मूलम् (संयुक्तम्)
दे॒वानाव्ँ॒ वा अन्त॑ञ्ज॒ग्मुषा॑मिन्द्रि॒यव्ँवी॒र्य॑मपा॑क्राम॒त्तत्क्रो॒शेनावा॑रुन्धत॒ तत्क्रो॒शस्य॑ क्रोश॒त्वय्ँयत्क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते॑ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वेन्द्रि॒यव्ँवी॒र्य॑मव॑ रुन्धते
विश्वास-प्रस्तुतिः
दे॒वानाव्ँ॒ वा अन्त॑ञ्ज॒ग्मुषा॑म् इन्द्रि॒यव्ँ वी॒र्य॑म् अपा॑क्रामत् ।
तत् क्रो॒शेन अवा॑रुन्धत ।
तत् क्रो॒शस्य॑ क्रोश॒त्वम् ।
यत् क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते॑ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्त॑ङ् ग॒त्वेन्द्रि॒यव्ँ वी॒र्य॑मव॑ रुन्धते
मूलम्

भट्टभास्कर-टीका
1इत्थं विकृतयः काश्चिद्विहिताः । अधुना प्रकृतावेव यदुपान्त्यं महाव्रतं नाम तद्गतान् कांश्चिद्विशेषान् विधातुमाह - देवानामित्यादि ॥ देवानामन्तं संवत्सरसत्रस्य समाप्तिं जग्मुषां गतवतां इन्द्रियं वीर्यं च अपागच्छत् । तत् क्रोशनाम्ना साम्ना अवारुन्धत । तत्क्रोशस्य साम्नः क्रोशत्वम् । कुश आह्वाने, रोदने च । उञ्छादिर्द्रष्टव्यः यदित्यादि । गतम् । अन्ते समीपे ॥
मूलम् (संयुक्तम्)
स॒त्त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते॑ स्तुवन्त्य॒ग्निमे॒वोप॑द्र॒ष्टार॑ङ्कृ॒त्वर्द्धि॒मुप॑ यन्ति
विश्वास-प्रस्तुतिः
स॒त्त्रस्यर्द्ध्या॑ ऽऽहव॒नीय॒स्य अन्ते॑ स्तुवन्ति ।
अ॒ग्निम् ए॒व + उप॑द्र॒ष्टार॑ङ् कृ॒त्वर्द्धि॒मुप॑ यन्ति ।
मूलम्
स॒त्त्रस्यर्द्ध्या॑ ऽऽहव॒नीय॒स्य अन्ते॑ स्तुवन्ति ।
अ॒ग्निम् ए॒व + उप॑द्र॒ष्टार॑ङ् कृ॒त्वर्द्धि॒मुप॑ यन्ति ।
भट्टभास्कर-टीका
2सत्रस्यर्ध्येति ॥ इयमपि समाख्या पदद्वयात्मिका; यथा अहिर्बुध्नियेति पदद्वयमिति एकस्य देवस्याख्यात्री । ‘गोपोषं पुष्णाति’ इतिवत् प्रत्येकं वाचकत्वेऽपि समुदिताभ्यामेव देवस्याभिधानमिति । उभयत्र अनवधारणात् अनवग्रहः । अत्र त्ववयवयोः आनर्थक्यात् न पदकार्यं क्रियते । शशविषाणादिवत् विभक्त्युत्पत्तिः । सत्रस्य समृद्धिहेतुत्वं तु विद्यमानमाख्याप्राधान्यात् विवक्ष्यते । अग्निमित्यादि । अग्निमेव उपद्रष्टारं साक्षिणं कृत्वा सत्रस्य ऋद्धिमुपयन्ति ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑ते॒र्हृद॑येन हवि॒र्धाने॒ऽन्तस्स्तु॑वन्ति प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒त्सद॑सः [23]
स्तु॒व॒न्त्यनु॑श्लोकेन प॒श्चाद्य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति
विश्वास-प्रस्तुतिः
प्र॒जाप॑ते॒र् हृद॑येन हवि॒र् धाने॒ऽन्तस् स्तु॑वन्ति ।
प्रे॒माण॑म् ए॒वास्य॑ गच्छन्ति ।
श्लो॒केन॑ पु॒रस्ता॒त् सद॑सस् स्तु॒व॒न्ति , अनु॑श्लोकेन प॒श्चात् [23]।
य॒ज्ञस्यै॒वान्त॑ङ् ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति ।

3प्रजापतेर्हदयेनेति ॥ इयमपि पूर्ववत् समाख्या पदद्वयात्मिका प्रजापतेहृदयवत् विद्यमानोऽप्यर्थो न विवक्ष्यते । अनेन साम्ना हविर्धानेऽन्तः हविर्धानस्य मध्ये स्तुवन्ति । प्रमाणं प्रियत्वमस्य प्रजापतेर्गच्छन्ति । प्रियस्थिरादिना प्रादेशः । श्लोकानुश्लोकशब्दावपि समाख्ये । ताभ्यां सदसः पुरस्तात्पश्चाच्च स्तुवन्ति । श्लोकभाजः कीर्तिभाजः ॥
मूलम् (संयुक्तम्)
न॒वभि॑रध्व॒र्युरुद्गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाᳶ प्रा॒णाने॒व यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेन्द्रि॒यन्द॑ध॒त्यप्र॑तिहृताभि॒रुद्गा॑यति॒
तस्मा॒त्पुरु॑ष॒स्सर्वा॑ण्य॒न्यानि॑ शी॒र्ष्णोऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न पञ्च॑द॒शँ र॑थन्त॒रम्भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शम् [24]
बृ॒हद॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविँ॒शम्भ॒द्रन्द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजा॑त्यै
विश्वास-प्रस्तुतिः
न॒वभि॑र् अध्व॒र्युर् उद्गा॑यति । नव॒ वै पुरु॑षे प्रा॒णाः ।
प्रा॒णाने॒व यज॑मानेषु दधाति॒ ।
सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेन्द्रि॒यन् द॑धति ।
अप्र॑तिहृताभि॒र् उद्गा॑यति ।
तस्मा॒त् पुरु॑ष॒स् सर्वा॑ण्य् अ॒न्यानि॑ शी॒र्ष्णोऽङ्गा॑नि॒ प्रत्य॑चति ।
शिर॑ ए॒व न ।
प॒ञ्च॒द॒शँ र॑थन्त॒रम् भ॑वतीन्द्रि॒यम् ए॒वाव॑ रुन्धते ।
स॒प्त॒द॒शम् बृ॒हद् अ॒न्नाद्य॒स्याव॑रुद्ध्यै [24] ।
अथो॒ प्रैव तेन॑ जायन्ते ।
ए॒क॒विँ॒शम् भ॒द्रन् द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै ।
पत्न॑य॒ उप॑ गायन्ति , मिथुन॒त्वाय॒ प्रजा॑त्यै ।

4नवभिस्स्तोत्रियाभिः उद्गायति अध्वर्युः । तस्मादित्यादि । तस्मात् शीर्ष्णोऽन्यानि सर्वाण्यङ्गानि पुरुषः प्रत्यचति प्रत्याकर्षति संकोचयति । प्रभावरहितत्वात् सङ्कोचः । त्रिवृच्छिरो भवति शिर एव केवलं न प्रत्यचति तस्य त्रिवृत्त्वात् पञ्चदशकं रथन्तरंसाम भवति एकः पक्षः । सप्तदशं बृहत्सामकमेकपक्षः । एकविंशं भद्रसामकं द्विपदासु ऋक्षु पञ्चभिः स्तोत्रियाभिः पच्छः पत्नय उपगायन्ति भद्रं साम । गतमन्यत् ॥
मूलम् (संयुक्तम्)
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ सो॑ऽकामयता॒साम॒हँ रा॒ज्यम्परी॑या॒मिति॒ तासाँ॑ राज॒नेनै॒व रा॒ज्यम्पर्यै॒त्तद्रा॑ज॒नस्य॑ राजन॒त्वय्ँयद्रा॑ज॒नम्भव॑ति प्र॒जाना॑मे॒व तद्यज॑माना रा॒ज्यम्परि॑ यन्ति
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
सो॑ऽकामयत - “आ॒साम॒हँ रा॒ज्यम् परी॑या॒मि"ति॑ ।
तासाँ॑ राज॒नेनै॒व रा॒ज्यम् पर्यै॒त् ,
तद्रा॑ज॒नस्य॑ राजन॒त्वम् ।
यद् रा॑ज॒नम् भव॑ति प्र॒जाना॑मे॒व तद् यज॑माना रा॒ज्यम् परि॑ यन्ति ।

5प्रजापतिरित्यादि ॥ गतम् । आसां राज्यं राजभावं अहं परीयां परिगच्छेयमिति पुरोहितादित्वाद्राजशब्दाद्यत् । ततो राजनेनैव साम्रा राज्यं पर्यैत् तद्राजनस्य राजनत्वम् । राजत्यनेनेति राजनम् । यदित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
पञ्चविँ॒शम्भ॑वति प्र॒जाप॑तेः [25]
आप्त्यै॑ प॒ञ्चभि॒स्तिष्ठ॑न्तस्स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राडन्नव्ँ॑वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते
विश्वास-प्रस्तुतिः
प॒ञ्च॒विँ॒शम् भ॑वति प्र॒जाप॑तेर् आप्त्यै ॑ ।[25]
प॒ञ्चभि॒स् तिष्ठ॑न्तस् स्तुवन्ति , देवलो॒कमे॒वाभि ज॑यन्ति ।
प॒ञ्चभि॒र् आसी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ ।
दश॒ सम्प॑द्यन्ते । दशा॑क्षरा वि॒राट् । अन्नव्ँ॑ वि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते ।

6पञ्चविंशमित्यादि ॥ तद्राजनं पञ्चविंशं भवति आत्मा प्रजापतेः पञ्चविंशस्याप्त्यै भवति । पञ्चभिः स्तोत्रियाभिः तिष्ठन्तः स्तुवन्ति । पञ्चभिरासीनास्स्तुवन्तीत्येव । पञ्चकाभ्यामुभयोर्लोकयोरभिजयः । दशेत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्येकै॑क॒यास्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्यँ॒ सम्भ॑रन्ति॒ ताभि॑रुद्गा॒तोद्गा॑यति दि॒ग्भ्य ए॒वान्नाद्य॑म् [26]
स॒म्भृत्य॒ तेज॑ आ॒त्मन्द॑धते॒ तस्मा॒देकᳶ॑ प्रा॒णस्सर्वा॒ण्यङ्गा॑न्यव॒त्
विश्वास-प्रस्तुतिः
पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति ।
पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्ति ।
एकै॑क॒याऽस्तु॑तया स॒माय॑न्ति , दि॒ग्भ्य ए॒वान्नाद्यँ॒ सम्भ॑रन्ति ।
ताभि॑र् उद्गा॒ता + उद्गा॑यति ।
दि॒ग्भ्य ए॒व अन्नाद्यँ स॒म्भृत्य॒ तेज॑ आ॒त्मन् द॑धते ।[26]
तस्मा॒देकᳶ॑ प्रा॒णस् सर्वा॒ण्यङ्गा॑न्य् अव॒ति ।

7नवभिरध्वर्युरुद्गायतीत्युक्तम् ॥ पञ्चधा पञ्चस्तोत्रिया विनिषद्य पृथक्पृथगासीना दिक्षु स्तुवन्ति एकैकयाऽस्तुतया समायन्ति सङ्गच्छन्ति उद्गातारम् । ताभिश्चतसृभिरुद्गातोद्गायति । तस्मादित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
अथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ्छिर॑ उत्त॒मङ्कु॑रु॒त ए॒वमे॒व तद्यज॑मानाᳶ प्र॒जाना॑मुत्त॒मा भ॑वन्त्य्…
विश्वास-प्रस्तुतिः
अथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ् छिर॑ उत्त॒मङ् कु॑रु॒त ,
ए॒वमे॒व तद् यज॑मानाᳶ प्र॒जाना॑म् उत्त॒मा भ॑वन्ति ।
मूलम्
अथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ् छिर॑ उत्त॒मङ् कु॑रु॒त ,
ए॒वमे॒व तद् यज॑मानाᳶ प्र॒जाना॑म् उत्त॒मा भ॑वन्ति ।
भट्टभास्कर-टीका
8अथो अपि च यथा सुपर्ण उत्पतिष्यन् उत्पतितुमारभमाणः शिर उत्तमं उद्गततमं कुरुते एवमेव यजमाना आत्मनि तेजो दधानाः प्राजानामुत्तमा भवन्ति । उत्तमशब्द उञ्छादिरन्तोदात्तः ॥
मूलम् (संयुक्तम्)
आस॒न्दीमु॑द्गा॒ता रो॑हति॒ साम्रा॑ज्यमे॒व ग॑च्छन्ति प्ले॒ङ्खँ होता॒ नाक॑स्यै॒व पृ॒ष्ठँ रो॑हन्ति कू॒र्चाव॑ध्व॒र्युर्ब्र॒ध्नस्यै॒व वि॒ष्टप॑ङ्गच्छन्त्य्…
विश्वास-प्रस्तुतिः
आ॒स॒न्दी॒म् उ॑द्गा॒ता रो॑हति॒ साम्रा॑ज्यमे॒व ग॑च्छन्ति ।
प्ले॒ङ्खँ होता॒ नाक॑स्यै॒व पृ॒ष्ठँ रो॑हन्ति ।
कू॒र्चाव् अ॑ध्व॒र्युर् ब्र॒ध्नस्यै॒व वि॒ष्टप॑ङ् गच्छन्ति ।
मूलम्
आ॒स॒न्दी॒म् उ॑द्गा॒ता रो॑हति॒ साम्रा॑ज्यमे॒व ग॑च्छन्ति ।
प्ले॒ङ्खँ होता॒ नाक॑स्यै॒व पृ॒ष्ठँ रो॑हन्ति ।
कू॒र्चाव् अ॑ध्व॒र्युर् ब्र॒ध्नस्यै॒व वि॒ष्टप॑ङ् गच्छन्ति ।
भट्टभास्कर-टीका
9आसन्दीमारोहत्युद्गाता । साम्राज्यं गच्छन्ति सर्वे । एवं सर्वेषां फलं सर्वत्र । प्लेङ्खं डोलां होताऽऽरोहतीत्येव । ब्रध्नस्यादित्यस्य विष्टपं लोकम् ॥
मूलम् (संयुक्तम्)
ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठ॒न्त्यथो॑ आ॒क्रम॑णमे॒व तत्सेतुय्ँ॒यज॑मानाᳵ कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ [27]
विश्वास-प्रस्तुतिः
ए॒ताव॑न्तो॒ वै दे॑वलो॒कास् तेष्वे॒व य॑थापू॒र्वम् प्रति॑ तिष्ठ॒न्ति ।
अथो॑ आ॒क्रम॑णम् ए॒व तत्सेतुय्ँ॒ यज॑मानाᳵ कुर्वते , सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ [27]
मूलम्
ए॒ताव॑न्तो॒ वै दे॑वलो॒कास् तेष्वे॒व य॑थापू॒र्वम् प्रति॑ तिष्ठ॒न्ति ।
अथो॑ आ॒क्रम॑णम् ए॒व तत्सेतुय्ँ॒ यज॑मानाᳵ कुर्वते , सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ [27]
भट्टभास्कर-टीका
10एतावन्त इत्यादि ॥ अथो अपि च आक्रमणसाधनं सेतुं यजमानाः कुर्वते । स्वर्गस्य समुद्रस्य समष्ट्यै सम्यगवाप्तये तद्भवति । ‘तादौ च’ इति गतेः प्रकतिस्वरत्वम् ॥
इति सप्तमे पञ्चमे अष्टमोनुवाकः ॥