विस्तारः (द्रष्टुं नोद्यम्)
गायत्री, २,८,१०, १२,१४०१५ अनुष्टुप्, ३-६ द्विपदा गायत्री ४ एकपदा त्रिष्टुप् ५ पङ्क्तिः विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
विश्वास-प्रस्तुतिः
अम्बे॒ अम्बा॒ल्य् अम्बि॑के ।
मूलम्
अम्बे॒ अम्बा॒ल्य् अम्बि॑के ।
भट्टभास्कर-टीका
1महिषीं सर्वैरलङ्कारैरलङ्कृतां गर्हमाणां निह्नुवानां अध्वर्युरुदानयति - अम्ब इति गायत्र्या ॥ अध्वर्युणा महिष्यामन्त्रयते एतैस्त्रिभिरामन्त्रितैः पर्यायैः बहुभिरपि । हिंसादंचेदमध्येषणरूपं? । लोके हि प्रेमातिभरेण वक्तारो भवन्ति मातर्दारिके स्वामिनीति । एवमत्रापि वेदितव्यम् । भुङ्क्ष्वेति शेषः । ‘छन्दसि वेति वक्तव्यम्’ इति प्रथमस्याम्बार्थलक्षणह्रस्वत्वाभावः । तृतीयस्य तु ‘डलकवतीनां प्रतिषेधः’ इति प्रतिषेधः, ‘आमन्त्रितं पूर्वमविद्यमानवत्’ इत्यविद्यमानत्वान्निघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
न मा॑ नयति॒ कश्च॒न । स॒सस्त्य् अ॑श्व॒कः ।
मूलम्
न मा॑ नयति॒ कश्च॒न । स॒सस्त्य् अ॑श्व॒कः ।
भट्टभास्कर-टीका
अथ सा ब्रवीति - न मा नयति न मां यब्धुं क्षमो नयति कश्चन कश्चिदपि अयं चाश्वकः क्षमोपि ससस्ति स्वपिति । कुत्सायां प्रागिवीयः कः । मय्यशयानायामेव स्वयं तूष्णीं शेते इति रोषेण कुत्सा प्रयुक्ता । षस स्वप्ने, आदादिकः व्यत्ययेन शपश्श्लुः । केचिदेकवाक्यत्वेन व्याचक्षते - महिष्येव स्वात्मानमेव एतैरामन्त्रयते यब्धुरभावनिमित्तं विषादमिव दर्शयतीति । अन्ये पुनराहुः - अतिरभसप्रभवा यब्धुरेवामन्त्रितफणितय इति । एवं प्रयुञ्जानः को मामानीय भवेदिति ॥
मूलम् (संयुक्तम्)
सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के सम्प्रोर्ण्वा॑थाम् ।
विश्वास-प्रस्तुतिः
सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के सम्प्रोर्ण्वा॑थाम् ।
मूलम्
सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के सम्प्रोर्ण्वा॑थाम् ।
भट्टभास्कर-टीका
2अध्वर्युस्तार्प्येण वाससा महिषीमश्नं च संप्रोर्णोति - सुभग इति यजुषा ॥ हे सुभगे शोभनभगे काम्पीलवासिनि काम्पीलं नाम श्लाघ्यो वस्त्रविशेषः हे तद्वासिनि तदाच्छादिनि । यद्वा - काम्पीलो नाम देशविशेषः तत्र वसन्ती काम्पीलवासिनि । काम्पीले हि स्त्रियो दर्शनीया सुभगाश्च भवन्तीति प्रसिद्धिः । हे तथाभूते । उभयोरप्यामन्त्रिताद्युदात्तत्वम् । सा त्वमश्वश्च युवां सुवर्गे लोके स्वर्गलोकस्थानीये संज्ञपनस्थाने अस्मिन् संप्रोर्ण्वाथां संछन्नौ सहवसताम् । यद्वा - सुवर्गे लोके निमित्तसप्तम्यौ; स्वर्गस्थानीयं यद्भोगसुखं तन्निमित्तं संप्रोर्ण्वाथामिति । छान्दसो लिङ्गव्यत्ययः ॥
मूलम् (संयुक्तम्)
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् । तौ स॒ह च॒तुरᳶ॑ प॒दस्सम्प्र सा॑रयावहै ।
विश्वास-प्रस्तुतिः
आ ऽहम् अ॑जानि गर्भ॒धम् आत्वम् अ॑जासि गर्भ॒धम् ।
तौ स॒ह च॒तुरᳶ॑ प॒दस् सम्प्र सा॑रयावहै ।
मूलम्
आ ऽहम् अ॑जानि गर्भ॒धम् आत्वम् अ॑जासि गर्भ॒धम् ।
तौ स॒ह च॒तुरᳶ॑ प॒दस् सम्प्र सा॑रयावहै ।
भट्टभास्कर-टीका
3महिष्या उपस्थे शेफमाधत्ते - आऽहमजानीत्यनुष्टुभा ॥ आहमजानि त्वामाभिमुख्येन आगच्छामि । अज गतिक्षेपणयोः । गर्भधं गर्भधातारं त्वमपि मां आत्वमजासि आभिमुख्येनागच्छ । तस्मादेव धातोर्लोट्यडागमः । गर्भधं गर्भस्य धात्रीं धारयित्रीम् । छान्दसो लिङ्गव्यत्ययः । तावावां त्वं चाहं च सहशयानौ चतुरः पदः पादान् संप्रसारयावहै । अश्वास्याग्रिमौ हस्तावित्यभिप्रायः । स्त्रीपुंसयोर्मैथुनाय सहशयानयोश्चत्वारः पादाः संश्लिष्टाः प्रसारिताश्च भवन्ति । ‘पादः पत्’ इति पद्भावः, ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम्, ‘त्यदादीनां यद्यत्परम्’ इति अस्मदश्शेषः ॥
मूलम् (संयुक्तम्)
वृषा॑ वाँ रेतो॒धा रेतो॑ दधा॒तूत्स॒क्थ्यो॑र्गृ॒दन्धे॑ह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज । यस्स्त्री॒णाञ्जी॑व॒भोज॑नो॒ य आ॑साम् [47]
बि॒ल॒धाव॑नः । प्रि॒यस्स्त्री॒णाम॑पी॒च्यः॑ । य आ॑साङ्कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिम्प॒राव॑धीत् ।
विश्वास-प्रस्तुतिः
वृषा॑ वाँ रेतो॒धा रेतो॑ दधातु ।
उत्स॒क्थ्यो॑र् गृ॒दन् धे॑ह्य् अ॒ञ्जिम् उद॑ञ्जि॒म् अन्व॑ज ।
मूलम्
वृषा॑ वाँ रेतो॒धा रेतो॑ दधातु ।
उत्स॒क्थ्यो॑र् गृ॒दन् धे॑ह्य् अ॒ञ्जिम् उद॑ञ्जि॒म् अन्व॑ज ।
भट्टभास्कर-टीका
4तावध्वर्युरभिमन्त्रयते - वृषा वामित्यत्यष्ट्या अष्टपदया ॥ दधात्विति प्रथमपादान्तः । वां युवयोर्दम्पत्योर्मध्ये वृषा सेक्ता सेचनसमर्थः रेतोधाः रेतसो धाता पतिः रेतो दधातु स्थापयतु । तदर्थमित्थं कर्तव्यमित्याह - वृषणमूले सक्स्थ्योः तयोर्मध्ये गृदं गुदस्योर्ध्वप्रदेशं धेहि ऊर्ध्वं स्थापय यत् प्रजननं ब्राह्मणमाहुः । ‘ई च द्विवचने’ इति सक्थिशब्दस्य ईकारः । उदात्त इति तत्रानुवर्तते । ‘उदात्तयणः’ इति तिभक्तेरुदात्तत्वं बाधित्वा व्यत्ययेन ‘उदात्तस्वरितयोर्यणः’ इति स्वरितत्वं प्रवर्तते । ‘गृ सेचने’ इत्यस्मादौणादिके दक्प्रत्यये गृदमिति भवति । ततस्तथा कृत्वा अञ्जिं प्रजननं उदञ्जिं उपस्थं प्रवेशय । अञ्ज्यते प्रजा अनेनेति अञ्जिः । सर्वे चैते मन्त्राः प्रहेळिकास्थानीयाः अन्यपराक्षरत्वात् अश्वमेधप्राशस्त्याभिप्राया एव । ‘अप वा एतस्माच्छ्री राष्ट्रं क्रामति’ इत्यत्र तथैव प्रतिपादयिष्यते ।
विश्वास-प्रस्तुतिः
यस् स्त्री॒णाञ् जी॑व॒भोज॑नो॒ य आ॑साम्
बि॒ल॒धाव॑नः [47]।
प्रि॒यस् स्त्री॒णाम॑पी॒च्यः॑ ।
मूलम्
यस् स्त्री॒णाञ् जी॑व॒भोज॑नो॒ य आ॑साम्
बि॒ल॒धाव॑नः [47]।
प्रि॒यस् स्त्री॒णाम॑पी॒च्यः॑ ।
भट्टभास्कर-टीका
अधुना अञ्जिर्विशेष्यते - यस्स्त्रीणां जीवभोजनः जीवो भुङ्क्तेऽनेनेति जीवभोजनः । जीवो भुज्यते रक्ष्यते अनेनेति वा । अन्ये त्वाहुः - स्त्रीणां संबन्धि जीवभोजनः जीवत्वहेतुः भोजनं; अनेन हि भोगे सति पुरुषा जीवन्तीत्युच्यते, अन्यथा मृता एवेति । तादृशश्च भोगः अनेन क्रियते इति । स्त्रीणामिति ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ।
विश्वास-प्रस्तुतिः
य आ॑साङ् कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिम् प॒राव॑धीत् ।
मूलम्
य आ॑साङ् कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिम् प॒राव॑धीत् ।
भट्टभास्कर-टीका
पुनश्च विशेष्यते - य आसां स्त्रीणां बिलधावनः बिलं छिद्रं भीत धावति नान्यदस्याह्निकं कर्म । यद्वा - नैवं बिलधा- वनकुशलोन्योस्ति । ‘कृत्यल्युटो बहुलम्’ इति कर्तरि ल्युट् । किंच - प्रियः स्त्रीणां ‘नामन्यतरस्यां’ इति नाम उदात्तत्वम् । पुनश्च विशेष्यते - भृशं प्रीणयिता कीदृशस्सन् अपीच्यः अप्रकाशः अपिगमनमप्ययः अन्तर्धानं पुनःपुनश्चलनं वा । अपिपूर्वादञ्चतेः ‘ऋत्विक्’ इत्यादिना क्विन्प्रत्ययः । ततो ‘भवे छन्दसि’ इति यत्, ‘अचः’ इत्यकारलोपः, ‘चौः’ इति पूर्वपदस्य दीर्घत्वम् । अप्रकाशस्सन् पुनःपुनर्वा विशन् स्त्रीणां प्रीणन इति । तत्र किं कुर्वन् प्रीणयतीत्याह - योयमञ्जिरासां स्त्रीणां कृष्णे कर्षणीये लक्ष्मणि योनेरभ्यन्तरप्रदेशविशेषो लक्ष्म । उपस्थमिति केचित् स्त्रीणां व्यञ्जनमिति कृत्वा । तत्र सर्दिगृदिं सरणशीलं गुदस्योपरिभागं परावधीत् पराहन्ति । छान्दसो लुङ् । असिश्छिनत्तीतिवत् करणे कर्तृनिर्देशः । आरूढो ह्यनेन तं देशं पराहन्ति । उक्तं हि - अञ्जिं उदञ्जिमन्वजेति । सृ गतौ । गृ सेचने । आभ्यामौणादिकोऽप्रत्ययः । सारणमुत्सारणं पुंस उत्थान स्थानीयं यद्योनिबृह्मणमिति प्रसिद्धं तादृशं गृदिमिति कर्मधारयसमासे दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - सरणशीलो गृदिः यस्मिन् स्थानविशेषे यत् शुक्लेन सिच्यते तादृशं स्थानं सर्दिगृदिशब्देनोच्यते । ‘बहुव्रीहौ प्रकृत्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । सर्वथा व्युत्पत्त्यनवधारणात् नावगृह्यते । तादृशमुदञ्जिमन्वजेति ॥
मूलम् (संयुक्तम्)
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
विश्वास-प्रस्तुतिः
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य् अ॑श्व॒कः ।
मूलम्
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य् अ॑श्व॒कः ।
भट्टभास्कर-टीका
5महिषी गर्हते - अम्ब इत्यादिना ॥ मय्युपशयानायामपि न मा यभति । यभ मैथुने । ससस्त्येवायमश्वकः न कश्चिदन्यः क्षमः मां यब्धुम् । न वाऽन्योस्य व्यापारयिता ॥
मूलम् (संयुक्तम्)
ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रङ्गि॒रावि॑व । अथा॑स्या॒ मध्य॑मेधताँ शी॒ते वाते॑ पु॒नन्नि॑व ।
विश्वास-प्रस्तुतिः
ऊ॒र्ध्वामे॑ना॒म् उच्छ्र॑यताद् वेणुभा॒रङ् गि॒रावि॑व ।
अथा॑स्या॒ मध्य॑म् एधताँ शी॒ते वाते॑ पु॒नन्नि॑व ।
मूलम्
ऊ॒र्ध्वामे॑ना॒म् उच्छ्र॑यताद् वेणुभा॒रङ् गि॒रावि॑व ।
अथा॑स्या॒ मध्य॑म् एधताँ शी॒ते वाते॑ पु॒नन्नि॑व ।
भट्टभास्कर-टीका
6तां यजमानः अभिमेधति - ऊर्ध्वामित्यनुष्टुभा ॥ असहमान इव ब्रवीति । एनां योनिमूर्ध्वां उच्छ्रयतात् उछ्रिता कुरु उच्छ्रितं प्रजननं प्रत्युत्थितां कुरु वोणुभारमिव गिरौ भारहारः स यथा विवक्षुः जीवो गौरवेण भारमुच्छ्रयति । वेणुग्रहणं सुखनिपात्यत्वख्यापनार्थम् । अथानन्तरमस्यास्तथा उच्छ्रिताया मध्यमेधतां वर्धताम् । अभिमतान्तःप्रवेशेन । सर्वो ह्यभिमतलाभेन वर्धते हर्षं गच्छति यथा शीते वाते पुनन् खलपूः पवनेन श्रान्तो वातलाभेन वर्धेते । अन्य आह - यथा शीते वाते पुनन् वर्धते वर्धिष्यतीति त्वरते एवमस्या मध्य उच्छ्रयणानन्तरं वर्धिष्यतीति । एवमिमां कर्तुं ऋक्सामो (?) नास्ति अयं त्वश्व इदानीं विश्राम्यत्विति ॥
मूलम् (संयुक्तम्)
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
विश्वास-प्रस्तुतिः
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य् अ॑श्व॒कः ।
मूलम्
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य् अ॑श्व॒कः ।
भट्टभास्कर-टीका
7अथ सा तथैव गर्हते - अम्ब इति ॥ +++( सम्पादकटिप्पनी - व्याख्यानमन्यत्र मृग्यम्।)+++
मूलम् (संयुक्तम्)
यद्ध॑रि॒णी यव॒मत्ति॒ न [48]
पु॒ष्टम्प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ।
विश्वास-प्रस्तुतिः
यत् + ह॒रि॒णी यव॒म् अत्ति॒ , न पु॒ष्टम् प॒शु म॑न्यते ।[48]
मूलम्
यत् + ह॒रि॒णी यव॒म् अत्ति॒ , न पु॒ष्टम् प॒शु म॑न्यते ।[48]
भट्टभास्कर-टीका
8अथ वावाताऽभिमेधयति - यद्धरिणीत्यनुष्टुभा ॥ यदा हरिणी यवं क्षेत्रेषु उप्तमत्ति भक्षयति तदा न पशुं साधु पुष्टं मन्यते अकृतार्थैव पुनर्भक्षयति न कदाचिदपि पर्याप्तं मन्यते एवं अकृतार्थेव भूयोभूयो भोक्तुं इयमेव क्षमेति । पशुशव्दोऽसत्त्ववचनोव्ययम् । अन्य आह - यथा हरिणी क्षेत्रिकस्य अप्रज्ञातम् । ‘सुपां सुलुक्’ इति सुपो लुक् एवं भोक्तुं त्वमेव क्षमेति ।
विश्वास-प्रस्तुतिः
शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ।
मूलम्
शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ।
भट्टभास्कर-टीका
किञ्च - शूद्रा शूद्रजातीया स्त्री यवं भक्षयति तत्तं पुष्टमपि भोगं पशु न क्षेत्रिको मन्यते न जानाति । ‘सुपां सुलुक्’ इति सुपो लुक् । एवं भोक्तुं त्वमेव क्षमेति । किञ्च - शूद्रा शूद्रजातीया स्त्री । ‘शूद्रा चामहत्पूर्वा जातिः’ इति टाप् । सा यदा अर्यजारा भवति । अर्यो - ब्राह्मणादिः स जारो यस्याः । ‘अर्यस्स्वामिवैश्ययोः’ इति निपात्यते । सा किं तदानीं पोषाय कुटुम्बाभिवृद्धये धनायति स्पृहयति कुटुम्बं मे वर्धतां परिशुद्धमपत्यं मे जायतामिति नेयं प्रवर्तते भोगार्थं नूनं जानासि या त्वमेवं तृप्यसीति । ‘अशनायोद- न्यधनाया’ इति गर्भे निपात्यते । अन्य आह - धनायति धनमात्मन इच्छति ‘सुप आत्मनः’ इति क्यप् ‘न छन्दस्यपुत्रस्य’ इतीत्वाभावः । शूद्रा अर्यजारा भवन्ती तत्र किं पुष्ट्यर्थं धनमिच्छन्ती धनं जिघृक्षति । किञ्च या नूनं जाता तदेवमतृप्तभोगायैव भवसीति ॥
मूलम् (संयुक्तम्)
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
विश्वास-प्रस्तुतिः
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
मूलम्
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
भट्टभास्कर-टीका
9महिष्या अन्या राज्ञो भोग्या वावाता । अथ सा तथैव गर्हते - अम्ब इति ॥
मूलम् (संयुक्तम्)
इ॒यय्ँय॒का श॑कुन्ति॒काहल॒मिति॒ सर्प॑ति । आह॑तङ्ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ।
विश्वास-प्रस्तुतिः
इ॒यय्ँ य॒का श॑कुन्ति॒काऽऽहल॒मिति॒ सर्प॑ति ।
आह॑तङ् ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ।
मूलम्
इ॒यय्ँ य॒का श॑कुन्ति॒काऽऽहल॒मिति॒ सर्प॑ति ।
आह॑तङ् ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ।
भट्टभास्कर-टीका
10अथ तां परिवृक्त्योऽभिमेधन्ति - इयं यकेत्यनुष्टुभा ॥ राज्ञो द्वेष्या भार्या परिवृक्तिः । इयं शकुन्तिका शकुन्तजातीया स्त्री यका याकाचिदपि अविज्ञातविशेषत्वात् । अज्ञातार्थे प्रागिवीयः कः, ‘न यासयोः’ इतीत्वाभावः । इयं सर्वथाऽपि शकुन्तिका आहलं समन्ताच्छब्दयित्वा इति इत्यं यथा वयं पश्याम कुरर्यादिषु एवं भृशं शब्दायमाना दयितमेव सर्पति न जहाति एवं त्वमसीति । हल व्यक्तायां वाचि, छान्दसः कमुल प्रत्ययः । यद्वा - हला डति शकुन्तानामाह्वानशब्दः, आगतहलाशब्दं आहलम् । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । दयितमेवाह्वयन्ती सर्पति न जहातीति । किञ्च - गभे वर्णव्यत्ययः । पसः सुखकरं जलं आहतं आहननोद्गतम् । वर्णलोपो वा गर्भे स्थितं बहिरागतं निजल्गुलीति भृशं निगिरति ग्रसते जलं धाणिका पालनशीला । धेटो ल्युटि संज्ञायां कनि ‘केणः’ इति ह्रस्वत्वे छान्दसो नकारः । व्यत्यस्तविकृतानेकपदोपादानेन रतिरभसं दर्शयति । अन्य आह - धाणिका योनिरेतसो धात्री इयं धाणिका याकाचित् शकुन्तिकेव आहलमिति आकृष्टमिति कृत्वा आकर्षणेन विलेखनेन हेतुना स्वयं सर्पति अभिसर्पति । अस्मिन् पक्षे व्यत्ययेनाख्यातस्य निघाताभावः । किञ्च - गभे गर्भे चाहतं आपादितं पसः शुक्लं निजल्गुलीति निगिरति परिगृह्णाति । अथवा - आहतमिति कृत्वा असौ निजल्गुलीति ग्रसते पिदधाति एवमालपन्ती त्वं न तृप्यसीति ॥
मूलम् (संयुक्तम्)
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
विश्वास-प्रस्तुतिः
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
मूलम्
अम्बे॒ अम्बा॒ल्य् अम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।
भट्टभास्कर-टीका
11सा भूयोपि तथैव च गर्हते - अम्ब इत्यादिना ॥
मूलम् (संयुक्तम्)
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रव्ँ॑वृ॒क्षस्य॑ रोहतः । [49]
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तँसयत् ।
विश्वास-प्रस्तुतिः
मा॒ता च॑ ते पि॒ता च॒ ते , ऽग्रव्ँ॑ वृ॒क्षस्य॑ रोहतः । [49]
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम् अ॑तँसयत् ।
मूलम्
मा॒ता च॑ ते पि॒ता च॒ ते , ऽग्रव्ँ॑ वृ॒क्षस्य॑ रोहतः । [49]
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम् अ॑तँसयत् ।
भट्टभास्कर-टीका
12अथ तां सर्वा अङ्गना अभिमेधयन्ते - मातेत्यनुष्टुभा ॥ विकारे प्रकृतिशब्दः । वृक्षविकारस्य खट्वाया अग्रं उत्सङ्गं तव माता च पिता च पूर्वमारोहतः । अथ तत्रारुह्य तव पिता प्रसुलामि प्रसङ्गेन त्वां प्रेरयामीति तव मातरं प्रलोभ्य तव मातुर्गर्भे भगे मुष्टिं मुष्टिस्थानीयं खरं शेफं अतंसयत् प्रावेशयत् । षू प्रेरणे तौदादिकः, छान्दसो लकारः । तंसतिरवतंसनकर्मा वा । यद्वा - प्रसुलामि प्रसौमि अनुजानामि तवातिप्रसङ्गं यच्छक्नोषि तत्कुरुष्वेति करिष्यमाणमतिप्रसङ्गं प्रकाशयन् गर्भे मुष्टिं प्रावेशयदिति । षु प्रसवैश्वर्ययोः, आदादिकः । व्यत्ययेन शः । स्वपतेर्वा लेट्याडागमः, व्यत्ययेन शपो लुक् । ‘भूसुवोस्तिङि’ इति गुणाभावः । एवं त्वमपि अतिप्रसक्ताऽसि वर्तस्वेदानीमिति । अन्य आह - माता योनिः, पिता जननं; तावुभौ वृक्षस्य वर्षणव्यापारस्य अग्रं परां काष्ठां रोहतः प्राप्तवन्तौ अथानन्तरं पिता प्रसुलामि प्रकर्षेण प्रेरितं मयेति एतावन्तं कालमनुज्ञातं मयेति वा कृपामतीवोद्भावयन् तव गर्भे मातरि कृतमुष्टिं संयोगमुद्रामतंसयत् शिथिलीकृत्य निरगमत्; तेनेदानीमुत्तिष्ठेति । तसु क्षये छान्दसो नुमागमः ॥
मूलम् (संयुक्तम्)
द॒धि॒क्राव्ण्णो॑ अकारिषञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूँ॑षि तारिषत् ।
विश्वास-प्रस्तुतिः
द॒धि॒क्राव्ण्णो॑ अकारिषञ् जि॒ष्णोर् अश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूँ॑षि तारिषत् ।
मूलम्
द॒धि॒क्राव्ण्णो॑ अकारिषञ् जि॒ष्णोर् अश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूँ॑षि तारिषत् ।
भट्टभास्कर-टीका
13सर्वे सुरभिमतीमृचं जपन्ति - दधिक्राव्ण्ण इत्यनुष्टुभा ॥ व्याख्यातेयं ‘वैश्वानरो नः’ इत्यत्र । दधीनि वारणहवींषि क्रमतोग्नेः जिष्णोः जयशीलस्य अश्वस्य व्यापकस्य वाजिनः अन्नवतः अहमकार्षं कर्मकरस्स्याम् । स चास्माकं मुखानि सुरभीणि सुकृतैः समासादितसौरभाणि करोतु । आयूंषि च अस्मभ्यं प्रतारिषत् वर्धयत्विति ॥
मूलम् (संयुक्तम्)
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ [50]
विश्वास-प्रस्तुतिः
आपो॒ हि ष्ठा म॑यो॒भुव॒स् , ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ।
यो व॑श् शि॒वत॑मो॒ रस॒स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒तरः॑ ।
तस्मा॒ अर॑ङ् गमाम वो॒ , यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥ [50]
मूलम्
आपो॒ हि ष्ठा म॑यो॒भुव॒स् , ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ।
यो व॑श् शि॒वत॑मो॒ रस॒स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒तरः॑ ।
तस्मा॒ अर॑ङ् गमाम वो॒ , यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥ [50]
भट्टभास्कर-टीका
14अद्भिर्मार्जयन्ते - आपो हिष्ठेति तिसृभिर्गायत्रीभिः ॥ एताश्च तिस्रः ‘वि पाजसा’ इत्यत्र व्याख्याताः । हे आपः यूयं आपो व्यापिकास्स्थ । मयोभुवः सुखस्य भावयित्र्यः ता यूयं ऊर्जे अन्नार्थं रसार्थं वा दधातन धारयत । महते रमणीयाय दर्शनीयाय वा युष्माकं शिवतमो रसः तमस्मान् सेवयत । इहास्मिन्कर्मणि कामयमानाः स्नेहवत्यो मातर इव युष्माकं सम्बन्धिने तस्मै रसाय पर्याप्तये अरं गमाम ततः पर्याप्तं गम्यास्म । यस्य रसस्य निवासभूतं पुरुषं जिन्वथ प्रीणयत । अस्माकं जनयथ च जातान् कुरुत, युष्मदीयरसलाभेन हि जाता भवन्तीति ॥
इति सप्तमे चतुर्थे एकोनविंशोनुवाकः ॥