०२

मूलम् (संयुक्तम्)

गावो॒ वा ए॒तत्स॒त्त्रमा॑सताशृ॒ङ्गास्स॒तीश्शृङ्गा॑णि॒ सिषा॑सन्ती॒स्तासा॒न्दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा॑ण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒त्स्मोत्ति॑ष्ठा॒माव॒ तङ्काम॑मरुत्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒

विश्वास-प्रस्तुतिः

गावो॒ वा ए॒तत्स॒त्त्रमा॑सत अशृ॒ङ्गास् स॒तीश् शृङ्गा॑णि॒ सिषा॑सन्तीः ।
तासा॒न् दश॒ मासा॒ निष॑ण्णा॒ आस॑न् । अथ॒ शृङ्गा॑ण्य् अजायन्त ।
ता अ॑ब्रुव॒न्न् , अरा॒त्स्म + उत्ति॑ष्ठा॒माव॒ तङ् काम॑म् अरुत्स्महि॒ , येन॒ कामे॑न॒ न्यष॑दा॒मेति ।

मूलम्

गावो॒ वा ए॒तत्स॒त्त्रमा॑सत अशृ॒ङ्गास् स॒तीश् शृङ्गा॑णि॒ सिषा॑सन्तीः ।
तासा॒न् दश॒ मासा॒ निष॑ण्णा॒ आस॑न् । अथ॒ शृङ्गा॑ण्य् अजायन्त ।
ता अ॑ब्रुव॒न्न् , अरा॒त्स्म + उत्ति॑ष्ठा॒माव॒ तङ् काम॑म् अरुत्स्महि॒ , येन॒ कामे॑न॒ न्यष॑दा॒मेति ।

भट्टभास्कर-टीका

1पुनरपि गवामयनस्यैव विशेषं दर्शयति - गाव इत्यादि ॥ गतम् । सिषासन्तीः सिषासन्त्यः लब्धुमिच्छन्त्यः । सनोतेः ‘जनसनखनाम्’ इत्यात्वम्, ‘सुपां सुलुक्’ इति पूर्ववत् सवर्णदीर्घत्वम् । ता अब्रुवन्निति । दशमासव्यपगमे जातशृङ्गाः सर्वा गावोऽब्रुवन्; कथं? - आरात्स्म ऋद्धिं गता वयं, उत्तिष्ठामेदानीमभिमतं काममवारुत्स्महि लब्धवत्यो वयं शृङ्गजन्मात्मकं येन कामेन न्यषदाम आसिष्महे, नास्त्येवान्योस्माकं कामः, तत’ उत्तिष्ठाम इति ॥

मूलम् (संयुक्तम्)

तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्धा वा॒ याव॑ती॒र्वासा॑महा ए॒वेमौ द्वा॑द॒शौ मासौ॑ सव्ँवत्स॒रँ स॒म्पाद्योत्ति॑ष्ठा॒मेति॒ तासा॑म् [7]
द्वा॒द॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आ॑र्ध्नुव॒न्याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्याश्चोर्ज॑म॒वारु॑न्धत॒र्ध्नोति॑ द॒शसु॑ मा॒सू॑त्तिष्ठ॑न्नृ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वव्ँ वेद॑

विश्वास-प्रस्तुतिः

तासा॑म् उ॒ त्वा अ॑ब्रुवन्न् अ॒र्धा वा॒ याव॑ती॒र् वा ।
आसा॑महा ए॒वेमौ द्वा॑द॒शौ मासौ॑ सव्ँवत्स॒रँ स॒म्पाद्योत्ति॑ष्ठा॒मेति॑ ।

मूलम्

तासा॑म् उ॒ त्वा अ॑ब्रुवन्न् अ॒र्धा वा॒ याव॑ती॒र् वा ।
आसा॑महा ए॒वेमौ द्वा॑द॒शौ मासौ॑ सव्ँवत्स॒रँ स॒म्पाद्योत्ति॑ष्ठा॒मेति॑ ।

भट्टभास्कर-टीका

2तासामु त्वा इत्यादि ॥ उ तु वै इति त्रयो निपाताः अवधारणविशेषप्रसिद्धिषु । तासामेव तु मध्ये अर्धा ऋद्धाः शृङ्गकामाः जातशृङ्गाः ताश्चाब्रुवन् । चार्थे वाशब्दः । ऋधेर्निष्ठायां छान्दसो गुणः । यावतीर्वा स्वयं भावानतिरेकिण्यः यावत्यश्च अन्याः शृङ्गकामाः किमेभिरुत्थितैरिति । अत एव जातगृङ्गाः ताश्चाब्रुवम् । कथमब्रुवन् । यद्वा - अर्धा एकादशा यावतीर्वा सर्वा आसामहा इत्यर्थः । आसामहा एव इमौ द्वादशौ मासौ नोत्तिष्ठाम इति इमावप्यासित्वा संपाद्योत्तिष्ठामेति । द्वादशानां पूरणौ द्वादशौ सत्सु हि द्वादशसु द्वादशापि द्वादशाः । अत्रेदं चिन्त्यम् - दशसु मासेषु या जातशृङ्गाः ता द्वादशौ मासो पुनः किमर्थमासतेति । अथ यास्त्वशृङ्गकामाः ता अस्मादेव दशमासानासीनाः पुनरपि द्वादशौ मासौ कस्मादेवासत इति । अयं भावः - जातशृङ्गा अपि शृङ्गश्रद्धया शृङ्गगुणान् कामयन्तेस्म प्रथमाः । उत्तरास्तु अन्यदेव किंचित् श्रेयः कामयन्तेस्म न शृङ्गेषु तासां श्रद्धेति । तदिदमुभयमपि स्वयमेव स्पष्टीकरोति -

विश्वास-प्रस्तुतिः

तासा॑न् द्वा॒द॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त ।
श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा । उ॒भय्यो॒ वाव ता आ॑र्ध्नुवन् ।
याश्च॒ शृङ्गा॒ण्यस॑न्व॒न् याश्चोर्ज॑म॒वारु॑न्धत ।
ऋ॒र्ध्नोति॑ द॒शसु॑ मा॒सू॑त्तिष्ठ॑न्न् ऋ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वव्ँ वेद॑ ।

मूलम्

तासा॑न् द्वा॒द॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त ।
श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा । उ॒भय्यो॒ वाव ता आ॑र्ध्नुवन् ।
याश्च॒ शृङ्गा॒ण्यस॑न्व॒न् याश्चोर्ज॑म॒वारु॑न्धत ।
ऋ॒र्ध्नोति॑ द॒शसु॑ मा॒सू॑त्तिष्ठ॑न्न् ऋ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

तासां द्वादश इत्यादि । अत्र या दशमासानासित्वा जातशृङ्गा उत्थिताः ता विरूपशृङ्गा आसन् । अथ या द्वादशावपि मासावासत तासां द्वादशे मासि समाप्ते संवत्सरे शृङ्गाणि प्रावर्तन्त प्रकृष्टरूपाण्यभवन् । अथ यासां श्रद्धा आसामहा एवेमौ द्वादशाविति तासां या श्रद्धा हेतुभूता शृङ्गविषया तया हेतुभूतयेत्यर्थः । अथ या अशृङ्गकामा द्वादशौ मासावासते ता इमा अभवन् यास्तूपरा उच्यन्ते । अत्र हेतुरश्रद्धयेति । शृङ्गश्रद्धया अभावात् तूपरा अभवन्निति । अत्रापि वाशब्दः समुच्चये श्रद्धया च अश्रद्धया चेत्यर्थः । तासामभवदिति । उपसंहरति - उभय्य इति । द्विप्रकारा अपि ता आर्ध्नुवन् ऋद्धिं गताः याश्च शृङ्गाण्यसन्वन् समभजन्त याश्चोर्जमलभन्तेति । ऋध्नोतीत्यादि । विदुषः फलम् । उभयनिमित्ताऽपि तस्य सिद्धिर्भवतीति । ‘पद्दन्’ इत्यादिना मासादेशे अन्त्यलोपश्छान्दसः ॥

मूलम् (संयुक्तम्)

प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन्तद्वा ए॒तदृ॒द्धमय॑न॒न्तस्मा॑दे॒तद्गो॒सनि॑ ॥ [8]

विश्वास-प्रस्तुतिः

प॒देन॒ खलु॒ वा ए॒ते य॑न्ति । वि॒न्दति॒ खलु॒ वै प॒देन॒ यम् ।
तद्वा ए॒तद् ऋ॒द्धमय॑नम् । तस्मा॑द् ए॒तद्गो॒सनि॑ ॥ [8]

मूलम्

प॒देन॒ खलु॒ वा ए॒ते य॑न्ति । वि॒न्दति॒ खलु॒ वै प॒देन॒ यम् ।
तद्वा ए॒तद् ऋ॒द्धमय॑नम् । तस्मा॑द् ए॒तद्गो॒सनि॑ ॥ [8]

भट्टभास्कर-टीका

3ननु युक्तं द्वादशसु मासेषु ऋध्नुवन्तीति, संवत्सरस्याविकलमनुष्ठितत्वात् । कथं दशसु मासेषु ऋध्नुयुरित्याह - पदेनेत्यादि ॥ पदेन मार्गेण खल्वेते यन्ति वर्तन्ते । पदेन हि यन् गच्छन् सत्स्वपि स्खलितेषु विन्दति लभतेऽभिमतम् । किंच - तदेतत्खल्वयनं संवत्सरात्मकं ऋद्धं सर्वेणापि प्रकारेण ऋद्धिकृत् एवं दशमास्यप्येतद्विहितं भवति । तस्मादेतद्गोसनि गवामप्यविकल्पेनाभिमतस्य लम्भयितृ ‘छन्दसि वनसन’ इतीन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥

इति सप्तमे पञ्चमे द्वितीयोनुवाकः ॥