०३

मूलम् (संयुक्तम्)

प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्याव्ँ वै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रव्ँ वै साऽप॑राभ्या॒न्दोहा॑भ्यान्दु॒हेऽथ॒ कुत॒स्सा धो॑क्ष्यते॒ यान्द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ सव्ँवत्स॒रँ स॒म्पाद्यो॑त्त॒मे मा॒सि स॒कृत्पृ॒ष्ठान्युपे॑यु॒स्तद्यज॑माना य॒ज्ञम्प॒शूनव॑ रुन्धते

विश्वास-प्रस्तुतिः

प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति , मध्य॒म उप॑ यन्त्य् उत्त॒म उप॑ यन्ति ।

मूलम्

प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति , मध्य॒म उप॑ यन्त्य् उत्त॒म उप॑ यन्ति ।

भट्टभास्कर-टीका

1उक्तं मासिमासि पृष्ठोपेतं दशमास्यं द्वादशमास्यं च द्विप्रकारं गवामयनम् । इदानीं तृतीयं प्रस्तूयते - प्रथम इत्यादि ॥ प्रथममध्यमोत्तमेष्वेव मासेषु पृष्ठान्युपेयुरिति । अथैतत्तृतीयदूषणेन चतुर्थं दर्शयति -

विश्वास-प्रस्तुतिः

तदा॑हु॒र् ,
याव्ँ वै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति , द॒ह्रव्ँ वै साऽप॑राभ्या॒न् दोहा॑भ्यान् दु॒हे , ऽथ॒ कुत॒स् सा धो॑क्ष्यते॒ यान् द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ ।
सव्ँवत्स॒रँ स॒म्पाद्यो॑त्त॒मे मा॒सि स॒कृत् पृ॒ष्ठान्युपे॑युः।
तद् यज॑माना य॒ज्ञम् प॒शूनव॑ रुन्धते ।

तदाहुरिति । तत् तदर्थं या गामेकस्याह्नस्त्रिरुपसीदन्ति दुहन्ति सा अपराभ्यां द्वितीयतृतीयाभ्यां दह्रमल्पमेव क्षीरं दुहे दुग्धे हरति यदेवं सा कुतो धोक्ष्यते यां सत्रधेनुं द्वादकृत्व उपसीदन्ति न किंचिदपि सा दुग्धे । तस्मादभिप्लवैरेव संवत्सरं संपाद्य उत्तमे मासि सकृत्पृष्ठान्युपेयुः । ततो यजमानाः यज्ञं धेनुस्थानीयं पशूंश्च तत्क्षीरस्थानीयानवरुन्धते । दुह इति कर्मकर्तरि ‘न दुहस्नुनमाम्’ इति यगभावः । ‘लोपस्त’ इत्यादिना तलोपः ॥

मूलम् (संयुक्तम्)

समु॒द्रव्ँ वै [9]
ए॒ते॑ऽनवा॒रम॑पा॒रम्प्र प्ल॑वन्ते॒ ये सव्ँ॑वत्स॒रमु॑प॒यन्ति॒ यद्बृ॑हद्रथन्त॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक्तदनु॑त्सर्गम्बृहद्रथन्त॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठाङ्ग॑च्छन्ति॒

विश्वास-प्रस्तुतिः

समु॒द्रव्ँ वा ए॒ते॑ऽनवा॒रम॑पा॒रम् प्र प्ल॑वन्ते॒ , ये सव्ँ॑वत्स॒रम् उ॑प॒यन्ति॑ ।[9]
यद् बृ॑हद्रथन्त॒रे अ॒न्वर्जे॑यु॒र् यथा॒ मध्ये॑ समु॒द्रस्य॑ प्ल॒वम् अ॒न्वर्जे॑युस् ता॒दृक् तत् ।
अनु॑त्सर्गम् बृहद्रथन्त॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठाङ् ग॑च्छन्ति ।

2समुद्रं वा इत्यादि - परागर्वाक्तीरे पारावारौ, ताभ्यां रहितं समुद्रमेते प्तप्लवन्ते ये संवत्सरमुपयन्ति । अगाधं अपारमित्येके । तत्र यद्बृहद्रथन्तरे अन्वर्जेयुः अविच्छेदेन स्वीकुर्युः तत्समुद्रस्य मध्ये प्लवस्वीकरणसदृशं वेदितव्यम् । अर्ज आर्जने, तस्मात् अमुत्सर्गमनुत्सृज्य छान्दसो णमुल् । अनुत्सृष्टबृहद्रथन्तरप्लवा एव ताभ्यां इत्या संवत्सरं समुद्रं समतीत्य प्रतिष्ठां गच्छन्ति ॥

मूलम् (संयुक्तम्)

सर्वे॑भ्यो॒ वै कामे॑भ्यस्स॒न्धिर्दु॑हे॒ तद्यज॑माना॒स्सर्वा॒न्कामा॒नव॑ रुन्धते ॥ [10]

विश्वास-प्रस्तुतिः

सर्वे॑भ्यो॒ वै कामे॑भ्यस् स॒न्धिर् दु॑हे ।
तद् यज॑माना॒स् सर्वा॒न् कामा॒न् अव॑ रुन्धते ॥ [10]

मूलम्

सर्वे॑भ्यो॒ वै कामे॑भ्यस् स॒न्धिर् दु॑हे ।
तद् यज॑माना॒स् सर्वा॒न् कामा॒न् अव॑ रुन्धते ॥ [10]

भट्टभास्कर-टीका

3सर्वेभ्य इत्यादि ॥ सन्धिः सकृद्दोह्या गौः न पुनःपुनर्दोह्या । सन्धिर्हि सर्वेभ्यः कामेभ्यः पर्याप्तं क्षीरं दुहे दुग्धे; तद्वत्सत्रधेनुरपि सकृत्पृष्ठोपयानेन सन्धिसदृशी सकृदेव सर्वान्कामान् दुग्धे । तस्माद्दोहनस्थानीयं पृष्ठोपयानं सकृत्कुर्वन्तो यजमानाः सर्वान्कामानवरुन्धत इति । अन्य आहुः - अन्यवत्सदोह्या गौः सन्धिरिति । सा हि सर्वकामपर्याप्तं क्षीरं पुनर्दोहेन क्षरति तद्वत्सत्रसन्धिरपि अन्यवत्सस्थानीयाभ्यां बृहद्रथन्तराभ्यामनुत्सर्गेण दुह्यमाना सर्वान् कामान् प्रयच्छतीति ॥ इति सप्तमे पञ्चमे तृतीयोनुवाकः ॥