०९

मूलम् (संयुक्तम्)

अ॒र्क्ये॑ण॒ वै स॑हस्र॒शᳶ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ताभ्य॒ इला॑न्दे॒नेराल्ँ॒लूता॒मवा॑रुन्द्ध॒ यद॒र्क्य॑म्भव॑ति प्र॒जा ए॒व तद्यज॑मानास्सृजन्त॒ इला॑न्दम्भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इराल्ँ॒लूता॒मव॑ रुन्धते॒

विश्वास-प्रस्तुतिः

अ॒र्क्ये॑ण॒ वै स॑हस्र॒शᳶ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । ताभ्य॒ इला॑न्दे॒न इराल्ँ॒ लूता॒मवा॑रुन्ध ।

मूलम्

अ॒र्क्ये॑ण॒ वै स॑हस्र॒शᳶ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । ताभ्य॒ इला॑न्दे॒न इराल्ँ॒ लूता॒मवा॑रुन्ध ।

भट्टभास्कर-टीका

1अर्क्येणेत्यादि ॥ अर्क्याख्येन साम्ना प्रजापतिः सहस्रशः सहस्रंसहस्रं प्रजा बहुतमा असृजत । ‘संख्यैकवचनाच्च वीप्सायाम्’ इति शस् । ताभ्यः सृष्टाभ्यः इलान्देन साम्ना इरामन्नं लूतां लवनशीलां प्रजाभिः विच्छिन्नां अवारुन्ध अविच्छेदेनाप्तवान् । लूनातेरौणादिकः तान्प्रत्ययः ।

विश्वास-प्रस्तुतिः

यद् अ॒र्क्य॑म् भव॑ति प्र॒जा ए॒व तद् यज॑मानास् सृजन्ते ।
इला॑न्दम् भवति , प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इराल्ँ॒ लूता॒मव॑ रुन्धते ।

मूलम्

यद् अ॒र्क्य॑म् भव॑ति प्र॒जा ए॒व तद् यज॑मानास् सृजन्ते ।
इला॑न्दम् भवति , प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इराल्ँ॒ लूता॒मव॑ रुन्धते ।

भट्टभास्कर-टीका

यदर्क्यमित्यादि । साम्नस्स्तुतिः गता । इरां अन्दति बध्नातीति इरायदम् । अदि बन्धने, कर्मण्यण् । ‘संज्ञायां च’ इति पूर्वपदाद्युदात्तत्वम्, कपिलकादित्वाल्लत्वम् ॥

मूलम् (संयुक्तम्)

तस्मा॒द्याँ समाँ॑ स॒त्त्रँ समृ॑द्ध॒ङ्क्षोधु॑का॒स्ताँ समा॑म्प्र॒जा इषँ॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ याँ समा॒व्व्ँयृ॑द्ध॒मक्षो॑धुका॒स्ताँ समा॑म्प्र॒जाः [28]
न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑त उत्क्रो॒दङ्कु॑र्वते॒ यथा॑ ब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दङ्कु॒र्वत॑ ए॒वमे॒व तद्यज॑माना देवब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दङ्कु॑र्वत॒ इष॒मूर्ज॑मा॒त्मन्दधा॑ना

विश्वास-प्रस्तुतिः

तस्मा॒द्याँ समाँ॑ स॒त्त्रँ समृ॑द्ध॒ङ्क्षोधु॑का॒स्ताँ समा॑म्प्र॒जा इषँ॒ ह्या॑सा॒म् ऊर्ज॑म् आ॒दद॑ते ।
याँ समाव्ँ॒ व्यृ॑द्ध॒मक्षो॑धुका॒स्ताँ समा॑म् प्र॒जाः । [28]

मूलम्

तस्मा॒द्याँ समाँ॑ स॒त्त्रँ समृ॑द्ध॒ङ्क्षोधु॑का॒स्ताँ समा॑म्प्र॒जा इषँ॒ ह्या॑सा॒म् ऊर्ज॑म् आ॒दद॑ते ।
याँ समाव्ँ॒ व्यृ॑द्ध॒मक्षो॑धुका॒स्ताँ समा॑म् प्र॒जाः । [28]

भट्टभास्कर-टीका

2तस्मादित्यादि ॥ यस्मादित्थं प्रजाभ्य इरामाददते सत्रिणः तस्माद्यां समां संवत्सरसत्रं समृद्धं अन्नादिना भवति । अत्यन्तसंयोगे द्वितीया । तां समां प्रजाः क्षोधुकाः क्षुच्छीलाः स्युः । छान्दस उकञ् । हेतुमाह - इषमित्यादि । आसां प्रजानां इषमन्नं ऊर्जं रसं दुग्धादि च यस्मात्सत्रिण आददते तस्मात् क्षोधुकाः । अथ यां समां सत्रं व्यृद्धं क्षीरादिना असमृद्धं अक्षोधुकाः तां समां प्रजाः कुर्वते ।

विश्वास-प्रस्तुतिः

न ह्या॑सा॒म् इष॒म् ऊर्ज॑म् आ॒दद॑ते । उत्क्रो॒दङ् कु॑र्वते॒ ।
यथा॑ ब॒न्धान् मु॑मुचा॒ना उ॑त्क्रो॒दङ्कु॒र्वत॑ ,
ए॒वमे॒व तद् यज॑माना देवब॒न्धान् मु॑मुचा॒ना उ॑त्क्रो॒दङ् कु॑र्वत॒ इष॒म् ऊर्ज॑म् आ॒त्मन् दधा॑नाः ।

हेतुमाह - न ह्यासामिति । उत्क्रोदतीत्युत्क्रोदं साम सर्वे यजमानाः कुर्वते । क्रुद कुत्सिते शब्दे । यथेत्यादि । उत्कृष्टरवं हर्षेण कुर्वते मुमुचानाः मुच्यमानाः । छान्दसः कर्मणि लिटः कानजादेशः । एवमेवेति । देवबन्धात् संवत्सरसत्रात् मुच्यमानाः उत्क्रोदं कुर्वते । एतत्सामकरणेन इषमूर्जं चात्मनि दधानाः धारणेन हेतुना । हेतौ शानच्, ‘अभ्यस्तानामादिः’ इत्यादेरुदात्तत्वम् ॥

मूलम् (संयुक्तम्)

वा॒णश्श॒तत॑न्तुर्भवति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जिन्धा॑व॒न्त्यन॑भिजितस्या॒भिजि॑त्यै

विश्वास-प्रस्तुतिः

वा॒णश् श॒तत॑न्तुर् भवति । श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑य ।
आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति । आ॒जिन् धा॑व॒न्त्य् अन॑भिजितस्या॒भिजि॑त्यै ।

मूलम्

वा॒णश् श॒तत॑न्तुर् भवति । श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑य ।
आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति । आ॒जिन् धा॑व॒न्त्य् अन॑भिजितस्या॒भिजि॑त्यै ।

भट्टभास्कर-टीका

3वाण इत्यादि ॥ यदियं दण्ड इत्यादिस्थितेषु दशस्वप्यतिमथितेषु तेषु प्रत्येकं दशदश तन्तवः प्रोताः शततन्तुः वाणो वीणाविशेषः, तेन वाद्यमानेन आजिं धावन्ति । तदनभिजितस्याभिजित्यै भवति ॥

मूलम् (संयुक्तम्)

दुन्दु॒भीन्त्स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व [29]
वाच॒मव॑ रुन्धते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमाव्ँवाक्प्रवि॑ष्टा॒ तामे॒वाव॑ रुन्ध॒तेऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑साव्ँवा॒चामव॑रुद्ध्या

विश्वास-प्रस्तुतिः

दु॒न्दु॒भिन्त् समाघ्न॑न्ति । पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व वाच॒मव॑ रुन्धते ।[29]
भू॒मि॒दु॒न्दु॒भिम् आ घ्न॑न्ति । यैवेमाव्ँ वाक्प्रवि॑ष्टा॒ तामे॒वाव॑ रुन्ध॒ते ।
अथो॑ इ॒मामे॒व ज॑यन्ति । सर्वा॒ वाचो॑ वदन्ति ।
सर्वा॑साव्ँ वा॒चाम् अव॑रुध्यै ।

4दुन्दुभीन् समाघ्नन्ति तदानीं युगपत् ध्मानयन्ति । परमेत्यादि । गतम् । भूमिदुन्दुभिमाघ्नन्ति । चर्माणाऽऽच्छादितमुखं भूगर्तं भूमिदुन्दुभिः पुच्छकाण्डेन । या वागिमां पृथिवीं प्रविष्टा तामवरुन्धे। अथो अपि च इमां जयत्येव सर्वा वाचः रथन्तरमनुष्यादीनाम् ॥

मूलम् (संयुक्तम्)

आ॒र्द्रे चर्म॒न्व्याय॑च्छेते इन्द्रि॒यस्याव॑रुद्ध्या॒ आन्यᳵ क्रोश॑ति॒ प्रान्यश्शँ॑सति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्त्स स यᳶ प्र॒शँस॑ति पू॒तेष्वे॒वान्नाद्य॑न्दधा॒त्य्…

विश्वास-प्रस्तुतिः

आ॒र्द्रे चर्म॒न् व्याय॑च्छेते , इन्द्रि॒यस्याव॑रुद्ध्यै ।
आ ऽन्यᳵ क्रोश॑ति॒ प्रान्यश्शँ॑सति॒ ।
य आ॒क्रोश॑ति पु॒नात्य् ए॒वैना॒न्त् स ।
स यᳶ प्र॒शँस॑ति पू॒तेष्वे॒वान्नाद्य॑न् दधा॒ति ।

मूलम्

आ॒र्द्रे चर्म॒न् व्याय॑च्छेते , इन्द्रि॒यस्याव॑रुद्ध्यै ।
आ ऽन्यᳵ क्रोश॑ति॒ प्रान्यश्शँ॑सति॒ ।
य आ॒क्रोश॑ति पु॒नात्य् ए॒वैना॒न्त् स ।
स यᳶ प्र॒शँस॑ति पू॒तेष्वे॒वान्नाद्य॑न् दधा॒ति ।

भट्टभास्कर-टीका

5आर्द्रे चर्मन्निति ॥ आर्द्रचर्मनिमित्तं ब्राह्मणशूद्रौ आकर्षन्तौ कलहं कुर्वतः । ‘आङो यमहनः’ इत्यात्मनेपदम् । अन्य इत्यादि । तयोरन्य आक्रोशति निन्दति सत्रिणः ‘इम उद्वासीकारिण इमे दुर्भतूमक्रन्न्’ इति । अन्यो ब्रह्मणः प्रशंसति ‘इमेऽरात्सुरिमे सुभूतमक्रन्न्'21 इति । ‘एकान्याभ्याम्’ इति प्रथमा तिङ्विभक्तिर्निहन्यते । तथा य आक्रोशति स एनान् उत्पुनाति शोधयति । यः प्रशंसति स पूतेष्वेतेषु अन्नाद्यं दधाति ॥

मूलम् (संयुक्तम्)

यृषि॑कृतञ्च [30]
वा ए॒ते दे॒वकृ॑तञ्च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते॒ यद्भू॑ते॒च्छदाँ॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒

विश्वास-प्रस्तुतिः

ऋषि॑कृतञ् च वा ए॒ते दे॒वकृ॑तञ् च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते । [30]
यद् भू॑ते॒च्छदाँ॒ सामा॑नि॒ भव॑न्त्य् उ॒भय॒स्य अव॑रुद्ध्यै ।

मूलम्

ऋषि॑कृतञ् च वा ए॒ते दे॒वकृ॑तञ् च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते । [30]
यद् भू॑ते॒च्छदाँ॒ सामा॑नि॒ भव॑न्त्य् उ॒भय॒स्य अव॑रुद्ध्यै ।

भट्टभास्कर-टीका

6ऋषिकृतमित्यादि ॥ ऋषिभिः कृतं च देवैः कृतं च उपकारं दृष्टस्वरूपं पूर्वैर्मासैरेते सत्रिणोवरुन्धते भूतेछदां सामभिस्तदुभयमप्यवरुन्धते मनुष्यकृतं च दृष्टस्वरूपम् । सर्वत्र ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये सव्ँ॑वत्स॒रमु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ सम्भ॑वत॒स्तेनै॒व मि॑थु॒नान्न य॑न्ति ॥ [31]

विश्वास-प्रस्तुतिः

यन्ति॒ वा ए॒ते मि॑थु॒नाद् ये सव्ँ॑वत्स॒रम् उ॑प॒यन्ति॑ ।
अ॒न्त॒र्वे॒दि मि॑थु॒नौ सम्भ॑वतः । तेनै॒व मि॑थु॒नान् न य॑न्ति ॥ [31]

मूलम्

यन्ति॒ वा ए॒ते मि॑थु॒नाद् ये सव्ँ॑वत्स॒रम् उ॑प॒यन्ति॑ ।
अ॒न्त॒र्वे॒दि मि॑थु॒नौ सम्भ॑वतः । तेनै॒व मि॑थु॒नान् न य॑न्ति ॥ [31]

भट्टभास्कर-टीका

7यन्ति वा इत्यादि ॥ अवगच्छन्ति खल्वेते मिथुनत्वात् मिथुनशक्तिं जहति ये संवत्सरमुपयन्ति, बहुत्वात् कालस्य व्यपगतमिथुनशक्तिस्स्यात् । तस्मादन्तर्वेदि मिथुनौ सम्भवतः मिथुनकृत्यं सहाचरतः मैथुनं कुरुतः पुंश्चली मागधश्च । तेनैव मिथुनात् मिथुनभावान्नापगच्छन्ति सत्रिणः ॥

इति सप्तमे पञ्चमे नवमोऽनुवाकः ॥