०१

मूलम् (संयुक्तम्)

गावो॒ वा ए॒तत्स॒त्त्रमा॑सताशृ॒ङ्गास्स॒तीश्शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न॒ तासा॒न्दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा॑ण्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒त्स्मेत्यथ॒ यासा॒न्नाजा॑यन्त॒ तास्सव्ँ॑वत्स॒रमा॒प्त्वोद॑तिष्ठ॒न्नरा॒त्स्मेति॒ यासा॒ञ्चाजा॑यन्त॒ यासा॑ञ्च॒ न ता उ॒भयी॒रुद॑तिष्ठ॒न्नरा॒त्स्मेति॑ गोस॒त्त्रव्ँ वै [1]
सव्ँ॒व॒त्स॒रो य ए॒वव्ँवि॒द्वाँस॑स्सव्ँवत्स॒रमु॑प॒यन्त्यृ॑ध्नु॒वन्त्ये॒व

विश्वास-प्रस्तुतिः

गावो॒ वा ए॒तत्स॒त्त्रम् आ॑सत अशृ॒ङ्गास्स॒तीः । शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न ।
तासा॒न् दश॒ मासा॒ निष॑ण्णा॒ आस॒न्न् अथ॒ शृङ्गा॑ण्य् अजायन्त । ता उद॑तिष्ठ॒न्न् अरा॒त्स्मेति॑ ।
अथ॒ यासा॒न्न अजा॑यन्त॒ तास् सव्ँ॑वत्स॒रमा॒प्त्वा + उद॑तिष्ठ॒न्न् अरा॒त्स्मेति॑ ।
यासा॒ञ् च अजा॑यन्त॒ यासा॑ञ्च॒ न , ता उ॒भयी॒रुद॑तिष्ठ॒न्न् अरा॒त्स्मेति॑ ।
गो॒स॒त्रव्ँ वै सव्ँ॒व॒त्स॒रः [1] । य ए॒वव्ँ वि॒द्वाँस॑स् सव्ँवत्स॒रम् उ॑प॒यन्त्य् ऋ॑ध्नु॒वन्त्ये॒व ।

मूलम्

भट्टभास्कर-टीका

1अथ प्रकृतं गवामयनमेवाधिकृत्याह - गाव इत्यादि ॥ अशृङ्गास्सत्यो गावः शृङ्गाणि अस्माकं जायन्तामिति अनेन कामेन एतत्सत्रमासत । जनेर्लेटि ‘वैतोन्यत्र’ इत्यैकारः । तासां सत्रमासीनानां दश मासा गिषण्णाः निर्गता आसन् । अथानन्तरं दशमासापगमे शृङ्गाण्यजायन्त प्रादुर्भूतानि । ता जातशृङ्गा उदतिष्ठन् सत्रादुत्थिताः अरात्स्म ऋद्धाः कृतकार्या वयमिति । अथ दशसु मासेष्वजातशृङ्गाः संवत्सरमाप्त्वा प्राप्य संवत्सरान्ते उदतिष्ठन् अरात्स्मेति अजातशृङ्गास्स्मोऽधुना वयमिति । तत्र संवत्सरान्ते यासां शृङ्गाण्यजारान्त यासां च नाजायन्तेत्येव ता उभयीः उभय्यः जातशृङ्गाश्च वत्सरान्तेऽप्यजातशृङ्गास्तूपराश्च द्विप्रकारा अपि गाव उदतिष्ठन् अरात्स्म वयं सत्रं च संस्थितमिति । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ननु तृपराणां का सत्रात् वृद्धिरित्यत आह - गोसत्रं वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

तस्मा॑त्तूप॒रा वार्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति स॒त्त्राभि॑जितँ॒ ह्य॑स्यै॒

विश्वास-प्रस्तुतिः

तस्मा॑त् तूप॒रा वार्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति । स॒त्त्राभि॑जितँ॒ ह्य॑स्यै॒ ।

मूलम्

तस्मा॑त् तूप॒रा वार्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति । स॒त्त्राभि॑जितँ॒ ह्य॑स्यै॒ ।

भट्टभास्कर-टीका

2का तर्हि सा तूपराणां वृद्धिरित्याह - तस्मात्तूपरेत्यादि ॥ सामान्यविवक्षया एकवचनम् । वार्षिकौ मासौ पर्त्वा प्रीत्वा प्रीता भूत्वा चरति तपूरा इयमेव तस्या वृद्धिः । पृ प्रीतौ । वर्षशब्दात् ‘छन्दसि ठञ्’ इति ठञ्, ‘अत्यन्तसंयोगे च’ इति द्वितीया । सत्रेणाभिजितं सत्राभिजितम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

तस्मा॑त्सव्ँवत्सर॒सदो॒ यत्किञ्च॑ गृ॒हे क्रि॒यते॒ तदा॒प्तमव॑रुद्धम॒भिजि॑तङ्क्रियते

विश्वास-प्रस्तुतिः

तस्मा॑त् सव्ँवत्सर॒सदो॒ यत्किञ्च॑ गृ॒हे क्रि॒यते॒ , तद् आ॒प्तम् अव॑रुद्धम् अ॒भिजि॑तङ् क्रियते ।

मूलम्

तस्मा॑त् सव्ँवत्सर॒सदो॒ यत्किञ्च॑ गृ॒हे क्रि॒यते॒ , तद् आ॒प्तम् अव॑रुद्धम् अ॒भिजि॑तङ् क्रियते ।

भट्टभास्कर-टीका

3तस्मादित्याहि ॥ संवत्सरसदः संवत्सरसत्रिणो गृहे क्रियते यत्किंचिदपि प्रशस्तं क्रियते तदाप्तं पर्याप्तमवरुद्धं काले लब्धं अभिजितं न्यायोपात्तमेव क्रियते । तदस्यैव फलं न निर्मूलमिति यावत् । उभयत्रापि ‘गतिरनन्तरः’ इति गतेः पकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

समु॒द्रव्ँवा ए॒ते प्र प्ल॑वन्ते॒ ये सव्ँ॑वत्स॒रमु॑प॒यन्ति॒ यो वै स॑मु॒द्रस्य॑ पा॒रन्न पश्य॑ति॒ न वै स तत॒ उदे॑ति सव्ँवत्स॒रः [2]
वै स॑मु॒द्रस्तस्यै॒तत्पा॒रय्ँयद॑तिरा॒त्रौ य ए॒वव्ँवि॒द्वाँस॑स्सव्ँवत्स॒रमु॑प॒यन्त्यना॑र्ता ए॒वोदृच॑ङ्गच्छन्ती…

विश्वास-प्रस्तुतिः

स॒मु॒द्रव्ँ वा ए॒ते प्र प्ल॑वन्ते॒ , ये सव्ँ॑वत्स॒रम् उ॑प॒यन्ति॑ । यो वै स॑मु॒द्रस्य॑ पा॒रन्न पश्य॑ति॒ , न वै स तत॒ उदे॑ति ।
सव्ँ॒व॒त्स॒रो वै [2] स॑मु॒द्रः । तस्य + ए॒तत् पा॒रय्ँ यद॑तिरा॒त्रौ ।
य ए॒वव्ँ वि॒द्वाँस॑स् सव्ँवत्स॒रम् उ॑प॒यन्त्य् अना॑र्ता ए॒वोदृच॑ङ् गच्छन्ति ।

4अथ प्रायणीयोदयनीयावतिरात्रावस्य विधातुमाह - समुद्रं वा इत्यादि ॥ एते हि समुद्रं प्रप्लवन्ते आप्लवेन प्रतरन्ति ये संवत्सरसत्रमुपयन्ति । यश्च समुद्रे तरन् तस्य पारं न पश्यति स खलु ततो नोदेति नोत्तरति । संवत्सरसत्रं च दुस्तरत्वात् समुद्रस्थानीयम् । तस्य चैतौ पारस्थानीयौ अतिरात्रौ । तस्माद्य एवं विद्वांस उभयतोतिरात्रं संवत्सरसत्रमुपयन्ति ते अनार्ता ऐव दृष्टपारत्वादक्लेशा एव उदृचं सत्रसमाप्तिं गच्छन्तीति । अतिरात्रयोर्विधिः । ऋचेरुत्पूर्वात्संपदादिलक्षणः क्विप् ॥

मूलम् (संयुक्तम्)

इ॒यव्ँ वै पूर्वो॑ऽतिरा॒त्रो॑ऽसावुत्त॑रो॒ मन॒ᳶ पूर्वो॒ वागुत्त॑रᳶ प्रा॒णᳶ पूर्वो॑ऽपा॒न उत्त॑रᳶ प्र॒रोध॑न॒म्पूर्व॑ उ॒दय॑न॒मुत्त॑रो॒…

विश्वास-प्रस्तुतिः

इ॒यव्ँ वै पूर्वो॑ऽतिरा॒त्रो॑ऽसाव् उत्त॑रः । मन॒ᳶ पूर्वो॒ वागुत्त॑रः । प्रा॒णᳶ पूर्वो॑ऽपा॒न उत्त॑रः । प्र॒रोध॑न॒म् पूर्व॑ उ॒दय॑न॒म् उत्त॑रः ।

मूलम्

इ॒यव्ँ वै पूर्वो॑ऽतिरा॒त्रो॑ऽसाव् उत्त॑रः । मन॒ᳶ पूर्वो॒ वागुत्त॑रः । प्रा॒णᳶ पूर्वो॑ऽपा॒न उत्त॑रः । प्र॒रोध॑न॒म् पूर्व॑ उ॒दय॑न॒म् उत्त॑रः ।

भट्टभास्कर-टीका

5अथातिरात्रयोस्स्तुतिः - इयं वा इत्यादि ॥ इयं पृथिवी पूर्वः प्रायणीयोतिरात्रः । असौ द्यौरुत्तर उदयनीयोतिरात्रः । मनः पूर्व हति । पूर्वोत्तरत्वसाम्यात् । प्राणः पूर्व इति । प्रथमचरमसाम्यात् । प्ररोधनं परिग्रहः । उदयनमुत्थानम् ॥

मूलम् (संयुक्तम्)

ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता॑द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै चतुर्विँ॒शᳶ प्रा॑य॒णीयो॑ भवति

विश्वास-प्रस्तुतिः

ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒ । ज्योति॑रे॒व पु॒रस्ता॑द् दधते ,
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै । च॒तु॒र्विँ॒शᳶ प्रा॑य॒णीयो॑ भवति ।

मूलम्

ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒ । ज्योति॑रे॒व पु॒रस्ता॑द् दधते ,
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै । च॒तु॒र्विँ॒शᳶ प्रा॑य॒णीयो॑ भवति ।

भट्टभास्कर-टीका

6ज्योतिष्टोम इत्यादि ॥ यतम् । प्रायणीयस्येदं लक्षणम् ॥

मूलम् (संयुक्तम्)

चतु॑र्विँशतिरर्धमा॒साः [3]
सव्ँ॒व॒त्स॒रᳶ प्र॒यन्त॑ ए॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठन्ति॒ तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीया॒स्ताव॑तीस्सव्ँवत्स॒रस्य॒ रात्र॑य उ॒भे ए॒व सव्ँ॑वत्स॒रस्य॑ रू॒पे आ॑प्नुवन्ति॒ ते सँस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒रहो॑भिश्चरन्ति

विश्वास-प्रस्तुतिः

चतु॑र्विँशतिर् अर्धमा॒सास् सव्ँ॑वत्स॒रः । [3]

प्र॒यन्त॑ ए॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठन्ति । तस्य॒ त्रीणि॑ च श॒तानि॑ , ष॒ष्टिश्च॑ स्तो॒त्रीयाः॑ । ताव॑तीस् सव्ँवत्स॒रस्य॒ रात्र॑यः ।

मूलम्

चतु॑र्विँशतिर् अर्धमा॒सास् सव्ँ॑वत्स॒रः । [3]

प्र॒यन्त॑ ए॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठन्ति । तस्य॒ त्रीणि॑ च श॒तानि॑ , ष॒ष्टिश्च॑ स्तो॒त्रीयाः॑ । ताव॑तीस् सव्ँवत्स॒रस्य॒ रात्र॑यः ।

भट्टभास्कर-टीका

7चतुर्विंश इत्यादि ॥ प्रायणीयानन्तरमारम्भणीयश्चतुर्विंश उक्थ्यः कार्य इत्यर्थः । प्रयन्त एवेति । प्रयन्त एव आरभमाणा एव संवत्सरे प्रतितिष्ठन्ति समस्तसंवत्सरोत्रैव समापितो भवति । तस्येत्यादि । उक्थ्यस्य पञ्चदश स्तोत्राणि तानि च सर्वाणि चतुर्विंशानि । पञ्चदशानां चतुर्विंशतेश्च संवर्गः षष्ट्यधिकं शतत्रयम् । तावत्यः संवत्सरस्य रात्रय इति ।

विश्वास-प्रस्तुतिः

उ॒भे ए॒व सव्ँ॑वत्स॒रस्य॑ रू॒पे आ॑प्नुवन्ति । ते सँस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒र् अहो॑भिश् चरन्ति ।

मूलम्

उ॒भे ए॒व सव्ँ॑वत्स॒रस्य॑ रू॒पे आ॑प्नुवन्ति । ते सँस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒र् अहो॑भिश् चरन्ति ।

भट्टभास्कर-टीका

उभे एवेति । चतुर्विंशत्वेन अर्धमासानामाभिरूप्यं स्तोत्रियाभिरह्नामाभिरूप्यमित्यादि । प्रारम्भ एव प्राप्तस्य संवत्सरस्य समाप्त्यर्थमविनाशार्थं च उत्तरैरहोभिश्चरन्ति प्रारब्धस्य समाप्तिरेतावता भवतीति । यद्वा - संस्थित्यै संस्थित्याः संस्थाया अत्रैव लब्धाया अविनाशार्थमुत्तरैरहोभिः चरन्ति । षष्ठ्यर्थे चतुर्थी ॥

मूलम् (संयुक्तम्)

षड॒हा भ॑वन्ति॒ षड्वा ऋ॒तव॑स्सव्ँवत्स॒र ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठन्ति॒ गौश्चायु॑श्च मध्य॒तस्स्तोमौ॑ भवतस्सव्ँवत्स॒रस्यै॒व तन्मि॑थु॒नम्म॑ध्य॒तः [4]
द॒ध॒ति॒ प्र॒जन॑नाय॒ ज्योति॑र॒भितो॑ भवति वि॒मोच॑नमे॒व तच्छन्दाँ॑स्ये॒व तद्वि॒मोकय्ँ॑य॒न्त्यथो॑ उभ॒यतो॑ज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गल्ँ लो॒कय्ँय॑न्ति

विश्वास-प्रस्तुतिः

ष॒ड॒हा भ॑वन्ति । षड्वा ऋ॒तव॑स् सव्ँवत्स॒रः । ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठन्ति ।
गौश् चाऽयु॑श्च मध्य॒तस् स्तोमौ॑ भवतः ।

मूलम्

ष॒ड॒हा भ॑वन्ति । षड्वा ऋ॒तव॑स् सव्ँवत्स॒रः । ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठन्ति ।
गौश् चाऽयु॑श्च मध्य॒तस् स्तोमौ॑ भवतः ।

भट्टभास्कर-टीका

8षडहा इति ॥ चत्वारोभिप्लवा इत्युक्तम् । स्तुत्यर्थं पुनर्वचनम् । गौश्चायुश्चेति । तेषु षडहेषु ज्योतिषां मध्ये गोआयुषी उक्थ्यो भवतः स्तोमविशेषवन्तौ स्तोमौ । उक्थ्यस्यैव पुनर्वचनं स्तुत्यर्थम् ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रस्यै॒व तन् मि॑थु॒नम् म॑ध्य॒तः द॑धति । [4]
प्र॒जन॑नाय॒ ज्योति॑र् अ॒भितो॑ भवति । वि॒मोच॑नमे॒व तत् । छन्दाँ॑स्ये॒व तद् वि॒मोकय्ँ॑ य॒न्ति ।
अथो॑ उभ॒यतो॑ज्योतिषा + ए॒व ष॑ड॒हेन॑ सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

संवत्सरस्यैवेत्यादि । संवत्सरस्यैव मध्ये पुनःपुनः प्रवेशितं तत् मिथुनं प्रजननाय प्रजानां भवति । ज्योतिरभित इति । आदौ अन्ते च षडहस्य । विमोचनमेव तदिति । ज्योतिर्नाम विमोचनमिति । तेन छन्दांसि विमोकं ततो विमुच्य विस्रस्य यन्ति गच्छन्ति सत्रिणः । अथो इत्यादि । उभयतोज्योतिष्ट्वेनातिप्रकाशत्वात् स्वर्गं प्राप्नुवन्ति ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वद॒न्त्यास॑ते॒ केन॑ य॒न्तीति॑ देव॒याने॑न प॒थेति॑ ब्रूया॒च्छन्दाँ॑सि॒ वै दे॑व॒यान॒ᳶ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ ज्योति॒र्वै गा॑य॒त्री गौस्त्रि॒ष्टुगायु॒र्जग॑ती यदे॒ते स्तोमा॒ भव॑न्ति देव॒याने॑नै॒व [5]
तत्प॒था य॑न्ति

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वद॒न्ति + आस॑ते॒ केन॑ य॒न्तीति॑ ।
देव॒याने॑न प॒थेति॑ ब्रूयात् ।
छन्दाँ॑सि॒ वै दे॑व॒यान॒ᳶ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वद॒न्ति + आस॑ते॒ केन॑ य॒न्तीति॑ ।
देव॒याने॑न प॒थेति॑ ब्रूयात् ।
छन्दाँ॑सि॒ वै दे॑व॒यान॒ᳶ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती ।

भट्टभास्कर-टीका

9ब्रह्मवादिन इत्यादि ॥ आसते अमी सत्रिणः तेऽमी केन पथा यन्तीति ब्रह्मवादिनः पर्यनुयोगं वदन्ति । तत्र देवयानेन पथा यन्ति आसीना एव गच्छन्तीत्युत्तरं ब्रूयात् तेषाम् । देवा येन यन्ति स देवयानः पन्थाः देवयोग्यो मार्गः । छन्दासीत्यादि । गतम् ।

विश्वास-प्रस्तुतिः

ज्योति॒र्वै गा॑य॒त्री गौस् त्रि॒ष्टुग् आयु॒र्जग॑ती ।
यदे॒ते स्तोमा॒ भव॑न्ति , देव॒याने॑नै॒व तत्प॒था य॑न्ति ।[5]

मूलम्

ज्योति॒र्वै गा॑य॒त्री गौस् त्रि॒ष्टुग् आयु॒र्जग॑ती ।
यदे॒ते स्तोमा॒ भव॑न्ति , देव॒याने॑नै॒व तत्प॒था य॑न्ति ।[5]

भट्टभास्कर-टीका

ज्योतिर्वा इत्यादि । त्रीण्येवैतान्यहानि आवृत्त्या संवत्सरं प्रीणयन्ति । एतानि च गायत्र्याद्यात्मकानि । गायत्र्यादयश्च देवानां पन्था इति - आसीना एवामी अनेन पथा स्वर्गं यन्तीति ॥

मूलम् (संयुक्तम्)

समा॒नँ साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒व न य॑न्त्य॒न्याअ॑न्या॒ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒वान्यम॑न्यन्देवलो॒कम॑भ्या॒रोह॑न्तो यन्त्य्…

विश्वास-प्रस्तुतिः

स॒मा॒नँ साम॑ भवति । दे॒व॒लो॒को वै साम॑ । दे॒व॒लो॒कादे॒व न य॑न्ति ।

मूलम्

स॒मा॒नँ साम॑ भवति । दे॒व॒लो॒को वै साम॑ । दे॒व॒लो॒कादे॒व न य॑न्ति ।

भट्टभास्कर-टीका

10समानमित्यादि ॥ एकमेव साम भवति रथन्तरं वा बृहद्वा सर्वेष्वहस्सु । तस्यैकत्वात्तदात्मनो देवलोकान्न यन्ति न गच्छन्ति कदाचिदपि न वियुज्यन्ते ।

विश्वास-प्रस्तुतिः

अ॒न्याअ॑न्या॒ ऋचो॑ भवन्ति । म॒नु॒ष्य॒लो॒को॒ वा ऋचः॑ ।
मनुष्यलो॒काद् ए॒वान्यम् अ॑न्यन् देवलो॒कम् अ॑भ्या॒रोह॑न्तो यन्ति ।

मूलम्

अ॒न्याअ॑न्या॒ ऋचो॑ भवन्ति । म॒नु॒ष्य॒लो॒को॒ वा ऋचः॑ ।
मनुष्यलो॒काद् ए॒वान्यम् अ॑न्यन् देवलो॒कम् अ॑भ्या॒रोह॑न्तो यन्ति ।

भट्टभास्कर-टीका

अन्याअन्या इत्यादि । साम्नो योनिभूता ऋचोन्याअन्या भवन्ति ऋचः प्रत्यहं भिद्यन्ते । तासां च भेदात्तदात्मकात् मनुष्यलोकादन्यस्माच्च देवलोकमेवाभिमुख्येन आरोहन्तो यन्ति गच्छन्ति । व्यत्ययेन पञ्चम्यर्थे द्वितीया । यद्वा - मनुःष्यलोकान्नानासुकृतसाधनमनुष्यलोकवशात्तदनुरूपमन्यमन्यं देवलोकमेव प्राप्नुवन्ति न कदाचिद्देवलोकेन वियुज्यन्त इति ॥

मूलम् (संयुक्तम्)

अभिव॒र्तो ब्र॑ह्मसा॒मम्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्या

विश्वास-प्रस्तुतिः

अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मम् भ॑वति , सुव॒र्गस्य॑ लो॒कस्य अ॒भिवृ॑त्त्यै ।

मूलम्

अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मम् भ॑वति , सुव॒र्गस्य॑ लो॒कस्य अ॒भिवृ॑त्त्यै ।

भट्टभास्कर-टीका

11उक्तं समानं साम भवतीति; किं पुनस्तत्सामेत्याह - अभिवर्त इति ॥ अभिवर्ताख्यं ब्रह्मण एव साम भवति भिन्नान्येवान्यानि सामानि । कश्चिदाह - अभिवर्तत्वं ब्रह्मसाम्नोऽनेन विधीयते । सर्वत्रैव साम्र ऐक्यमिति । अभिवृत्त्या इति । सुवर्गस्य आभिमुख्येन प्राप्त्यर्थम् ॥

मूलम् (संयुक्तम्)

अभि॒जिद्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै विश्व॒जिद्भ॑वति॒ विश्व॑स्य॒ जित्यै॑ मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति मा॒सिमा॑स्यतिग्रा॒ह्या॑ गृह्यन्ते मा॒सिमा॑स्ये॒व वी॒र्य॑न्दधति मा॒साम्प्रति॑ष्ठित्या उ॒परि॑ष्टान्मा॒साम्पृ॒ष्ठान्युप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टा॒दोष॑धय॒ᳶ फल॑ङ्गृह्णन्ति ॥ [6]

विश्वास-प्रस्तुतिः

अ॒भि॒जिद् भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
वि॒श्व॒जिद् भ॑वति विश्व॑स्य॒ जित्यै॑ ।
मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति । मा॒सिमा॑स्य् अतिग्रा॒ह्या॑ गृह्यन्ते ।
मा॒सिमा॑स्ये॒व वी॒र्य॑न् दधति मा॒साम् प्रति॑ष्ठित्यै ।
उ॒परि॑ष्टान् मा॒साम् पृ॒ष्ठान्युप॑ यन्ति ।
तस्मा॑द् उ॒परि॑ष्टा॒द् ओष॑धय॒ᳶ फल॑ङ् गृह्णन्ति ॥ [6]

12अभिजिदित्यादि ॥ अभिजिद्विश्वजितोर्विधिः । पूर्वस्मिन्पक्षे परस्सम्नामधस्तात् अभिजिदुत्तरस्मिन्पक्षे स्वरसाम्नामुपरिष्टाद्विश्वजित् । मासिमासि पृष्ठानीति । न कश्चिदपि मासः पृष्ठशून्यः कार्यः । मासिमास्यतिग्राह्या इति । आग्नेयैन्द्रसौर्याः । अत्र नियमार्थं वचनम् । उपरिष्टादिति । क्वचित् चतुर्विंशादह्नः पराणि क्वचिदष्टादशात् । तस्मादित्यादि । गतम् ॥

इति सप्तमे पञ्चमे प्रथमोनुवाकः ॥