१५ शुनः प्रहारः

विश्वास-प्रस्तुतिः

+++(श्वानं हन्यमानम् अनुमन्त्रयते। द्विपदा गायत्री।)+++
यो अर्व॑न्त॒ञ्+++(=अश्वं)+++ जिघाँ॑सति॒
तम् अ॒भ्य॑मीति॒+++(=अभिनाशयतु)+++ वरु॑णः ।


विश्वास-प्रस्तुतिः

+++(तं हतं अश्वस्याधस्पदमुपास्यति। एकपदा गायत्री)+++
प॒रो +++(शुना)+++ मर्तᳶ॑+++(=मर्त्यः)+++, प॒रश् श्वा +++(वरुणदण्डितः)+++।


विश्वास-प्रस्तुतिः

+++(ब्रह्मा यजमानस्य हस्तं गृह्णाति। पङ्क्तिः।)+++
अ॒हञ् च॒ त्वञ् च॑ वृत्रह॒न्त् सम्ब॑भूव , स॒निभ्य॒ आ ।
अ॒रा॒ती॒वा+++(=अदानौ →अल्पदानौ)+++ चि॑द्+++(=अपि)+++ +++(हे)+++ अद्रि॒वो+++(=अद्रिमन् → वज्रवन्)+++! ऽनु॑ नौ शूर मँसतै+++(=मन्यताम्)+++ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ।

विश्वास-प्रस्तुतिः

+++(त्रिष्टुप्)+++
अ॒भि क्रत्वे॑न्द्र भू॒र् अध॒ ज्मन्+++(←जम् = गम्)+++
न ते॑ विव्यङ्+++(←व्यच् व्याजे, व्याप्तौ)+++ महि॒मानँ॒ रजाँ॑सि ।
स्वेना॒ हि वृ॒त्रँ शव॑सा ज॒घन्थ॒
न शत्रु॒र् अन्तव्ँ॑ विविदद् यु॒धा ते॑ ॥ [41]