विस्तारः (द्रष्टुं नोद्यम्)
१-४ अनुष्टुप् ५-६ त्रिष्टुप् विश्वेदेवा ऋषयः
विश्वास-टिप्पनी
अथ होतुः प्रश्नाः ब्रह्मणः प्रतिवचानानि।
मुक्तसमये तत्त्वज्ञानं खलु विमृशेयुर् यागेष्व् इति शिष्टाः।
द्यव्य् अश्वावी
विश्वास-प्रस्तुतिः
किँ स्वि॑द् आसीत् पू॒र्व-चि॑त्ति॒ᳶ+++(=ज्ञानम्)+++,
किँ स्वि॑द् आसीद् बृ॒हद् वयः॑+++(=पक्षी)+++ ।
किँ स्वि॑द् आसीत् पिशङ्गि॒ला+++(=नानावर्णा)+++ ,
किँ स्वि॑द् आसीत् पिलिप्पि॒ला+++(=प्रीणयित्री)+++ ।
मूलम्
किँ स्वि॑दासीत्पू॒र्वचि॑त्ति॒ᳵ किँ स्वि॑दासीद्बृ॒हद्वयः॑ । किँ स्वि॑दासीत्पिशङ्गि॒ला किँ स्वि॑दासीत्पिलिप्पि॒ला ।
भट्टभास्कर-टीका
1अथ होतुः प्रश्नाः ब्रह्मणः प्रतिवचानानि - किं स्विदासीदित्यादीनि आनुष्टुभस्सर्वोनुवाकः । पृच्छामीति द्वे त्रिष्टुभौ । तत्र प्रथमा ‘किं स्वित्’ इति प्रश्नः । किमिति सामान्यविवक्षया नपुंसकत्वम् । स्विदिति वितर्के । किन्नु पूर्वचित्तिरासीत् पूर्वा प्रथमा चित्तिः ज्ञानमस्याः किन्नु इदमेव श्रेष्ठमिति प्रथमं चिन्त्यत इत्यर्थः । उत्तरापेक्षया स्त्रीलिङ्गता । यद्वा - पूर्वे देवाः त एव चित्तयश्चेतयितारो यस्याः । कर्मणि क्तिन्, कर्तरि बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तत्रा न्तोदात्तत्वं छान्दसम् । किन्नु खलु बृहत् महत् वयः अन्नमयमासीत् । यदन्नं लब्ध्वा पुनरन्यदन्नं न मृग्यं भवति तन्महत् ।
किं वा नु खलु पिशङ्गिलाऽऽसीत् । पिश अवयवे रौधादिकः । इगुपधलक्षणः कः । पिशशव्देन रूपादीन्युच्यन्ते । तानि गिरति छादयतीति छान्दसः कः, करणं वा ‘घञर्थे कविधानं’ इति कः । पचाद्यचि वा ‘बहुलं छन्दसि’ इति कित्वम, ‘अचि विभाषा’ इति लत्वं पर्वूपदस्याम्भावः । यद्वा - पिशङ्गो नानावर्णः तेन तद्वती पिशङ्गिला तुन्दादिलक्षणा इलच् । केन रूपादिकं छाद्यते केन वा प्रकाश्यते इत्यहोरात्राभिप्रायेण प्रश्नः । नानावर्णता चाहर्मिश्रत्वात् । किं वा स्वित् पिलिप्पिला आसीत् अत्यर्थं प्रीणयित्री पिलिप्पिला । पृ प्रीतौ, यङ्लुगन्तात्परिपर्तेः पचाद्यचि गुणे उपधाया इत्त्वं उभयत्र लत्वं पकारोपजनः, अभ्यासस्य चेत्वं छान्दसम् । पिलिप्पिलेति धात्वन्तरमौज्ज्वल्यवाचीति केचित् । ततः पचाद्यच् । का स्वित् उज्ज्वलयित्री प्रजानामिति ॥
परिहाराः
विश्वास-प्रस्तुतिः
द्यौर् आ॑सीत् पू॒र्व-चि॑त्ति॒र् ,
अश्व॑+++(=दधिक्रावा प्रोषपदासु)+++ आसीद् बृ॒हद् वयः॑+++(=सूर्यः)+++ ।
रात्रि॑र् आसीत् पिशङ्गि॒ला,
ऽवि॑र्+++(=मेषराशिः)+++ आसीत् पिलिप्पि॒ला ।
मूलम्
द्यौरा॑सीत् पू॒र्वचि॑त्ति॒र् , अश्व॑ आसीद् बृ॒हद् वयः॑ ।
रात्रि॑रासीत् पिशङ्गि॒लाऽवि॑रासीत् पिलिप्पि॒ला ।
विश्वास-टिप्पनी
- सूर्योऽश्वः, बृहद् वयोऽपि। अवतीत्य् अविः। आदित्यप्रभवा श्रीर्वा सा। ‘श्रीर्वै पिलिप्पिला’ इति च ब्राह्मणम्।
- If the horse (दधिक्रावा - say pegasus) was the big bird (sun), it might make nearby aviH (meSha) “pilappila” at sandhyA.
भट्टभास्कर-टीका
2अथ उत्तराणि - द्यौरित्यादीनि ॥ द्यौः पूर्वचित्तिः चित्यानां मुख्यत्वात् देवैर्ज्ञातव्यत्वाच्च । तस्य च साधनं अश्वो बृहद्वयः । तेन हि सकृदिष्ट्वा वरामुच्छ्रितिं प्राप्य पुनरन्यत्स्थानं भोगार्थमिच्छतीति तस्य निमित्तकारणम् । रात्रिः पिशङ्गिला सा हि रूपाणां छादयित्री स्वयं च प्रकाशाप्रकाशव्यामिश्ररूपा, तारकाभिरन्धकारेण च समन्वितत्वात्, अहर्मिश्रत्वाद्वा । अथ तस्याप्यभिवृद्धिकारणं अविः पिलिप्पिला अवति विश्वमित्यविः वृष्टिः । आदित्यप्रभवा श्रीर्वा । सा हि जगत् भृशं प्रीणयति ज्वलयति च ‘श्रीर्वै पिलिप्पिला’ इति च ब्राह्मणम् ॥
सूर्यचन्द्राग्नि-भूमयः
विश्वास-प्रस्तुतिः
कस् स्वि॑द् एका॒की च॑रति॒ ,
क उ॑ स्विज् जायते॒ पुनः॑ ।
किँ स्वि॑द् हि॒मस्य॑ भेष॒जङ् ,
किँ स्वि॑द् आ॒वप॑नम् म॒हत् ।
मूलम्
कस्स्वि॑द् एका॒की च॑रति॒ , क उ॑ स्विज् जायते॒ पुनः॑ ।
किँ स्वि॑द् हि॒मस्य॑ भेष॒जङ् , किँ स्वि॑द् आ॒वप॑नम् म॒हत् ।
भट्टभास्कर-टीका
3’किं स्विदासीत्’ इत्यादयः प्रश्नाः उक्तान्य् आदित्य-व्यापार-जानि प्रश्न-प्रतिवचनानि । इदनीम् आदित्यम् आरभ्य प्रश्नाः क्रियन्ते -
को नु खलु एकाकी असहायश् चरति;
सामर्थ्यात् सर्वदेति गम्यते ।
सर्वो हि कदाचिद् एकाकी चरति । प्रकृतत्वाच्च वृष्टेः प्रवर्तयिता एकाकी चरतीति । क एव खलु पुनर्जायते अत्रापि सामर्थ्यात् पुनःपुनरिति गम्यते । सर्वोपि हि मृत्वा पुनर्जायते । प्रकृतत्वाच्चादित्यवशात् पुनःपुनर्जायत इति । किं नु खलु हिमस्य शैत्यस्य भेषनं निवर्तकं प्रकृतत्वाच्च चन्द्रमसोत्पादितस्य । किन्नु खलु महदावपनं आवापस्थानं उप्यन्ते अस्मिन्नित्यावपनम्॥
विश्वास-प्रस्तुतिः
सूर्य॑ एका॒की च॑रति ,
च॒न्द्रमा॑ जायते॒ पुनः॑ ।
अ॒ग्निर् हि॒मस्य॑ भेष॒जम् ,
भूमि॑र् +++(ओषध्यादीनां)+++ आ॒वप॑नम् म॒हत् ।
मूलम्
सूर्य॑ एका॒की च॑रति ,
च॒न्द्रमा॑ जायते॒ पुनः॑ ।
अ॒ग्निर् हि॒मस्य॑ भेष॒जम् ,
भूमि॑र् आ॒वप॑नम् म॒हत् ।
भट्टभास्कर-टीका
4अथोत्तराणि - सूर्य इत्यादीनि ॥ सूर्योऽसहायः सर्वदा दिवि चरति । सेनान्यादीनामनुपलम्भात् असहायत्वं मन्यन्ते । चन्द्रमाः पुनःपुनरादित्याज्जायते । तदुत्पादितस्य हिमस्याग्निर्भेषजम् । तत्सृष्टानामोषध्यादीनां भूमिरावपनमिति ॥
विश्वास-प्रस्तुतिः
पृ॒च्छामि॑ त्वा॒ पर॒म् अन्त॑म् पृथि॒व्याᳶ ,
पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॑म् ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतᳶ॑ ,
पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्ँ व्यो॑म ।
मूलम्
पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म् पृथि॒व्याᳶ ,
पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॑म् ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑ᳶ ,
पृ॒च्छामि॑ वा॒चᳶ प॑र॒मव्ँ व्यो॑म ।
भट्टभास्कर-टीका
5एवं भूम्यन्तानि प्रश्नप्रतिवचनानि । अधुना भूमेर् आरभ्य प्रश्नाः क्रियन्ते -
पृच्छामीत्याद्याः ॥
हे ब्रह्म त्वां पृच्छामि पृथिव्याः परमन्तं यत्र सर्वा पृथिवी समाप्ता । अथ तत्र प्रतिष्ठितां भुवनस्य नाभिं पृच्छामि यत्र प्रतिबद्धं सर्वं जीवति स नाभिः ‘नहोभश्च’ इतीङ्प्रत्ययः । हेतुं च पृच्छामि तस्य वृष्णो वर्षितुरश्वस्य व्यापकस्य किं रेतः यतस्सर्वं जायते । अथ तच्च पृच्छामि वाचो वेदात्मिकायाः ऋगादेः तस्य रेतसो विधात्र्याः किं परमं व्योम प्रकृष्टं रक्षास्थानं सर्गप्रतिसर्गनिबन्धनं व्योमेति । विपूर्वादवतेः मन्प्रत्ययः, ‘ज्वरत्वरस्रिव्यविमवाम्’ इत्यादिना ऊठि गुणः ॥
विश्वास-प्रस्तुतिः
वेदि॑म् आहु॒ᳶ पर॒म् अन्त॑म् पृथि॒व्या ,
य॒ज्ञम् आ॑हु॒र् भुव॑नस्य॒ नाभि॑म् ।
सोम॑म् आहु॒र् वृष्णो॒ अश्व॑स्य॒ रेतो॒ ,
ब्रह्मै॒व वा॒चᳶ प॑र॒मव्ँ व्यो॑म ॥ [46]+++(5)+++
मूलम्
वेदि॑माहु॒ᳶ पर॒मन्त॑म् पृथि॒व्या ,
य॒ज्ञमा॑हु॒र् भुव॑नस्य॒ नाभि॑म् ।
सोम॑माहु॒र् वृष्णो॒ अश्व॑स्य॒ रेतो॒ ,
ब्रह्मै॒व वा॒चᳶ प॑र॒मव्ँ व्यो॑म ॥ [46]
भट्टभास्कर-टीका
6अथोत्तराणि वेदिमित्यादीनि ॥
पृथिव्याः परमन्तं वेदिमाहुः ब्रह्मवादिनः
‘सा वा इयं सर्वैव वेदिः’ इति च स्तूयते ।
तत्र निवर्त्यं यज्ञमाहुः भुवनस्य सर्वस्य भूतजातस्य नाभिः ।
तस्य वृष्णः अश्वस्य यज्ञस्य रेतः सोममाहुः सर्वस्य बीजं यागद्वारेण वृष्ट्याद्युत्पत्तिहेतुत्वात् ।
अश्वस्यैव वा वर्षितुः सोमो रेतः सर्वलोकजीवनोदकहेतुभूतसोमसाधनत्वात् ।
तत्फलं वाचः परमं व्योम ब्रह्मैव परमात्मैव प्राप्यत इति ॥
इति सप्तमे चतुर्थे अष्टादशोनुवाकः ॥