०७

मूलम् (संयुक्तम्)

उ॒त्सृज्या (३) न्नोत्सृज्या (३) मिति॑ मीमाँसन्ते ब्रह्मवा॒दिन॒स्तद्वा॑हुरु॒त्सृज्य॑मे॒वेत्य॑मावा॒स्या॑याञ्च पौर्णमा॒स्याञ्चो॒त्सृज्य॒मित्या॑हुरे॒ते हि य॒ज्ञव्ँवह॑त॒ इति॒

विश्वास-प्रस्तुतिः

उ॒त्सृज्या (३) न्नोत्सृज्या (३) मिति॑ मीमाँसन्ते ब्रह्मवा॒दिनः॑ ।

मूलम्

उ॒त्सृज्या (३) न्नोत्सृज्या (३) मिति॑ मीमाँसन्ते ब्रह्मवा॒दिनः॑ ।

भट्टभास्कर-टीका

1उक्तमहरुत्स्रष्टव्यमिति ॥ तदिदानीं विचारपूर्वं निर्णेतुमारभते - उत्सृज्यामित्यादि ॥ किमुत्सृज्य समुत्स्रष्टव्यमहः उत नेति विचारयन्ति ब्रह्मवादिनः । ‘ऋदुपधाच्च’ इति क्यप्प्रत्ययः । ‘विचार्यमाणानां’ इत्युदात्तः प्लुतः, तस्यासिद्धत्वात् कृदुत्तरपदप्रकृतिस्वरत्वं च निवर्तते । ‘मान्बध’ इत्यादिना मानेर्जिज्ञासायां सन्प्रत्ययः ।

विश्वास-प्रस्तुतिः

तदु + आ॑हुर् उ॒त्सृज्य॑म् ए॒वेति॑ ।
अ॑मावा॒स्या॑याञ्च पौर्णमा॒स्याञ् च उ॒त्सृज्य॒मित्या॑हुः ।
ए॒ते हि य॒ज्ञव्ँ वह॑त॒ इति॑ ।

मूलम्

तदु + आ॑हुर् उ॒त्सृज्य॑म् ए॒वेति॑ ।
अ॑मावा॒स्या॑याञ्च पौर्णमा॒स्याञ् च उ॒त्सृज्य॒मित्या॑हुः ।
ए॒ते हि य॒ज्ञव्ँ वह॑त॒ इति॑ ।

भट्टभास्कर-टीका

तद्वाहुरित्यादि । तत्र चाहुः ब्रह्मवादिनोऽन्ये वा यज्ञविदः उत्सृज्यमेव नेदं विचार्यमिति । अथोत्सर्गकाला उच्यन्ते - अमावास्यायां चेत्यादि । हेतुमाह - एते हीति । यज्ञं कर्मान्तरं दर्शपूर्णमासात्मकं एते दर्शपूर्णमासे सर्वदा वहतः तस्मादुत्स्रष्टव्यानयोः न यज्ञ कालस्स्यादिति । किंच तदाधारत्वात् सर्वकर्मणां ताभ्यां तेषां मिश्रणं च प्रयोजनमिति ॥

मूलम् (संयुक्तम्)

ते त्वाव नोत्सृज्ये॒ इत्या॑हु॒र्ये अ॑वान्त॒रय्ँ य॒ज्ञम्भे॒जाते॒ इति॒ या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑मु॒त्सृज्य॒मित्या॑हुरे॒ष वै मा॒सो वि॑श॒र इति॒

विश्वास-प्रस्तुतिः

ते त्वाव नोत्सृज्ये॒ इत्या॑हु॒र् ये अ॑वान्त॒रय्ँ य॒ज्ञम् भे॒जाते॒ इति ।

मूलम्

ते त्वाव नोत्सृज्ये॒ इत्या॑हु॒र् ये अ॑वान्त॒रय्ँ य॒ज्ञम् भे॒जाते॒ इति ।

भट्टभास्कर-टीका

2किं सर्वदैव तयोरुत्सृज्यमित्याह - ते त्वावेति ॥ संहितायां वाशब्दस्य लोपः । तुशब्दो व्यावृत्तौ । ते तु अमावास्यापौर्णमास्यौ नोत्सृज्ये नोत्स्रष्टव्ये तयोरिति यज्ञविद आहुः । अधिकरणे कृत्यः । नेत्युक्तं, के ते इत्याह - अवान्तरं अभ्यन्तरं यज्ञं भेजाते अन्तः प्रविश्याङ्गभावेन यज्ञं भजेते धारयतः । छान्दसो लिट् । तत्र नोत्स्रष्टव्यमहरस्ति । अन्यथा एते अवेक्षमाणस्य तस्य यज्ञस्याभाव एव स्यात् ।

विश्वास-प्रस्तुतिः

या प्र॑थ॒मा व्य॑ष्टका॒ , तस्या॑म् उ॒त्सृज्य॒मित्या॑हुः ।
ए॒ष वै मा॒सो वि॑श॒र इति॒

मूलम्

या प्र॑थ॒मा व्य॑ष्टका॒ , तस्या॑म् उ॒त्सृज्य॒मित्या॑हुः ।
ए॒ष वै मा॒सो वि॑श॒र इति॒

भट्टभास्कर-टीका

या प्रथमेत्यादि । या प्रथमा कृष्णाष्टमी व्यष्टकाख्या तस्यामुत्सृज्यमित्याहुः । हेतुं चाहुः - मासस्यास्य एष विशरः विशरणस्थानमियं व्यष्टकेति । शीतातिप्रवृत्त्या विनष्ट इव मासोत्र भवतीति ॥

मूलम् (संयुक्तम्)

नादि॑ष्टम् [19]
उत्सृ॑जेयु॒र्यदादि॑ष्टमुत्सृ॒जेयु॑र्या॒दृशे॒ पुनᳶ॑ पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ स॒म्पद्ये॑त

विश्वास-प्रस्तुतिः

नाऽऽदि॑ष्टम् उत्सृ॑जेयुः ।[19]
यद् आदि॑ष्टम् उत्सृ॒जेयु॑र् , या॒दृशे॒ पुनᳶ॑ पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ स॒म्पद्ये॑त ।

मूलम्

नाऽऽदि॑ष्टम् उत्सृ॑जेयुः ।[19]
यद् आदि॑ष्टम् उत्सृ॒जेयु॑र् , या॒दृशे॒ पुनᳶ॑ पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ स॒म्पद्ये॑त ।

भट्टभास्कर-टीका

3नादिष्टमिति ॥ न नियमेनोत्सृष्टमप्युत्सृजेयुः । यत्र क्वचिदुत्सृष्टं न पुनस्तत्रोत्सृजेयुः । प्रथमग्रहणादेव सिद्धे वचनं क्वचिदन्यत्र विधानार्थम् । तदेवाह - यदिति । यादृशे दिवसे आदिष्टमुत्सृजेयुः यद्युत्सर्गः प्रयुज्येत तदादिष्टमुत्सृजेयुः । कीदृश इत्याह - यादृश इत्यादि । पुनः पर्याप्लावे पर्यावृत्तौ वर्तमानायां मध्ये षडहस्य यादृशे दिवसे अष्टमी संपद्यते यदि तादृशे पूर्वमुत्सुष्टं न पुनरुत्सृजेयुः । अतादृशत्वे द्वितीयादावप्युत्सुजेयुरिति । अत्र हि सावनेन सत्रं प्रवर्तते चान्द्रमानेन तिथिरिति वैषम्यात् कदाचित्तादृशत्वमपि स्यादिति । आदिष्टमित्यादेशः निवर्तते स्थानी स्यादिति तुल्यत्वादुत्सृष्टमहरित्युच्यते । स्थानी ह्यस्य क्वचिदादेशेन निवर्तितो न तत्र पुनर्निवर्त्यते, विषयान्तरे तु निवर्त्यत इति ॥

मूलम् (संयुक्तम्)

षड॒हैर्मासा॑न्त्स॒म्पाद्य॒ यत्स॑प्त॒ममह॒स्तस्मि॒न्नुत्सृ॑ज्येयु॒स्तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेयुरै॒न्द्रन्दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालव्ँ वैश्वदे॒वन्द्वाद॑शकपालम॒ग्नेर्वै वसु॑मतᳶ प्रातस्सव॒नय्ँयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनी॑ङ्कु॒र्वन्ति॑ [20]
सव॑नमष्टा॒भिरुप॑ यन्ति॒ यदै॒न्द्रन्दधि॒ भव॒तीन्द्र॑मे॒व तद्भा॑ग॒धेया॒न्न च्या॑वय॒न्तीन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माध्य॑न्दिनँ॒ सव॑नय्ँ॒यदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालन्नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनी॑ङ्कु॒र्वन्ति॒ सव॑नमेकाद॒शभि॒रुप॑ यन्ति॒ विश्वे॑षाव्ँ॒ वै दे॒वाना॑मृभु॒मता॑न्तृतीयसव॒नय्ँयद्वै॑श्वदे॒वन्द्वाद॑शकपालन्नि॒र्वप॑न्ति दे॒वता॑ ए॒व तद्भा॒गिनीः॑ कु॒र्वन्ति॒ सव॑नन्द्वाद॒शभिः॑ [21]
उप॑ यन्ति

विश्वास-प्रस्तुतिः

ष॒ड॒हैर्मासा॑न्त् स॒म्पाद्य॒ यत्स॑प्त॒ममह॒स् तस्मि॒न्न् उत्सृ॑ज्येयुः ।

तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न् निर्व॑पेयुर् ऐ॒न्द्रन् दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒म् एका॑दशकपालव्ँ वैश्वदे॒वन् द्वाद॑शकपालम् ।

अ॒ग्नेर् वै वसु॑मतᳶ प्रातस्सव॒नम् ।

यद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म् अ॒ष्टाक॑पालन् नि॒र्वप॑न्ति दे॒वता॑म् ए॒व तद्भा॒गिनी॑ङ्कु॒र्वन्ति॑ [20] ।
सव॑नम् अष्टा॒भिर् उप॑ यन्ति ।

यदै॒न्द्रन् दधि॒ भव॒तीन्द्र॑मे॒व तद्भा॑ग॒धेया॒न्न च्या॑वय॒न्ति ।

इन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माध्य॑न्दिनँ॒ सव॑नम् ।
यदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒म् एका॑दशकपालन् नि॒र्वप॑न्ति , दे॒वता॑मे॒व तद्भा॒गिनी॑ङ् कु॒र्वन्ति, सव॑नम् एकाद॒शभि॒र् उप॑ यन्ति ।

विश्वे॑षाव्ँ॒ वै दे॒वाना॑म् ऋभु॒मता॑न् तृतीयसव॒नम् ।

यद् वै॑श्वदे॒वन् द्वाद॑शकपालन् नि॒र्वप॑न्ति , दे॒वता॑ ए॒व तद्भा॒गिनीः॑ कु॒र्वन्ति॒, सव॑नन् द्वाद॒शभिर् उप॑ यन्ति ।[21]

4षडहैरित्यादि ॥ षडेहैः पञ्चभिः पञ्च मासान् संपाद्य यत्सप्तमं पञ्चमषडहानन्तरभावि अहस्तस्मिन्नुत्सृजेयुः क्रमप्राप्तं कर्म । तदग्नय इत्यादि । तस्मि न्नुत्सृष्टेऽह्नि आग्नेयादीनि निर्वपेयुः - अग्नेर्वा इत्यादि । प्रातस्सवने देवतां वसुमन्तमग्निं पुरोडाशेन भागवतीं कुर्वन्ति नोत्सृष्टा अप्यन्तरिता भवन्ति । अष्टत्वसङ्ख्यया च गायत्रं प्रातस्सवनमुपगच्छन्ति । (ततश्च उत्सृष्टं चानुत्सृष्टं च तदहर्भवति । एतदित्यादि । एतद्धि यज्ञं विच्छिन्दन्ति यत् षडहसस्ततं षडहैरविच्छेदेन सम्बद्धं सन्ततम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । अथानन्तरभावि अहरुत्सृजन्ति यज्ञमहरुत्सर्गेण विच्छिन्दन्ति । अथ यच्चाहरुत्सृजन्तीति । प्राजापत्यमित्यादि । उत्सृष्टेऽह्नि सन्तन्वन्ति अविछिन्नं कुर्वते) नोत्सृष्टं भवति । एवमुत्तरत्र द्रष्टव्यम् । ‘ह्रस्वनुड्भ्याम्’ इत्युदात्तः वसुभ्यो व्यत्ययेन भवति ॥

मूलम् (संयुक्तम्)

प्राजाप॒त्यम्प॒शुमा ल॑भन्ते य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञस्यान॑नुसर्गाय

विश्वास-प्रस्तुतिः

प्रा॒जा॒प॒त्यम्प॒शुम् आ ल॑भन्ते । य॒ज्ञो वै प्र॒जाप॑तिर् य॒ज्ञस्याऽन॑नुसर्गाय ।

मूलम्

प्रा॒जा॒प॒त्यम्प॒शुम् आ ल॑भन्ते । य॒ज्ञो वै प्र॒जाप॑तिर् य॒ज्ञस्याऽन॑नुसर्गाय ।

भट्टभास्कर-टीका

5प्राजापत्यमित्यादि ॥ तस्मिन्नेवाह्नि उक्तस्य द्विर्वचनं पुरोडाशा मा बाधिषतेति । अननुसर्गाय अनुत्सर्गाय प्राजापत्यः पशुः ॥

मूलम् (संयुक्तम्)

अभिव॒र्त इ॒तष्षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वति॒ ब्रह्म॒ वा अ॑भिव॒र्तो ब्रह्म॑णै॒व तत्सु॑व॒र्गल्ँ लो॒कम॑भिव॒र्तय॑न्तो यन्ति प्रतिकू॒लमि॑व॒ हीतस्सु॑व॒र्गो लो॒क

विश्वास-प्रस्तुतिः

अ॒भि॒व॒र्त इ॒तष् षण्मा॒सो ब्र॑ह्मसा॒मम् भ॑वति । ब्रह्म॒ वा अ॑भिव॒र्तः ।
ब्रह्म॑णै॒व तत्सु॑व॒र्गल्ँ लो॒कम् अ॑भिव॒र्तय॑न्तो यन्ति ।
प्र॒ति॒कू॒ल॒म् इ॑व हि + इतस् सु॑व॒र्गो लो॒कः ।

मूलम्

अ॒भि॒व॒र्त इ॒तष् षण्मा॒सो ब्र॑ह्मसा॒मम् भ॑वति । ब्रह्म॒ वा अ॑भिव॒र्तः ।
ब्रह्म॑णै॒व तत्सु॑व॒र्गल्ँ लो॒कम् अ॑भिव॒र्तय॑न्तो यन्ति ।
प्र॒ति॒कू॒ल॒म् इ॑व हि + इतस् सु॑व॒र्गो लो॒कः ।

भट्टभास्कर-टीका

6अभिवर्त इति ॥ पूर्वस्मिन् पक्षसि इत इमं प्रथममारभ्य इतो वा यतः षण्मासोभिवर्तो ब्रह्मसामं भवति । (व्यत्यये) ल्यब्लोपे पञ्चमी । ब्रह्म वा इत्यादि । स्वर्गं लोकं ब्रह्मणैवाभिमुख्येन वर्तयन्तो गच्छन्ति स्वर्गमेव प्रतिपद्यन्ते । प्रतिकूलमिति । इत इमं मनुष्यलोकमपेक्ष्य प्रतिकूलं प्रतिकूलमिव हि स्वर्गो लोको वर्तते; अधोमुखत्वादित्येके । मृत्वा तत्र गमनादित्यन्ये ॥

मूलम् (संयुक्तम्)

इन्द्र॒ क्रतु॑न्न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ । शिक्षा॑ नो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीम॒हीत्य॒मुत॑ आय॒ताँ षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वत्

विश्वास-प्रस्तुतिः

इन्द्र॒ क्रतु॑न् न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
शिक्षा॑ नो अ॒स्मिन् पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑र् अशीम॒हीत्य् अ॒मुत॑ आय॒ताँ षण्मा॒सो ब्र॑ह्मसा॒मम् भ॑वति ।

मूलम्

इन्द्र॒ क्रतु॑न् न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
शिक्षा॑ नो अ॒स्मिन् पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑र् अशीम॒हीत्य् अ॒मुत॑ आय॒ताँ षण्मा॒सो ब्र॑ह्मसा॒मम् भ॑वति ।

भट्टभास्कर-टीका

7इन्द्र क्रतुमित्यादि ॥ अमुतः अमुं द्यामारभ्य आयतां पर्यावृत्तानां षण्मासो ब्रह्मसामं भवति ‘इन्द्र क्रतुं’ इति मन्त्रेण । इयं च पथ्याबृहती, तृतीयस्य पादस्य द्वादशाक्षरत्वात् । अर्थस्तु - हे इन्द्र! क्रतुं प्रज्ञां कर्म वा तद्विषयं कर्मैव वा नः अस्मभ्यं आभर आहर । ‘हृग्रहोर्भः’ । यथा पिता पुत्रेभ्यः आहरति । किञ्च - नो ऽस्मान् अस्मिन् यामनि यज्ञे शिक्ष शक्तान् कुरु । ‘द्व्यचोतस्तिङः’ इति दीर्घः ।, हे पुरुहूत त्वत्प्रसादात् वयं जीवाः जीवन्तः ज्योतिष्मन्तं मनुष्यलोकं अशीमहि प्राप्नुयामः । अश्नोतेश्शपो लुक् ॥

मूलम् (संयुक्तम्)

अ॒यव्ँ वै लो॒को ज्योतिᳶ॑ प्र॒जा ज्योति॑रि॒ममे॒व तल्लो॒कम्पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ॥ [22]

विश्वास-प्रस्तुतिः

अ॒यव्ँ वै लो॒को ज्योतिᳶ॑ प्र॒जा ज्योतिः ।
इ॒ममे॒व तल् लो॒कम् पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ॥ [22]

मूलम्

अ॒यव्ँ वै लो॒को ज्योतिᳶ॑ प्र॒जा ज्योतिः ।
इ॒ममे॒व तल् लो॒कम् पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति ॥ [22]

भट्टभास्कर-टीका

8अथास्यैव ब्राह्मणम् - अयं वा इत्यादि ॥ अयं लोको ज्योतिः प्रकाशः प्रत्यक्षत्वात् । प्रजा ज्योतिः प्रकाशहेतुत्वात् । एवंविधाभ्यां पक्षाभ्यां उभौ लोकौ अभिजितौ भवतः ॥

इति सप्तमे पञ्चमे सप्तमोनुवाकः ॥