मूलम् (संयुक्तम्)
यदि॒ सोमौ॒ सँसु॑तौ॒ स्याता॑म्मह॒ति रात्रि॑यै प्रातरनुवा॒कमु॒पाकु॑र्या॒त्पूर्वो॒ वाच॒म्पूर्वो॑ दे॒वता॒ᳶ पूर्व॒श्छन्दाँ॑सि वृङ्क्ते॒
विश्वास-प्रस्तुतिः
यदि॒ सोमौ॒ सँसु॑तौ॒ स्याता॑म् मह॒ति रात्रि॑यै प्रातर् अनुवा॒कम् उ॒पाकु॑र्या॒त् ।
पूर्वो॒ वाच॒म् पूर्वो॑ दे॒वता॒ᳶ पूर्व॒श्छन्दाँ॑सि वृङ्क्ते ।
मूलम्
यदि॒ सोमौ॒ सँसु॑तौ॒ स्याता॑म् मह॒ति रात्रि॑यै प्रातर् अनुवा॒कम् उ॒पाकु॑र्या॒त् ।
पूर्वो॒ वाच॒म् पूर्वो॑ दे॒वता॒ᳶ पूर्व॒श्छन्दाँ॑सि वृङ्क्ते ।
भट्टभास्कर-टीका
1अथ सत्रमेवाधिकृत्य किंचिदुच्यते - यदि सोमावित्यादि ॥ यदि सोमौ सोमयागौ गोसत्रात्मकौ सन्तौ संसुतौ समारब्धौ स्यातां महति रात्रियै । उभयत्र व्यत्ययः लिङ्गस्य च वचनस्य । महत्यां रात्रौ इति ‘बृहन्महतोरुपसङ्ख्यानम् ’ इति महतो विभक्तिरुदात्ता । महारात्रिं उपोत्थाय प्रातरनुवाकमुपाकुर्यात् । यो हि पूर्वमुपाकरोति स इतरस्य वागादीन् वृङ्क्ते आदत्ते ॥
मूलम् (संयुक्तम्)
वृष॑ण्वतीम्प्रति॒पद॑ङ्कुर्यात्प्रातस्सव॒नादे॒वैषा॒मिन्द्रव्ँ॑वृ॒ङ्क्तेऽथो॒ खल्वा॑हुस्सवनमु॒खेस॑वनमुखे का॒र्येति॑ सवनमु॒खात्स॑वनमुखादे॒वैषा॒मिन्द्रव्ँ॑वृङ्क्ते
विश्वास-प्रस्तुतिः
वृष॑ण्वतीम् प्रति॒पद॑ङ् कुर्यात् ।
प्रातस्सव॒नादे॒व + एषा॒म् इन्द्रव्ँ॑ वृ॒ङ्क्ते ।
मूलम्
वृष॑ण्वतीम् प्रति॒पद॑ङ् कुर्यात् ।
प्रातस्सव॒नादे॒व + एषा॒म् इन्द्रव्ँ॑ वृ॒ङ्क्ते ।
भट्टभास्कर-टीका
2वृषण्वतीमिति ॥ वृषशब्दवतीमृचं बहिष्पवमानस्य प्रतिपदं प्रारम्भं कुर्यात् प्रातस्सवनादेव एषां प्रत्यर्थिनां यजमानानामिन्द्रियं वृङ्क्ते आत्मसात् करोति । एषामिति । लिङ्गात् सत्रविषयमेतदिति जानीमः । वृषशब्दान्मतुप् अनो नुट् ।
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुस् सवनमु॒खेस॑वनमुखे का॒र्येति॑ ।
स॒व॒न॒मुखात् स॑वनमुखादे॒व + एषा॒मिन्द्रव्ँ॑ वृङ्क्ते ।
मूलम्
अथो॒ खल्वा॑हुस् सवनमु॒खेस॑वनमुखे का॒र्येति॑ ।
स॒व॒न॒मुखात् स॑वनमुखादे॒व + एषा॒मिन्द्रव्ँ॑ वृङ्क्ते ।
भट्टभास्कर-टीका
अथो खल्वाहुः सवनमुखेसवनमुखे त्रयाणमपि सवनानामारम्भे प्रतिपदियं कार्येति सर्वस्मात्सवनमुखादेषां सम्बन्धिनमिन्द्रं इन्द्रियं वृङ्क्ते ॥
मूलम् (संयुक्तम्)
सव्ँवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभᳶ॑ प॒ङ्क्त्या अ॒भिभू॑त्यै॒ स्वाहा॒ छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वैषा॑म् [13]
छन्दाँ॑सि वृङ्क्ते
विश्वास-प्रस्तुतिः
सव्ँवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभᳶ॑ प॒ङ्क्त्या अ॒भिभू॑त्यै॒ स्वाहा॑ ।
छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शः ।
छन्दो॑भिर् ए॒वैषा॑म् छन्दाँ॑सि वृङ्क्ते [13]।
मूलम्
सव्ँवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभᳶ॑ प॒ङ्क्त्या अ॒भिभू॑त्यै॒ स्वाहा॑ ।
छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शः ।
छन्दो॑भिर् ए॒वैषा॑म् छन्दाँ॑सि वृङ्क्ते [13]।
भट्टभास्कर-टीका
3संवेशायेत्यादिरभिभूतिहोममन्त्रोव्याख्यातप्रायः ‘इष्टर्गः’ इत्यत्र ॥ छन्दांसि वा इत्यादि ब्राह्मणं च तत्रैव व्याख्यातप्रायम्6 । तत्त्वेकाहादिविषयम् । इदंतु सत्त्रविषयम् । तत्र तिस्रोऽभिभूतयः, अत्र तु पञ्चेति विवेकः ॥
मूलम् (संयुक्तम्)
सज॒नीयँ॒ शस्यव्ँ॑विह॒व्यँ॑ शस्य॑म॒गस्त्य॑स्य कयाशु॒भीयँ॒ शस्य॑मे॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षाव्ँवृङ्क्ते॒
विश्वास-प्रस्तुतिः
स॒ज॒नीयँ॒ शस्य॑म् । वि॒ह॒व्यँ॑ शस्य॑म् । अ॒गस्त्य॑स्य कयाशु॒भीयँ॒ शस्य॑म् ।
मूलम्
स॒ज॒नीयँ॒ शस्य॑म् । वि॒ह॒व्यँ॑ शस्य॑म् । अ॒गस्त्य॑स्य कयाशु॒भीयँ॒ शस्य॑म् ।
भट्टभास्कर-टीका
4सजनीयमित्यादि ॥ निष्केवल्ये ‘इन्द्रस्य नु वीर्याणि प्रवोचं’ इत्यस्य स्थाने सजनीयं ‘यो जात एव’ इति शस्यम् । सजनासः इति शब्दोस्मिन्नस्तीति ‘मतौच्छः’ इतिछः । महावैश्वदेवे ‘आ नो भद्राः’ इत्यस्य स्थाने विहव्यं ‘ममाग्ने’ इति शस्यम् । विहवशब्दोस्मिन्वर्तत इति मत्वर्थे यत् । मरुत्वतीये ‘जनिष्ठा उग्रः’ इत्यस्य स्थाने अगस्त्यस्य कयाशुभीयं’ कया शुभासवयसः’ इति शस्यम् । पूर्ववच्छः ।
विश्वास-प्रस्तुतिः
ए॒ताव॒द्वा अ॑स्ति॒ याव॑द् ए॒तद् । याव॑द् ए॒वास्ति॒ तदे॑षाव्ँ वृङ्क्ते ।
मूलम्
ए॒ताव॒द्वा अ॑स्ति॒ याव॑द् ए॒तद् । याव॑द् ए॒वास्ति॒ तदे॑षाव्ँ वृङ्क्ते ।
भट्टभास्कर-टीका
एतावद्वा इत्यादि । एतावदेव सजनीयं प्रतियष्टृणामस्ति यावदेतदनुक्रान्तम् । वागादीनि इन्द्रछन्दांसि शस्त्रविशेषाश्च यावदेवास्ति तत्सर्वमेषां वृङ्क्ते आदत्ते । एतेन ज्ञायते विद्विषाणयोः संसवो न पितापुत्रादीनामिति ॥
मूलम् (संयुक्तम्)
यदि॑ प्रातस्सव॒ने क॒लशो॒ दीर्ये॑त वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु स्तुवीर॒न्यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ विष्णु॒न्तच्छि॑पिवि॒ष्टम॒भ्यति॑ रिच्यते॒ तद्विष्णु॑श्शिविपि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तन्दधा॒त्यथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाव॑ रुन्धते॒
विश्वास-प्रस्तुतिः
यदि॑ प्रातस्सव॒ने क॒लशो॒ दीर्ये॑त वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु स्तुवीर॒न् ।
यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते विष्णु॒न् तच् छि॑पिवि॒ष्टम् अ॒भ्यति॑ रिच्यते ।
तद्विष्णु॑श् शिविपि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तन् दधा॒ति ।

5यदि प्रातस्सवन इत्यादि ॥ कलशो द्रोणकलशः यदि दीर्येत भिद्येत वैष्णवीषु शिपिविष्टशव्दवतीषु ऋक्षु स्तुवीरन् यत् यज्ञस्यातिरिच्यते प्राकृतादिदमेव साम एतद्विष्णुं शिपिविष्टमभिलक्ष्यातिरिच्यते । तस्मात्तदतिरिक्तं विष्णुः शिपिविष्टः तत्प्राधान्यात् । तस्मात् तदतिरिक्ते शिपिविष्टे विष्णावेवातिरिक्तं पुनर्गृह्यमाणं सोमं दधाति ।
विश्वास-प्रस्तुतिः
अथो॒ अति॑रिक्तेन + ए॒वाति॑रिक्तम् आ॒प्त्वाव॑ रुन्धते ।
मूलम्
अथो॒ अति॑रिक्तेन + ए॒वाति॑रिक्तम् आ॒प्त्वाव॑ रुन्धते ।
भट्टभास्कर-टीका
अथो अपिच अतिरिक्तेनैव अतिरिक्तं पुनर्गृहीतं आप्त्वा अदोषरूपमेव शास्त्रीयमेव लब्ध्वा अवरुन्धते सत्रफलम् ॥
मूलम् (संयुक्तम्)
यदि॑ म॒ध्यन्दि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धनँ॒ साम॑ कुर्युर्वषट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा प्र॑ति॒ष्ठामे॒वैन॑द्गमयन्ति॒ यदि॑ तृतीयसव॒न ए॒तदे॒व ॥ [14]
विश्वास-प्रस्तुतिः
यदि॑ म॒ध्यन्दि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धनँ॒ साम॑ कुर्युः ।
वषट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा ।
प्र॒ति॒ष्ठामे॒व + एन॑द् गमयन्ति ।
मूलम्
यदि॑ म॒ध्यन्दि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धनँ॒ साम॑ कुर्युः ।
वषट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा ।
प्र॒ति॒ष्ठामे॒व + एन॑द् गमयन्ति ।
भट्टभास्कर-टीका
6यदि माध्यन्दिनसवने दीर्येत । कलश इत्येव । गतमन्यत् । प्रतिष्ठामेवैनं क्रतुं गमयति अवैकल्येन समापयति ।
विश्वास-प्रस्तुतिः
यदि॑ तृतीयसव॒न ए॒तदे॒व ॥ [14]
मूलम्
यदि॑ तृतीयसव॒न ए॒तदे॒व ॥ [14]
भट्टभास्कर-टीका
यदि तृतीयसवन इत्यादि । अत्र यस्सोमः तस्य दीरणे एतदेव कुर्युः वषट्कारनिधनमिति ब्राह्मणाच्छंसिनस्स्तोत्रं कुर्युरिति ॥
इति सप्तमे पञ्चमे पञ्चमोनुवाकः ॥