मूलम् (संयुक्तम्)
स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒त्साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यम्मनुष्यलो॒कम्प्र॑त्यव॒रोह॑न्तो यन्ति॒
विश्वास-प्रस्तुतिः
स॒मा॒न्य॑ ऋचो॑ भवन्ति । मनुष्यलो॒को वा ऋचः॑ । म॒नु॒ष्य॒लो॒कादे॒व न य॑न्ति ।
मूलम्
स॒मा॒न्य॑ ऋचो॑ भवन्ति । मनुष्यलो॒को वा ऋचः॑ । म॒नु॒ष्य॒लो॒कादे॒व न य॑न्ति ।
भट्टभास्कर-टीका
1अथोत्तरस्मिन् पक्षसि विशेष उच्यते - समान्य इत्यादि ॥ समान्यः एकाः । ‘केवलमामक’ इति ङीप्, ‘उदात्तस्वरितयोः’ इति विभक्तिस्स्वर्यते । ता एव ऋचो न पृथक् ग्राह्याः । उत्तरस्मिन् पक्षसि मनुष्यलोकादेव न यन्ति अपत्यादिसन्तानविच्छेदेन ।
विश्वास-प्रस्तुतिः
अ॒न्य॒द् अ॑न्य॒त्साम॑ भवति ।
दे॒व॒लो॒को वै साम॑ ।
दे॒व॒लो॒कादे॒व अन्यम॑न्यम् मनुष्यलो॒कम् प्र॑त्यव॒रोह॑न्तो यन्ति ।
मूलम्
अ॒न्य॒द् अ॑न्य॒त्साम॑ भवति ।
दे॒व॒लो॒को वै साम॑ ।
दे॒व॒लो॒कादे॒व अन्यम॑न्यम् मनुष्यलो॒कम् प्र॑त्यव॒रोह॑न्तो यन्ति ।
भट्टभास्कर-टीका
अन्यदन्यदित्यादि । बहवो देवलोकाः, तत्र सामतः तस्मात् देवलोकात् इष्टं मनुष्यलोकं प्रत्यवरोहन्त एव यन्ति उप यन्ति सत्रम् ॥
मूलम् (संयुक्तम्)
जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीव्ँ॒ वै छन्दाँ॑सि प्र॒त्यव॑रोहन्त्याग्रय॒णङ्ग्रहा॑ बृ॒हत्पृ॒ष्ठानि॑ त्रयस्त्रिँ॒शँ स्तोमा॒स्तस्मा॒ज्ज्यायाँ॑स॒ङ्कनी॑यान्प्र॒त्यव॑रोहति
विश्वास-प्रस्तुतिः
जग॑ती॒मग्र॒ उप॑ यन्ति ।
जग॑तीव्ँ॒ वै छन्दाँ॑सि प्र॒त्यव॑रोहन्ति ।
आ॒ग्र॒य॒णङ् ग्रहा॑ बृ॒हत् पृ॒ष्ठानि॑ त्रयस्त्रिँ॒शँ स्तोमाः॑ ।
मूलम्
जग॑ती॒मग्र॒ उप॑ यन्ति ।
जग॑तीव्ँ॒ वै छन्दाँ॑सि प्र॒त्यव॑रोहन्ति ।
आ॒ग्र॒य॒णङ् ग्रहा॑ बृ॒हत् पृ॒ष्ठानि॑ त्रयस्त्रिँ॒शँ स्तोमाः॑ ।
भट्टभास्कर-टीका
2जगतीमग्र इति ॥ विस्पष्टम् । अत ऊर्ध्वमुत्तरस्मिन् पक्षस्यह्नां परावृत्तत्वात् जगतीं वै छन्दांसि प्रत्यवरोहन्ति तदभिमुखं न्यग्भावेन गच्छन्ति । आग्रयणं ग्रहाः प्रत्यवरोहन्तीत्येव । आग्रयणाग्रत्वात् ग्रहाणाम् । बृहत् प्रत्यवरोहन्ति पृष्ठानि सामानि तत्प्रधानत्वात् । त्रयस्त्रिंशं प्रत्यवरोहन्ति स्तोमाः ततो न्यूनत्वात् ।
विश्वास-प्रस्तुतिः
तस्मा॒ज् ज्यायाँ॑स॒ङ् कनी॑यान् प्र॒त्यव॑रोहति ।
मूलम्
तस्मा॒ज् ज्यायाँ॑स॒ङ् कनी॑यान् प्र॒त्यव॑रोहति ।
भट्टभास्कर-टीका
तस्मादित्यादि । गतम् । ज्यायांसं कनीयान् प्रत्यवरोहति ॥ +++(विस्तृतं व्याख्यानमन्यत्र मृग्यम् ।)+++
मूलम् (संयुक्तम्)
वैश्वकर्म॒णो गृ॑ह्यते॒ विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धत आदि॒त्यः [11]
गृ॒ह्य॒त॒ इ॒यव्ँ वा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्यो॑न्यो गृह्येते मिथुन॒त्वाय॒ प्रजा॑त्या
विश्वास-प्रस्तुतिः
वै॒श्व॒क॒र्म॒णो गृ॑ह्यते ।
विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धते ।
आ॒दि॒त्यो गृ॑ह्यते ।[11]
इ॒यव्ँ वा अदि॑तिर् अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ।
अ॒न्यो॑न्यो गृह्येते , मिथुन॒त्वाय॒ प्रजा॑त्यै ।

3वैश्वकर्मणोतिग्राह्यो गृह्यते आदित्यश्च । अन्योन्य इति । एकैकस्य गृह्यते आमहाव्रतात् महाव्रते सहगृह्येते ॥
मूलम् (संयुक्तम्)
अवान्त॒रव्ँ वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानास्सृजन्त ए॒ताँ ह॒ वा उ॑द॒ङ्कश्शौ॑ल्बाय॒नस्स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रो यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्तिः॑ ॥ [12]
विश्वास-प्रस्तुतिः
अ॒वा॒न्त॒रव्ँ वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
यद् द॑शरा॒त्रो भव॑ति , प्र॒जा ए॒व तद् यज॑मानास् सृजन्ते ।
ए॒ताँ ह॒ वा उ॑द॒ङ्कश् शौ॑ल्बाय॒नस् स॒त्त्रस्य + ऋद्धि॑मुवाच॒ यद् द॑शरा॒त्रः ।
यद् द॑शरा॒त्रो भव॑ति , स॒त्त्रस्य + ऋर्द्ध्यै॑ ।
अथो॒ यदे॒व पूर्वे॒ष्व् अह॑स्सु॒ विलो॑म क्रि॒यते॒ ,
तस्यै॒वैषा शान्तिः॑ ॥ [12]

4अवान्तरं वा इत्यादि ॥ व्याख्यातं ‘द्वे वाव’ इत्यत्र द्वादशाहियो दशरात्रोपि विधीयते । समाप्तं गवामयनम् ॥
-
द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिँशद॒हश्च॑ ।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते , सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति ।1अथ त्रयस्त्रिंशद्रात्राः । तत्र प्रथमः प्रस्तूयते - द्वे ववेत्यादि ॥ देवसत्रे देवानां प्रधानभूते अभिमते सत्रे अत एव देवप्राप्तौ मुख्यसाधनभूते तस्मादेतेन त्रयस्त्रिंशदहेन साक्षादव्यवधानेन देवता अभ्यारोहन्ति सर्वपापनिवृत्तिहेतुत्वात् अस्य । ‘गतिर्गतौ’ इति पूर्वस्य निपातः, समासश्च ।
इति सप्तमे पञ्चमे चतुर्थोनुवाकः ॥