०६

मूलम् (संयुक्तम्)

ष॒ड॒हैर्मासा॑न्त्स॒म्पाद्याह॒रुत्सृ॑जन्ति षड॒हैर्हि मासा॑न्त्स॒म्पश्य॑न्त्यर्धमा॒सैर्मासा॑न्त्स॒म्पाद्याह॒रुत्सृ॑जन्त्यर्धमा॒सैर्हि मासा॑न्त्स॒म्पश्य॑न्त्यमावा॒स्य॑या॒ मासा॑न्त्स॒म्पाद्याह॒रुत्सृ॑जन्त्यमावा॒स्य॑या॒ हि मासा॑न्त्स॒म्पश्य॑न्ति पौर्णमा॒स्या मासा॑न्त्स॒म्पाद्याह॒रुत्सृ॑जन्ति पौर्णमा॒स्या हि मासा॑न्त्स॒म्पश्य॑न्ति॒

विश्वास-प्रस्तुतिः

ष॒ड॒हैर् मासा॑न्त् स॒म्पाद्य + अह॒र् उत्सृ॑जन्ति । ष॒ड॒हैर् हि मासा॑न्त् स॒म्पश्य॑न्ति ।
अ॒र्ध॒मा॒सैर् मासा॑न्त् स॒म्पाद्य + अह॒र् उत्सृ॑जन्ति । अ॒र्ध॒मा॒सै॒र् हि मासा॑न्त् स॒म्पश्य॑न्ति ।
अ॒मा॒वास्य॑या॒ मासा॑न्त् स॒म्पाद्याह॒र् उत्सृ॑जन्ति । अ॒मा॒वा॒स्य॑या॒ हि मासा॑न्त् स॒म्पश्य॑न्ति ।
पौ॒र्ण॒मा॒स्या मासा॑न्त् स॒म्पाद्याह॒र् उत्सृ॑जन्ति । पौ॒र्ण॒मा॒स्या हि मासा॑न्त् स॒म्पश्य॑न्ति॒ ।

मूलम्

भट्टभास्कर-टीका

1अथोत्सर्गिणामयनं प्रस्तूयते - इदं च गवामयनस्य गुणविकारः । अत्र विशेष उच्यते - षडहैरिति ॥ मासः सावनः त्रिंशदुष्णकरोदयं सावनं मासमाहुः । उक्ताषडहाः पृष्ठ्याभिप्लवात्मकाः । तैर्मासान् संपाद्य पूरयित्वा अनन्तरस्य मासस्य आद्यमहर्ज्योतिराख्यं उत्सृजन्ति त्यजन्ति । अत्र षडहा एव गण्यन्ते न दिवसाः । षडहैरहः पञ्चभिः मासान् सपश्यन्ति गणयित्वा जानन्ति पञ्चानां षण्णां च षडाहानां संवर्गस्त्रिंशदिति । अर्धमासैरिति । द्वाभ्यामर्धमासाभ्यां पञ्चदशकाभ्यां (पञ्चम एकाभ्या) एकमासं संपादयति । समप्रविभागे अर्धशब्दः । ‘अर्ध नपुंसकम्’ इति समासः । अर्धमासैर्हि मासान् संपश्यन्ति द्वाभ्यां द्वाम्यामर्धमासाभ्यां एकैको मास गति गणयित्वा मासान् जानन्ति जनयन्ति । अत्रार्धमासावेव गण्येते, न दिवसाः अमावास्ययेति । अमावास्यामारभ्य मासस्सपाद्यः । अत्रामावास्यैव गण्यते । न दिवसादि, त्रिंशद्दिवसव्यपगमे अमावास्यान्तरापगमात् अमावास्यया मासज्ञानम् । पौर्णमास्येति । गतम् ॥

मूलम् (संयुक्तम्)

यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒ यᳶ पू॒र्णादु॒दच॑ति [15]
प्रा॒णम॑स्मि॒न्त्स द॑धाति॒ यत्पौ॑र्णमा॒स्या मासा॑न्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ सव्ँवत्स॒रायै॒व तत्प्रा॒णन्द॑धति॒ तदनु॑ स॒त्त्रिण॒ᳶ प्राण॑न्ति॒

विश्वास-प्रस्तुतिः

यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति । यᳶ पू॒र्णादु॒दच॑ति प्रा॒णम् अ॑स्मि॒न्त् स द॑धाति [15]।

यत् पौ॑र्णमा॒स्या मासा॑न्त् स॒म्पाद्याह॑र् उत्सृ॒जन्ति॑ , सव्ँवत्स॒रायै॒व तत् प्रा॒णन् द॑धति ।
तदनु॑ स॒त्त्रिण॒ᳶ प्राण॑न्ति ।

2यो वा इत्यादि ॥ यः पूर्णे आधारे पुनरपि आसिञ्चति प्रक्षिपति जलादि स खलु तं परासिञ्चति सेचनेन नाशयति । यस्तत एवोदचति उत्सिञ्चति उद्धरति स्तोकं सोऽस्मिन् प्राणावकाशं दधाति । तस्मात्पौर्णमास्यनन्तरमहरुत्सर्जनेन संवत्सराय प्राणावकाशं दधाति ततश्च तदनु तेनैव हेतुना सत्रिणः प्राणन्ति । ‘अनुर्लक्षणे’ इति कर्मप्रवचनीयत्वम् ॥

मूलम् (संयुक्तम्)

यदह॒र्नोत्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒वँ सव्ँ॑वत्स॒रो वि प॑ते॒दार्ति॒मार्च्छे॑यु॒र्यत्पौ॑र्णमा॒स्या मासा॑न्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ सव्ँवत्स॒रायै॒व तदु॑दा॒नन्द॑धति॒ तदनु॑ स॒त्त्रिण॒ उत् [16]
अ॒न॒न्ति॒ नार्ति॒मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तो यत्पौ॑र्णमा॒स्या मासा॑न्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्य॒ज्ञेन॑ य॒ज्ञम्प्र॒त्यव॑रोहन्ति॒

विश्वास-प्रस्तुतिः

यदह॒र् न + उत्सृ॒जेयु॒र् यथा॒ दृति॒रुप॑नद्धो वि॒पत॑ति + ए॒वँ सव्ँ॑वत्स॒रो वि प॑तेत् ।
आर्ति॒मार्च्छे॑युः । यत्पौ॑र्णमा॒स्या मासा॑न्त् स॒म्पाद्याह॑र् उत्सृ॒जन्ति॑ , सव्ँवत्स॒रायै॒व तद् उ॑दा॒नन् द॑धति ।
तदनु॑ स॒त्त्रिण॒ उद् अ॑नन्ति , नार्ति॒म् आर्च्छ॑न्ति ।[16]

3यदहरित्यादि । यदि यथोक्तमहर्नोत्सृजेयुः यथादृतिरुपनद्धः पूरयित्वा बद्धः विपतति विलोडनेन क्वचिदवतिष्ठते एवं संवत्सरो विपतेत् ततश्चार्तिमार्छेयुः यजमानाः । अथाहरुत्सर्जनेन संवत्सरस्योदानं दधाति उच्छ्वासावकाशं कुर्वन्ति तदनुसत्रिण उदनन्ति उच्छ्वसन्ति नार्तिं गच्छन्ति ।

विश्वास-प्रस्तुतिः

पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तः ।
यत्पौ॑र्णमा॒स्या मासा॑न्त् स॒म्पाद्याह॑र् उत्सृ॒जन्ति॑ , दे॒वाना॑मे॒व तद् य॒ज्ञेन॑ य॒ज्ञम् प्र॒त्यव॑रोहन्ति ।

मूलम्

पू॒र्णमा॑से॒ वै दे॒वानाँ॑ सु॒तः ।
यत्पौ॑र्णमा॒स्या मासा॑न्त् स॒म्पाद्याह॑र् उत्सृ॒जन्ति॑ , दे॒वाना॑मे॒व तद् य॒ज्ञेन॑ य॒ज्ञम् प्र॒त्यव॑रोहन्ति ।

भट्टभास्कर-टीका

पूर्णमासे वा इत्यादि । सुतः सुत्या । प्रायेण पूर्णमासे देवानां सुत्येति यावत् । तस्मात्पौर्णमास्युपक्रमं मासं संपाद्य अह्नः पौर्णमास्याः उत्सर्जनाद्देवानामेव यज्ञेन यज्ञं पृष्ठं प्रत्यवरोहन्ति देवानां यज्ञमाकृष्य यज्ञपार्श्वं प्राप्नुवन्ति । ततश्च उत्सृष्टं चानुत्सृष्टं च तदहर्भवति ॥

मूलम् (संयुक्तम्)

वि वा ए॒तद्य॒ज्ञञ्छि॑न्दन्ति॒ यत्ष॑ड॒हस॑न्ततँ॒ सन्त॒मथाह॑रुत्सृ॒जन्ति॑ प्राजाप॒त्यम्प॒शुमाल॑भन्ते प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑न्वन्ति॒

विश्वास-प्रस्तुतिः

वि वा ए॒तद् य॒ज्ञञ् छि॑न्दन्ति॒ यत्ष॑ड॒हस॑न्ततँ॒ सन्त॒म् अथाह॑र् उत्सृ॒जन्ति॑ ।
प्रा॒जा॒प॒त्यम् प॒शुम् आल॑भन्ते । प्र॒जाप॑ति॒स् सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑न्वन्ति ।

मूलम्

वि वा ए॒तद् य॒ज्ञञ् छि॑न्दन्ति॒ यत्ष॑ड॒हस॑न्ततँ॒ सन्त॒म् अथाह॑र् उत्सृ॒जन्ति॑ ।
प्रा॒जा॒प॒त्यम् प॒शुम् आल॑भन्ते । प्र॒जाप॑ति॒स् सर्वा॑ दे॒वताः॑ ।
दे॒वता॑भिरे॒व य॒ज्ञँ सन्त॑न्वन्ति ।

भट्टभास्कर-टीका

4वि वा एतदित्यादि ॥ एतद्धि यज्ञं विच्छिन्दन्ति यत् षडहसन्ततं षडहैरविच्छेदनेन सम्बद्धं सन्ततम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । अथानन्तरभावि अहः उत्सृजन्ति यज्ञमहरुत्सर्गेण विच्छिन्दन्ति । अथ यच्चाहरुत्सृजन्ति । प्राजापत्यमित्यादि । उत्सृष्टेऽह्नि संतन्वन्ति अविछिन्नं कुर्वन्ति ॥

मूलम् (संयुक्तम्)

यन्ति॒ वा ए॒ते सव॑ना॒द्येऽहः॑ [17]
उ॒त्सृ॒जन्ति॑ तु॒रीय॒ङ्खलु॒ वा ए॒तत्सव॑नय्ँ॒यत्सा॑न्ना॒य्यय्ँयत्सा॑न्ना॒य्यम्भव॑ति॒ तेनै॒व सव॑ना॒न्न य॑न्ति समुप॒हूय॑ भक्षयन्त्ये॒तत्सो॑मपीथा॒ ह्ये॑तर्हि॑ यथायत॒नव्ँवा ए॒तेषाँ॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ येऽह॑रुत्सृ॒जन्त्य्…

विश्वास-प्रस्तुतिः

यन्ति॒ वा ए॒ते सव॑ना॒द्येऽहरुत्सृ॒जन्ति॑ ।[17]
तु॒रीय॒ङ्खलु॒ वा ए॒तत् सव॑नय्ँ॒ यत् सा॑न्ना॒य्यम् ।
यत्सा॑न्ना॒य्यम् भव॑ति॒ , तेनै॒व सव॑ना॒न्न य॑न्ति ।
समुप॒हूय॑ भक्षयन्ति । ए॒तत् सो॑मपीथा॒ ह्ये॑तर्हि॑ ।
य॒था॒य॒त॒नव्ँ वा ए॒तेषाँ॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ , येऽह॑र् उत्सृ॒जन्ति ।

5यन्ति वा इत्यादि ॥ सान्नाय्यं भक्षयन्ति समुपहूयासावसावुपह्वयस्वेति । एतर्हि एतस्मिन्नह्नि एतदेव सोमपानमेषामिति । पिबतेरौणादिकस्स्थक्प्रत्ययः । ‘इदमोर्हिल्’ इति हिल्प्रत्ययः, ‘एते तौरथोः’ इति एतादेशः । यथायतनमित्यादि । इह कृत्याभावादेतत् स्थानं हित्वा स्वंस्वं स्थानं गच्छन्ति । गतमन्यत् ॥

मूलम् (संयुक्तम्)

अ॑नुसव॒नम्पु॑रो॒डाशा॒न्निर्व॑पन्ति यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते॒ऽष्टाक॑पालान्प्रातस्सव॒न एका॑दशकपाला॒न्माध्य॑न्दिने॒ सव॑ने॒ द्वाद॑शकपालाँस्तृतीयसव॒ने छन्दाँ॑स्ये॒वाप्त्वाव॑ रुन्धते

विश्वास-प्रस्तुतिः

अ॒नु॒स॒व॒नम् पु॑रो॒डाशा॒न् निर्व॑पन्ति । य॒था॒ऽय॒त॒नाद् ए॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते ।

अष्टाक॑पालान् प्रातस्सव॒न , एका॑दशकपाला॒न् माध्य॑न्दिने॒ सव॑ने॒ , द्वाद॑शकपालाँस्तृतीयसव॒ने ।
छन्दाँ॑स्ये॒व आप्त्वाऽव॑ रुन्धते ।

6अनुसवनमित्यादि ॥ सवनेसवने सर्वस्मिन् सवने कालक्रमेण पुरोडाशान् तत्तत्सवनोक्तान् निर्वपन्ति । वीप्सायां ‘यथार्थे यदव्ययम्’ इत्यनोरव्ययीभावः । यथायतनादेवेति । स्वात्स्वादायतनाद्देवता अवरुन्धते । ‘यथाऽसादृश्ये’ इत्यव्ययीभावः । अष्टाकपालानित्यादि । प्रातस्सवने प्रातस्सवनकाले । एवं सर्वत्र । छन्दांस्येवेत्यादि । अष्टत्वादिकया गायत्र्यादीनां संख्यया गायत्र्यादीनि छन्दांस्याप्त्वा सवनं यज्ञमवरुन्धते ॥

मूलम् (संयुक्तम्)

वैश्वदे॒वञ्च॒रुन्तृ॑तीयसव॒ने निर्व॑पन्ति वैश्वदे॒वव्ँ वै तृ॑तीयसव॒नन्तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति ॥ [18]

विश्वास-प्रस्तुतिः

वै॒श्व॒दे॒वञ् च॒रुन् तृ॑तीयसव॒ने निर्व॑पन्ति । वै॒श्व॒दे॒वव्ँ वै तृ॑तीयसव॒नम् ।
तेनै॒व तृ॑तीयसव॒नान् न य॑न्ति ॥ [18]

मूलम्

वै॒श्व॒दे॒वञ् च॒रुन् तृ॑तीयसव॒ने निर्व॑पन्ति । वै॒श्व॒दे॒वव्ँ वै तृ॑तीयसव॒नम् ।
तेनै॒व तृ॑तीयसव॒नान् न य॑न्ति ॥ [18]

भट्टभास्कर-टीका

7वैश्वदेवमित्यादि ॥ तृतीयसवनकाले निर्वपणात् तृतीयसवनानपगमः ॥

इति सप्तमे पञ्चमे षष्ठोनुवाकः ॥