१०

मूलम् (संयुक्तम्)

चर्माव॑ भिन्दन्ति पा॒प्मान॑मे॒वैषा॒मव॑ भिन्दन्ति॒ माऽप॑ रात्सी॒र्माति॑ व्यात्सी॒रित्या॑ह सम्प्र॒त्ये॑वैषा॑म्पा॒प्मान॒मव॑ भिन्दन्त्य्…

विश्वास-प्रस्तुतिः

चर्माव॑ भिन्दन्ति । पा॒प्मान॑म् ए॒वैषा॒म् अव॑ भिन्दन्ति ।
माऽप॑ रात्सी॒र् , माति॑ व्यात्सी॒रित्या॑ह ।
सम्प्र॒त्य् ए॑वैषा॑म् पा॒प्मान॒म् अव॑ भिन्दन्ति ।

मूलम्

चर्माव॑ भिन्दन्ति । पा॒प्मान॑म् ए॒वैषा॒म् अव॑ भिन्दन्ति ।
माऽप॑ रात्सी॒र् , माति॑ व्यात्सी॒रित्या॑ह ।
सम्प्र॒त्य् ए॑वैषा॑म् पा॒प्मान॒म् अव॑ भिन्दन्ति ।

भट्टभास्कर-टीका

1चर्मावभिन्दन्तीत्यादि ॥ पूर्वोक्तं चर्म ब्राह्मणेन सम्मितमाग्नीध्रेण मारुतं कवचिनो बाणेन अवभिन्दन्ति । राजपुत्रा इत्येके । एषां सत्रिणां पाप्मानमेवावभिन्दन्ति अनेन चर्मावभेदेन । माऽपरात्सीः लक्षादन्यत्र व्यथनं मा कार्षीः । माऽतिव्यात्सीः वेगमतीत्य परस्तात् बाणं मा जीगम इत्याह हे वेदिन् । संप्रत्येवेति । सप्रति कृतक्रियमाणकरिष्यमाणसर्वपापक्षयकरत्वं सम्यक्त्वं युक्तरूपं यदेषामिति ॥

मूलम् (संयुक्तम्)

उदकु॒म्भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒म्परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दम्म॑धु॒ङ्गाय॑न्त्यो॒

विश्वास-प्रस्तुतिः

उ॒द॒कु॒म्भान् अ॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒म् परि॑ नृत्यन्ति ,
प॒दो नि॑घ्न॒तीर् इ॒दम् म॑धु॒ङ् गाय॑न्त्यः ।

मूलम्

उ॒द॒कु॒म्भान् अ॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒म् परि॑ नृत्यन्ति ,
प॒दो नि॑घ्न॒तीर् इ॒दम् म॑धु॒ङ् गाय॑न्त्यः ।

भट्टभास्कर-टीका

2उदकुम्भानित्यादि ॥ उदकुम्भान् शिरस्यधिनिधाय दास्यो दासकुमार्यो मार्जालीयं परितो नृत्यन्ति पदः पदा निघ्नतीः निघ्नन्त्यः कुटित्वा न यन्त्यः (कुटिलं यन्त्यः) इदंमधुं गायन्त्यः ‘इदं मधु इदं मधु’ इत्येवं गायन्त्यः । केचिदाहुः - ‘इयं वाव सरघा । तस्या अग्निरेव सारधं मधु’ इत्यादिमन्त्रः इदम्मधुशब्देनोच्यते इति ॥

मूलम् (संयुक्तम्)

मधु॒ वै दे॒वाना॑म्पर॒मम॒न्नाद्य॑म्पर॒ममे॒वान्नाद्य॒मव॑ रुन्धते प॒दो नि घ्न॑न्ति मही॒यामे॒वैषु॑ दधति ॥ [32]

विश्वास-प्रस्तुतिः

मधु॒ वै दे॒वाना॑म् पर॒मम् अ॒न्नाद्य॑म् । प॒र॒ममे॒व अन्नाद्य॒म् अव॑ रुन्धते ।
प॒दो नि घ्न॑न्ति , मही॒याम् ए॒व + एषु॑ दधति ॥ [32]

मूलम्

मधु॒ वै दे॒वाना॑म् पर॒मम् अ॒न्नाद्य॑म् । प॒र॒ममे॒व अन्नाद्य॒म् अव॑ रुन्धते ।
प॒दो नि घ्न॑न्ति , मही॒याम् ए॒व + एषु॑ दधति ॥ [32]

भट्टभास्कर-टीका

3मधु वा इत्यादि ॥ गतम् । महीयां पूजाम् । महीङ् कण्ड्वादिर्यगन्तः, ततः ‘अप्रत्ययात्’ इत्यकारप्रत्ययः ॥

इति सप्तमे पञ्चमे दशमोनुवाकः ॥