । प्रोषणं पूरणादि । पूष प्लुहस्नेहसेचनपूरणेषु । उद्ग्रहणं वर्षस्योपरमः; मेघानां वा वर्षोत्तरकालं ऊर्ध्वनयनम् । संप्लावो मेघानामप्युपरमः । विप्लवः प्रतीपकः । आतपनं रविकिरणैः सर्वतो दाहः । ऋचः पादबद्धा मन्त्राः । अपदानि यजूंषि सामानि गीतयः । अङ्गिरोभिर्दृष्टाः शाखाविशेषा अङ्गिरोविधायकाः । गाथा वैदिकाः श्लोकाः अविधायकाः । नरैः शंसनीया देवताविशेषा नाराशंसाः, तत्सम्बन्धिन्य ऋचो नाराशंस्यः । रेभः शब्दकृदग्निः । तदीया ऋचो रैभ्यः । उत्सादि लक्षणोऽञ् । गोबलीवर्दन्यायेन व्यतिरिक्तविषयः ऋक्छब्दोत्र द्रष्टव्यः॥
इति सप्तमे पञ्चमे एकादशोनुवाकः ॥